०१.०१
विश्वास-प्रस्तुतिः
ॐ कटुके कटुकपत्त्रे सुभगे आसुरि रक्ते रक्तवाससे । अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
अमुकं हनहन दहदह पचपच मथमथ । तावद् दह तावत् पच यावन् मे वशम् आनयसि स्वाहा ॥

०१.०३
विश्वास-प्रस्तुतिः
शय्यावस्थितायास् तावज् जपेद् यावत् स्वपिति ॥ प्रस्थिताया गतिं दह स्वाहा ॥ उपविष्टाया भगं दह स्वाहा ॥ सुप्ताया मनो दह स्वाहा प्रबुद्धाया गृदयं दह स्वाहेति ॥

०१.०४
विश्वास-प्रस्तुतिः
अथात आसुरीकल्पम् उपदेशाद् अथर्वणः । नास्यास् तिथिर् न नक्षत्रं नोपवासो विधीयते ॥

०१.०५
विश्वास-प्रस्तुतिः
घृतादिद्रव्यसर्वेषु आसुरी शतजापिता । पत्त्राद्यवयवश् चास्या जिकैषा चानुयायिनी ॥

०१.०६
विश्वास-प्रस्तुतिः
हन्तुकामो हि शत्रूंश् च वशीकुर्वंश् च भूपतीन् । आसुरीश्लक्ष्णपिष्टाज्यं जुहुयाद् आकृतिं बुधः ॥

०१.०७
विश्वास-प्रस्तुतिः
अर्केन्धनाग्निं प्रज्वाल्य छित्त्वास्त्रेणाकृतिं तु ताम् । पादाग्रतो ऽष्टसहस्रं जुहुयाद् यस्य वश्य् असौ ॥

०१.०८
विश्वास-प्रस्तुतिः
घृताक्तया स्त्री वशिनी पालाशाग्नौ द्विजोत्तमाः । गुडाक्तया क्षत्रियास् तु वैश्यास् तु दधिमिश्रया ॥

०१.०९
विश्वास-प्रस्तुतिः
शूद्रास् तु लवणमिश्रै राजिकां पिष्टयेद् बुधः । आ सप्ताहात् सर्व एते आसुरीहोमतो वशाः ॥

०१.१०
विश्वास-प्रस्तुतिः
कटुतैलेन त्रिसन्ध्यं कुलोच्छेदं करोति हि । शुनां तु लोमभिः सार्धम् अपस्मारी त्रिभिर् दिनैः ॥

०१.११
विश्वास-प्रस्तुतिः
निवृत्तिः क्षीरमध्वाज्यैर् लवणेन तु सज्वरी । अर्कैधःसमिदग्नौ तु कार्यो विस्फोटसम्भवः ॥

०१.१२
विश्वास-प्रस्तुतिः
तेषाम् उपशमं विद्यात् सुराश्वर्या घृतेन च । अर्कक्षीराक्तयाऋकाग्नाव् अक्षिणी स्फोटयेद् द्विषः ॥

०१.१३
विश्वास-प्रस्तुतिः
गतासुमांसं तस्यैव निर्माल्यं चितिभस्म च । एषां चूर्णेन संस्पृष्टो हास्यशीलो ऽभिजायते ॥

०१.१४
विश्वास-प्रस्तुतिः
अजाक्षीराक्तया होमात् तस्य मोक्षो विधीयते । तगरं कुष्ठमांसी च तस्याः पत्त्राणि चैव हि ॥

०१.१५
विश्वास-प्रस्तुतिः
एतैः श्लक्ष्णैस् तु संस्पृष्टः पृष्ठतः परिधावति । तस्याः फलानि मूलानि सुरभीहस्तिमेदसा ॥

०१.१६
विश्वास-प्रस्तुतिः
सूक्ष्मात् तद्द्रव्यसंस्पर्शाद् अनुधावत्य् अचेतसः । अछिद्रपत्त्राण्य् असित उशीरः सर्षपास् तथा ॥

०१.१७
विश्वास-प्रस्तुतिः
एतच्शूर्णात् पूर्वफलं घृते चैवापराजयः ॥
मूलम्
एतच्शूर्णात् पूर्वफलं घृते चैवापराजयः ॥
०२.०१
विश्वास-प्रस्तुतिः
कुसुमानि मनह्शिलाप्रियङ्गुतगराणि च । गजेन्द्रमदसंयुक्तं किं कुर्वाणस् त्व् अकृद् वरम् ॥

०२.०२
विश्वास-प्रस्तुतिः
याश् च स्त्रियो ऽभिगच्छन्ति ता वशाः पदालेपतः । सपुष्पां तां समादाय अञ्जनं नागकेशरम् ॥

०२.०३
विश्वास-प्रस्तुतिः
अनेनाक्ताभ्याम् अक्षिभ्यां यम्यं पश्येत् स किङ्करः । अञ्जनं तगरं कुष्ठं देवीजं काष्ठम् एव च ॥

०२.०४
विश्वास-प्रस्तुतिः
माण्सी च सर्वभूतानां सौभाग्यस्य तु कारणम् । तत्समिधां लक्षहोमान् निधानं पश्यते महत् ॥

०२.०५
विश्वास-प्रस्तुतिः
सर्पिर्दधिमध्वक्तपत्त्राणां वृद्धपुत्री सहस्रतः । राज्यं तु लभते वश्यं तत्पत्त्रत्रिसहस्रतः ॥

०२.०६
विश्वास-प्रस्तुतिः
स्वर्णसहस्रस्याप्तिस् तु तत्पुष्पाणां तु लक्षतः । सहस्रजापाच् च तद्वद् उदके क्षीरभक्षिणः ॥

०२.०७
विश्वास-प्रस्तुतिः
वारिपूर्णे ऽथ कलशे लोकेशीपल्लवान् क्षिपेत् । स्नानाद् अलक्ष्म्या मुच्येत सौवर्णकलशे ऽपि तु ॥

०२.०८
विश्वास-प्रस्तुतिः
विनायकेभ्यः स्नानतो दौर्भाग्याच् चैव दुर्भगात् । पृष्ठतश् चानुधावन्ति संस्पृष्ट उदकेन तु ॥

०२.०९
विश्वास-प्रस्तुतिः
उशीरं तगरं कुष्ठं मुस्ता तत्पत्त्रसर्षपाः । चूर्णेनाभिहतस् तूर्णम् ईश्वरो ऽपि वशो भवेत् ॥

०२.१०
विश्वास-प्रस्तुतिः
तुलसीभूमहादेवीचूर्णस्पृष्टस् तथा वशी । राजाभयं सुरेश्वरीमार्जनाद् भारणात् तथा ॥

०२.११
विश्वास-प्रस्तुतिः
न स्यात् तस्याद्भुतं किं चिन् न क्षुद्रोपद्रवस् तथा । नानैश्वर्यं नाप्रजत्वं यस्य देव्य् आसुरी गृहे ॥