३१ कोटिहोमः

०१.०१

विश्वास-प्रस्तुतिः

ॐ देवाश् च ऋषयश् चैव पीड्यमाना महासूरैः । मृत्युना व्याधिभिश् चैव ब्रह्माणम् इदम् अब्रुवन् ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

कर्मणा केन देवेश मृत्युर् व्याधिश् च जीयते । ऐश्वर्यं प्राप्यते वापि स्थानं च परमं प्रभो ॥

०१.०३

विश्वास-प्रस्तुतिः

एवम् उक्तो महातेजा ब्रह्मा लोकपितामहः । प्रत्युवाचेश्वरः सर्वान् विप्रान् देवगणैः सह ॥

०१.०४

विश्वास-प्रस्तुतिः

शृणुध्वं प्रयताः सर्वे प्राप्यते येन कर्मणा । ऐश्वर्यम् आयुर् आरोग्यं पुत्रा विजय एव च ॥

०१.०५

विश्वास-प्रस्तुतिः

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । ये जपन्ति सदा तेभ्यो न भयं विद्यते क्व चित् ॥

०२.०१

विश्वास-प्रस्तुतिः

तया होमश् च कर्तव्यः सततं सिद्धिम् इच्छता । यवैस् तिलैः समिद्भिश् च व्रीहिभिः सर्षपैस् तथा ॥

०२.०२

विश्वास-प्रस्तुतिः

अथ चेन् महतीं सिद्धिं प्रार्थयेध्वं सुरोत्तमाः । पुरोधसा कारयध्वं कोटिहोमं महाफलम् ॥

०२.०३

विश्वास-प्रस्तुतिः

यादृशं कृतवान् पूर्वम् अथर्वा त्र्यम्बकस्य तु । तादृशेन विधानेन कोटिहोमः प्रयुज्यते ॥

०२.०४

विश्वास-प्रस्तुतिः

महत्त्वं प्रार्थयमानः शर्वो ऽथर्वाणम् अब्रवीत् । कुरुष्व मम तत् कर्म महत्त्वं येन लभ्यते ॥

०२.०५

विश्वास-प्रस्तुतिः

ऐश्वर्यम् आयुर् आरोग्यं स्थानं च परमं प्रभो । पुत्रा लक्ष्मीर् यशो मेधा बलं पौरुष्यम् एव च ॥

०३.०१

विश्वास-प्रस्तुतिः

एवम् उक्तो महातेजा अथर्वा मन्त्रदर्शवित् । गायत्रीं तपसा युक्ताम् ऋचः पदम् इतीति ह ॥

०३.०२

विश्वास-प्रस्तुतिः

[ऋचः पदं मात्रयेति मन्त्रे विज्ञायते हि सा ।] गायत्री वै त्रिपाद् ब्रह्म विश्वरूपा च संस्थिता ॥

०३.०३

विश्वास-प्रस्तुतिः

प्राणदा सर्वभूतानां धारणी यापि नित्यशः । इति निश्चित्य मनसा कोटिहोमं प्रयोजयत् ॥

०३.०४

विश्वास-प्रस्तुतिः

समिद्भिः शान्तवृक्षस्य गायत्र्या सुसमाहितः । ततो महत्त्वम् अगमद् ऐशर्यं परमं तथा ॥

०३.०५

विश्वास-प्रस्तुतिः

महादेव इति चास्य नाम लोकेषु विश्रुतम् । उपद्रवाश् च ये के चिद् उपघातास् तथैव च । सर्वे ऽस्य प्रशमं याताः स्कन्दं पुत्रं च लब्धवान् ॥

०४.०१

विश्वास-प्रस्तुतिः

ततः प्रीतस् तु भगवाञ् शङ्करः पर्यपृच्छत । अथर्वाणं महाप्राज्ञं कोटिहोमस्य को विधिः ॥

०४.०२

विश्वास-प्रस्तुतिः

चतुर्विंशाक्षरं ब्रह्म त्रिपादं लोकधारणम् । सावित्रं तेन होमो ऽयं कृतो मे कोटिसम्मितः ॥

