३३ घृतकम्बलम्

०१.०१

विश्वास-प्रस्तुतिः

ॐ ब्रह्मणे ब्रह्मवेदाय नमस्कृत्वा स्वयम्भुवे । घृतकम्बलं प्रवक्ष्यामि ब्रह्मणो निगदो यथा ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

बृहस्पतिर् महेन्द्राय चकार घृतकम्बलम् ॥

मूलम्

बृहस्पतिर् महेन्द्राय चकार घृतकम्बलम् ॥

०१.१३

विश्वास-प्रस्तुतिः

अथेन्द्रो ह वा असुरैः पराजितश् चिन्ताम् आपेदे

०१.०४

विश्वास-प्रस्तुतिः

तं सविताब्रवीत् प्रायश्चित्तं कुरुष्वाप्रतिरुद्धो भविष्यसीति

०१.०५

विश्वास-प्रस्तुतिः

तम् इन्द्रो ऽब्रवीत् ॥ भगवन् त्वम् एवाप्रतिरुद्धः प्रायश्चित्तं कुर्व् इति ॥

०१.०६

विश्वास-प्रस्तुतिः

स प्रायश्चित्तम् अकरोत्

मूलम्

स प्रायश्चित्तम् अकरोत्

०१.०७

विश्वास-प्रस्तुतिः

पुण्ये नक्षत्रे बार्हस्पत्ये मुहूर्ते ऽभिजित्य् औदुम्बरं कुम्भं द्रोणेन साढकेन पूरयित्वा तस्मिन्न् एव वासप्रभृतयः ओषधयो दर्भप्रभृतयश् च बिल्वगौरसर्षपाश् चेत्य् एतान् सम्भारान् सम्भृत्य घृतकुम्भं बर्हिष्य् आधायैतैर् गणैर् आज्यं जुहुयात् ॥

०१.०८

विश्वास-प्रस्तुतिः

प्र पतेत इत्य् एकेनाङ्गादङ्गाच् छमलम् अवलिख्य सपत्नं भ्रातृव्यं हृदये इमर्मणि वासिनाविध्य गोमयेन काषायेण वाच्छाद्य शान्तेर् अप्रतिघातकं कर्म ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रम् अकरोत्

०१.०९

विश्वास-प्रस्तुतिः

तस्य ह वा एतस्य घृतकम्बलस्य सावित्रीगणशरीरस्य शन्तातीयः शिरः त्रिषप्तीयो मुखं रुद्ररौद्रौ चक्षुषी घृतलिङ्ग आस्यं नैरृतो जिह्वा दन्तोष्ठाव् अभयापराजितौ कृत्यादूषणचातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू मातृनामवाष्टोष्पत्यौ पादौ॥॥पायुश् च भैषज्यं न्यायः प्राणापानाव् इति मीमांसत इत्य्

०१.१०

विश्वास-प्रस्तुतिः

एष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः पुत्रो ऽपराजितगणेनेष्ट्वेन्द्रो ऽसुरान् अजयन् मृत्युम् अलक्ष्मीम् अरातिं दुःस्वप्नदुर्भूतान्य् अजयद्

०१.११

विश्वास-प्रस्तुतिः

यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्वकामान् आप्नोति सर्वव्याधिरहितो भवति ब्रह्मलोकम् अवाप्नोतीति ब्राह्मणम् ॥

०२.०१

विश्वास-प्रस्तुतिः

यदा सर्वम् इदं व्याप्तम् असुरैर् नावशेषितम् । स्थातुं देवाः पराभूतास् ते ऽथर्वाणम् उपागताः ॥

०२.०२

विश्वास-प्रस्तुतिः

कर्माद्य् एकं कुरुष्व त्वं यद् भृग्वङ्गिरसोर् मतम् । असुराणां वधार्थायेत्य् उक्तः कर्ताथ सो ऽभवत् ॥

०२.०३

विश्वास-प्रस्तुतिः

परचक्रोपसृष्टस्य राज्ञो विजयम् इच्छतः । प्रतिरुद्धस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥

०२.०४

विश्वास-प्रस्तुतिः

प्रादुर्भावाद्भुतानां च ग्रहाणां विग्रहे तथा । शङ्कमानो ऽभिचाराद् वा कारयेद् घृतकम्बलम् ॥

