३४ अनुलोमकल्पः

०१.०

विश्वास-प्रस्तुतिः

ॐ नमो ऽथर्ववेदाय ॥

मूलम्

ॐ नमो ऽथर्ववेदाय ॥

०१.०१

विश्वास-प्रस्तुतिः

अक्षरानि विलोमानि न स्वरं प्रतिलोमयेत् । प्रत्यारम्भनिघातेषु स्थानान्य् अन्यानि निर्दिशेत् ॥

०१.०२

विश्वास-प्रस्तुतिः

यकारस् तु तकारान्तो अन्त्यस्वरितसञ्ज्ञितः । स तूदात्तः स एवादौ दकारः शिष्यते गुरुः ॥

०१.०३

विश्वास-प्रस्तुतिः

दकारात् स्वर्यते नीचम् उपोदात्ते प्र योजयेत् । अन्यानि तु यथापूर्वम् उदात्तप्रचितानि तु ॥

०१.०४

विश्वास-प्रस्तुतिः

प्रथमो ऽष्टाक्षरो ऽर्धर्चो द्वितीयः षोडशाक्षरः । आदाव् अन्ते च विज्ञेया व्याहृतिश् चाप्य् अथर्वणाम् ॥

०१.०५

विश्वास-प्रस्तुतिः

रक्तवर्णा विलोमा च यमेन परिकीर्तिता । सर्वशत्रुविनाशाय सर्वकर्मार्थसिद्धये ॥

०१.०६

विश्वास-प्रस्तुतिः

मृत्युश् च देवता चास्या निछन्नं छन्द उच्यते । स्वाहाकारे तु फट्कारः कोटिहोमे विधिः स्मृतः ॥

०१.०७

विश्वास-प्रस्तुतिः

अनुलोमां विलोमां वा गायत्रीं यः पठेत् सदा । सर्वार्थास् तस्य सिध्यन्ति न चानर्थान् समश्नुते ॥

०१.०८

विश्वास-प्रस्तुतिः

त् या द चो प्र नः यो यो धि ॥ हि म धी स्य व दे र्गो भ यम् णी रे र्व तु वि त्स त त् ॥