०४.०३

विश्वास-प्रस्तुतिः

विधिं चास्य प्रवक्ष्यामि सर्वलोकहिताय वै । यत्प्रयोगाद् भवेच् छान्तिर् वृद्धिश् च परमा नृणाम् ॥

०४.०४

विश्वास-प्रस्तुतिः

उपद्रवेषु भूतानाम् आपत्सु विविधासु च । कोटिहोमः प्रयोक्तव्यः केतूनां दर्शने तथा ॥

०४.०५

विश्वास-प्रस्तुतिः

उपसर्गभये चैव परचक्रभये तथा । अनावृष्टिभये चैव कोटिहोमं प्रयोजयेत् ॥

०५.०१

विश्वास-प्रस्तुतिः

आरम्भं तस्य कुर्वीत शुक्ले चापि तिथौ शुभे । मुहूर्ते विजये चैव तिथिछिद्राणि वर्जयेत् ॥

०५.०२

विश्वास-प्रस्तुतिः

रोहिण्यां वैष्णवे त्वाष्ट्रे पौष्णे मैत्रोत्तरेषु च । अभिजित्पुष्यसौम्येषु कुर्यात् पुण्येषु वा बुधः ॥

०५.०३

विश्वास-प्रस्तुतिः

अथ चेत् त्वरते कर्तुं कोटिहोमं महाफलम् । पुण्याहं वाचयित्वास्य आरम्भं कारयेद् बुधः ॥

०५.०४

विश्वास-प्रस्तुतिः

अष्टहस्तं तु निर्दिष्टं कोटिहोमस्य खातकम् । तस्यैवार्धप्रमाणेन लक्षहोमे विधीयते ॥

०५.०५

विश्वास-प्रस्तुतिः

त्रिरात्रोपोषितो ब्रह्मा कृत्वा शान्तिं चतुर्गणीम् । प्रोक्षयेत् कर्मसिद्ध्यर्थं वास्तु शान्त्युदकेन तु ॥

०५.०६

विश्वास-प्रस्तुतिः

महाशान्तिविधानेन निर्मथ्याग्निं समाहितः । तावत् कुर्याद् बुधः सर्वं यावन् नो नैरृतं कृतम् ॥

०६.०१

विश्वास-प्रस्तुतिः

ततः प्रभाते बहुश उद्धृत्याग्निं समाहितः । निर्मथ्य हावयेत् तत्र समिधो ब्राह्मणान् बहून् ॥

०६.०२

विश्वास-प्रस्तुतिः

शतं सहस्रं कोटिं वा विंशतिर् दश वा द्विजाः । जुहुयुः शान्तवृक्षस्य समिधो घृतसंयुताः ॥

०६.०३

विश्वास-प्रस्तुतिः

स्वयं वापि यजेद् ब्रह्मा सवितारं दिनेदिने । पाकयज्ञविधानेन मन्त्रश् चात्र विषासहिम् ॥

०६.०४

विश्वास-प्रस्तुतिः

शान्तिकामो यवैः कुर्यात् तिलैः पापापनुत्तये । समिद्भिः सर्वकामस् तु बिल्वैः प्राप्नोति काञ्चनम् ॥

०६.०५

विश्वास-प्रस्तुतिः

लभते श्रियम् अग्र्यां तु पद्मैस् तेजो घृतेन तु । दध्ना तु लभते पुत्रान् पयसा ब्रह्मवर्चसम् ॥

०७.०१

विश्वास-प्रस्तुतिः

हविष्यभोजिनो दान्ताः शुक्लाम्बरधरास् तथा । हावका नियताः सर्वे भवेयुर् ब्रह्मचारिणः ॥

०७.०२

विश्वास-प्रस्तुतिः

आरण्यम् उपयुञ्जानः पयसा वापि वर्तयेत् । फलाहारो ऽपि वा ब्रह्मा कोटिहोमं समाचरेत् ॥

०७.०३

विश्वास-प्रस्तुतिः

प्रत्येकं चैव होतॄणां दातव्या दक्षिणा ततः । निष्को अश्वो गौर् वासश् च हिरण्यं वापि शक्तितः ॥

०७.०४

विश्वास-प्रस्तुतिः

यश् चैवापि भवेद् ब्रह्मा प्रयोक्ता सर्वकर्मणाम् । सर्वस्वं तस्य देयं स्याद् धिरण्यं वापि तत्समम् ॥