०२.०५

विश्वास-प्रस्तुतिः

घृतमात्रा तु विज्ञेया मागधप्रस्थसम्मिता । शतानि पञ्च द्रोणानां पलैकशतम् एव वा ॥

०३.०१

विश्वास-प्रस्तुतिः

[सर्वपापप्रणाशाय सर्वकामार्थसिद्धये । सर्वरोगक्षयार्थाय प्रयोज्यो घृतकम्बलः] ॥

०३.०२

विश्वास-प्रस्तुतिः

घृतप्रमाणं वक्ष्यामि माषकं पञ्चकृष्णलम् । माषकाणि चतुह्षष्टिः पलम् एकं विधीयते ॥

०३.०३

विश्वास-प्रस्तुतिः

द्वात्रिंशत्पलकं प्रस्थं मागधैः परिकीर्तितम् । आढकं तु चतुःप्रस्थं चतुर्भिर् द्रोणम् आढकैः ॥

०३.०४

विश्वास-प्रस्तुतिः

द्रोणप्रमाणं विज्ञेयं ब्रह्मणा निर्मितं पुरा । द्वादशाभ्यधिकैर् नित्यं पलानां पञ्चभिः शतैः ॥

०३.०५

विश्वास-प्रस्तुतिः

[घृतमात्रा तु विज्ञेया मागधप्रस्थसम्मिता । शतानि पञ्च द्रोणानां पलानां वा शतोत्तरे] ॥

०३.०६

विश्वास-प्रस्तुतिः

घृतद्रोणशतेनोक्त एको द्रोणवरस् तथा । यथाशक्ति प्रयुञ्जीत घृतं कृत्वाथ भागशः ॥

०३.०७

विश्वास-प्रस्तुतिः

चतुर्भागो ऽभिषेकाय चतुर्भागस् तु हूयते । भागो देयः सदस्येभ्यः कर्ता भागेन युज्यते ॥

०४.०१

विश्वास-प्रस्तुतिः

पुष्ये प्रयोगं कुर्वीत प्राजापत्ये ऽथ मारुते । वैष्णवे पूषदैवत्ये उत्तरेष्व् अथ वा त्रिषु ॥

०४.०२

विश्वास-प्रस्तुतिः

तप्तकृछ्रावसाने वा सर्वकृछ्रस्य चान्ततः । यस्मिन् वा स्नातका ब्रूयुस् तत्र कुर्याद् विचक्षणः ॥

०४.०३

विश्वास-प्रस्तुतिः

पाकयज्ञविधानेन कृत्वोपक्रमणं बुधः । निशाकाले बहिर्ग्रामे कुर्याद् अग्निनिवेशनम् ॥

०४.०४

विश्वास-प्रस्तुतिः

यजेत निरृतिं तत्र कृष्णवासाश् चतुष्पथे । यथोक्तं नैरृतैर् मन्त्रैर् हविर्भिश् च यथाक्रमम् ॥

०४.०५

विश्वास-प्रस्तुतिः

तृतीयेन तु सूक्तेन निवेद्य बलिम् अन्ततः । यथाव्यावर्तने चैव यद् उक्तं तत् समाचरेत् ॥

०५.०१

विश्वास-प्रस्तुतिः

ततः स्नातः शुक्लवासाः प्राश्य शान्त्युदकं शुचिः । पर्युक्ष्योपसमाधाय घृतसंस्कार इष्यते ॥

०५.०२

विश्वास-प्रस्तुतिः

पूर्वं महाव्याहृतिभिः सावित्र्या तदनन्तरम् । शान्तिश् च ब्रह्म जज्ञानं ब्रह्म भ्राजद् इतीति च ॥

०५.०३

विश्वास-प्रस्तुतिः

अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्ने जातवेदः सह रय्या पुनर् ऊर्जेति ॥

०५.०४

विश्वास-प्रस्तुतिः

अग्निम् ईले पुरोहितम् अग्न आ याहि वीतये । बृहस्पतिर् न इत्य् एका बृहस्पते युवं तथा ॥

०५.०५

विश्वास-प्रस्तुतिः

एतैर् आज्यं च जुहुयात् सम्पातान् आनयेद् घृते । कृत्यादूषणमन्त्रैश् च कुर्याच् छान्त्युदके विधिम् ॥

०५.०६

विश्वास-प्रस्तुतिः

सम्पातान् आनयेत् तत्र चातनैर् मातृनामभिः । वास्तोष्पत्यैर् वाष्टोष्पताव् आनयेत् समदूषणम् ॥

०५.०७

विश्वास-प्रस्तुतिः

निधाय हविर् आसाद्य घृतकुम्भं सुसंस्कृतम् । घृतभागौ तु याव् अन्यौ पूर्वेणाग्नेर् निधापयेत् ॥

०५.०८

विश्वास-प्रस्तुतिः

दर्भादीन् तु वासादींश् च सम्भारान् गौरसर्षपान् । बिल्वं च कुम्भे निधायापरेणाग्नेर् निधापयेत् ॥

०६.०१

विश्वास-प्रस्तुतिः

सावित्रः शन्तातीयश् च कृत्यादूषण एव च । अभयापराजितायुष्या वर्चस्यश् च ततः परः ॥

०६.०२

विश्वास-प्रस्तुतिः

संसक्तीयः सुषुप्तीयः स्वस्त्ययनः शर्मवर्म च । चातनो मातृनामानि भैषज्यं न्याय एव च ॥

०६.०३

विश्वास-प्रस्तुतिः

घृतलिङ्गौ तथा रौद्रौ सम्पातान् आनयेद् घृते । गणान्तेषु यथाशक्ति ब्राह्मणान् स्वस्तिवाचयेत् ॥

०६.०४

विश्वास-प्रस्तुतिः

यो ऽस्मिन्न् अक्षीभ्यां ते सहस्राक्षं ब्रह्म जज्ञानम् । ब्रह्म भ्राजद् उद् अगाद् इदम् आपस् तथापश् च ॥

०६.०५

विश्वास-प्रस्तुतिः

अभिषिञ्चेत् सर्वमन्त्रैर् आयुष्यैर् अभयैस् तथा । मृण्मयश् चात्र भवति द्वेष्यस्य च पराकृतिः ॥

०६.०६

०६.०७

विश्वास-प्रस्तुतिः

तस्योपरिष्टाद् अभिषिच्य कुर्यान् मात्रातलेखनीम् । अङ्गादङ्गाद् अथान्येन प्र पतेति चतसृभिः ॥

०६.०८

विश्वास-प्रस्तुतिः

भ्रातृव्यहम् इति वैश्वानरोयन्त्य् अवसानेन । द्यावादिना पर्यायेण समलङ्कृटम् उल्लिखेत् ॥

०६.०९

विश्वास-प्रस्तुतिः

द्विषन्तं मे परावद् वि द्विषन्तं निर् दहन्तु मे । भ्रातृव्यतान् इति द्वाभ्यां पर्यायाश् च त्रयः पराः ॥

०६.१०

विश्वास-प्रस्तुतिः

अन्वालभ्य तु कर्तारम् उपविष्ट उदङ्मुखः । स्वप्नतक्माष्टनयनैः सौभाग्यैर् वर्मभिस् तथा ॥

०६.११

विश्वास-प्रस्तुतिः

रुद्ररौद्रपरैर् मन्त्रैर् आज्यहोमो विधीयते । स्राक्त्यं वा यदि वाश्वत्थम् औदुम्बरम् अथापि वा ॥

०६.१२

विश्वास-प्रस्तुतिः

शङ्खं च मणिम् आबध्य प्रतिसरैर् अभिमन्त्रयेत् । अन्वारभ्याभिषेकं तु रौद्राभ्यां जुहुयात् ततः ॥

०७.०१

विश्वास-प्रस्तुतिः

यत् ते वास [इति] परिधानं यथोक्तं परिधापयेत् । रोचना गुग्गुलु घृतम् अभ्यञ्जनम् अथाञ्जनम् ॥

०७.०२

विश्वास-प्रस्तुतिः

तत एतैर् अलङ्कृत्य ईक्षयेतादर्षे मुखम् । दश गा दक्षिणां दद्याद् वृषभं घृतम् एव च ॥

०७.०३

विश्वास-प्रस्तुतिः

ब्राह्मणान् स्वस्तिवाच्याथ प्राङ्मुखः संविशेत् ततः । रक्षोहणम् [इत्य्] अनुवाकं जपेत् कर्ताथ ऋत्विजः ॥

०७.०४

विश्वास-प्रस्तुतिः

शर्मवर्मैतद् उक्तं स्नातस्य रक्षोभ्यो ऽभयङ्करम् इति ॥

०७.०५

विश्वास-प्रस्तुतिः

न राक्षसा न गन्धर्वा न पिशाचा न चासुराः । क्रूराः पुरुषमर्मज्ञा न हिंसन्ति घृतार्चितम् ॥

०७.०६

विश्वास-प्रस्तुतिः

सिद्धाभिषेको नैशश् च घृतकम्बलम् एव च । लक्षः पुष्याभिषेकश् च प्रधानावभृतस् तथा ॥

०७.०७

विश्वास-प्रस्तुतिः

महाशान्तित्रयस्त्रिंशत् तत्र षट् प्रस्तरैः सह । नियतान्येवदृछाया कर्तव्या भूतिम् इच्छता ॥