०७.०५

विश्वास-प्रस्तुतिः

कोटिहोमे समाप्ते तु यजेद् ग्रहगणान् बुधः । कारयेद् अमृतां चैव घृतकम्बलम् एव च ॥

०८.०१

विश्वास-प्रस्तुतिः

कार्यामृता मृत्युभये घृतकम्बलसंयुता । परचक्रागमे त्व् ऐन्द्री घृतकम्बल[म्] एव च ॥

०८.०२

विश्वास-प्रस्तुतिः

रौद्री सर्वाद्भुतोत्पत्तौ घृतकम्बलसंयुता । [सलिला सलिलक्षये घृतकम्बल एव च ॥]

०८.०३

विश्वास-प्रस्तुतिः

घृतकम्बलपृष्ठा च सलिला सलिलक्षये । येनयेन तु कामेन कोटिहोमं प्रयोजयेत् ॥

०८.०४

विश्वास-प्रस्तुतिः

आम्नातं तत्र यत् कर्म तद् अन्ते कारयेद् बुधः । एष एव विधिर् दृष्टो अभिचारे विधीयते ॥

०८.०५

विश्वास-प्रस्तुतिः

प्रतिलोमयात्र होमः सावित्र्या तिलसर्षपैः । आरम्भं तस्य घोरेषु नक्षत्रेषु दिनेषु च ॥

०८.०६

विश्वास-प्रस्तुतिः

कारयेत् कृष्णपक्षस्य तिथिछिद्रेषु सर्वदा । मघाश्लेषा तथा मूलं रेवत्य् आर्द्रा च सर्वदा ॥

०९.०१

विश्वास-प्रस्तुतिः

दर्भार्थे तु शरान् कुर्याद् घृतार्थे तैलम् उच्यते । स्वाहाकारे तु फट्कारो वेण्याद्याः स्युश् चतुर्दश ॥

०९.०२

विश्वास-प्रस्तुतिः

चाण्डालाग्नौ चिताग्नौ वा सूतिकाग्नाव् अथापि वा । हावयेद् घोरवृक्षाणां समिधस् तैलसंयुताः ॥

०९.०३

विश्वास-प्रस्तुतिः

रक्तोष्णीषी रक्तवासाः कृष्णाम्बरधरो ऽपि वा । जुहुयाद् वामहस्तेन समिधो दक्षिणामुखः ॥

०९.०४

विश्वास-प्रस्तुतिः

खादिराग्नौ मधूच्छिष्टे कृत्वा प्रतिकृतिं रिपोः । तापयेत् प्रतिलोमां तु सावित्रीं मनसा जपेत् ॥

०९.०५

विश्वास-प्रस्तुतिः

कण्ठे शूलार्पितां कृत्वा तापयेत् तु दिनेदिने । यावच् छत्रुर् वशं याति विलीनायां विनश्यति ॥

१०.०१

विश्वास-प्रस्तुतिः

एवम्प्रोक्तविधानेन कोटिहोमस्य शङ्करः । प्रीतिमान् उच्यते येन तच् छुभं भौतिकं ददौ ॥

१०.०२

विश्वास-प्रस्तुतिः

अथर्वा भौतिकं लब्ध्वा शिष्येभ्यस् तत् पुनर् ददौ । शुभं मोक्षकरं पुण्यं प्रियं पशुपतेर् व्रतम् ॥

१०.०३

विश्वास-प्रस्तुतिः

एतज् ज्ञात्वा तु यः सम्यक् कोटिहोमं प्रयोजयेत् । सर्वान् कामान् अवाप्नोति ब्रह्मलोकं स गच्छति ॥

१०.०४

विश्वास-प्रस्तुतिः

यस् त्व् इमं श्रावयेद् विद्वान् पठते चैव सर्वदा । कोटिहोमफलं लब्ध्वा रुद्रलोके महीयते ॥

१०.०५

विश्वास-प्रस्तुतिः

गोपथात् पाणिनेयाय मध्ये नॄणां प्रमोदिनाम् । हितार्थम् उद्धृतो ग्रन्थः कोटिहोमस् तु विश्रुतः ॥