०१.०१
विश्वास-प्रस्तुतिः
ॐ शौनकं तु सुखासीनं गौतमः परिपृच्छति । लक्षहोमस्य यत् पुण्यम् आहुतीनां च देवताः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
तस्मै यथावद् आचष्टे शौनको ज्ञानलोचनः । शृणुष्वावहितो भूत्वा लक्षहोमं यथाविधि ॥

०१.०३
विश्वास-प्रस्तुतिः
अग्न्यागारस्य या भूमिस् तां प्रवक्ष्याम्य् अशेषतः । शुद्धाक्षारा समा स्निग्धा या च पूर्वोत्तरप्लवा ॥

०१.०४
विश्वास-प्रस्तुतिः
अभस्मास्थ्यङ्गारतूषा प्रशस्ता परिकीर्तिता । प्रमाणं बाहुमात्रं तु जङ्घामात्रं द्विरत्निकम् ॥

०१.०५
विश्वास-प्रस्तुतिः
चतुरश्रं चतुष्कोणं तुल्यं सूत्रेण धारयेत् । ब्राह्मणा वेदसम्पन्ना ब्रह्मकर्मसमाधयः ॥

०१.०६
विश्वास-प्रस्तुतिः
उपोष्य चैकरात्रं च गायत्र्या अयुतं जपेत् । उपोष्य चैव गायत्र्या जपेयुर् अयुतं बुधाः ॥

०२.०१
विश्वास-प्रस्तुतिः
ते शुक्लवाससः स्नाताः स्रग्भिर् गन्धैर् अलङ्कृताः । निराहारास् तथा दान्ताः सन्तुष्टाः सजितेन्द्रियाः ॥

०२.०२
विश्वास-प्रस्तुतिः
कौशम् आसनम् आसीनाः प्रयुञ्ज्युर् होमम् उत्तमम् । उल्लिख्य चाद्भिर् अभ्युक्ष्य संस्कृत्य विधिपूर्वकम् ॥

०२.०३
विश्वास-प्रस्तुतिः
अग्ने प्रैह्य् अग्निना रयिम् इत्य् उपस्थाप्य पावकम् । कुर्याद् उपसमाधाय समास् त्वाग्ने समाहितः ॥

०३.०१
विश्वास-प्रस्तुतिः
लक्षहोम@@कुते पूर्णे धेनुं दद्यात् पयस्विनीम् । अनड्वान् काञ्चनं वस्त्रं तुष्येयुर् येन वा द्विजाः ॥

०३.०२
विश्वास-प्रस्तुतिः
यवैस् तु विपुलान् भोगान् धान्यैर् आयुष्यम् एव च । तिलैर् हुत्वा तु तेजस्वी आयुः कीर्तिं च वर्धते ॥

०३.०३
विश्वास-प्रस्तुतिः
आदित्यलोको ऽर्कमयी पालाशी सोम आप्यते । आश्वत्थी विष्णुलोकस्य ब्राह्म औदुम्बरी तथा ॥

०३.०४
विश्वास-प्रस्तुतिः
अनेनैव विधानेन हूयते ऽत्र हुताशनः । हुत्वैतांश् चतुरो लक्षान् ब्रह्मलोकं स गच्छति ॥

०३.०५
विश्वास-प्रस्तुतिः
यावज् जीवति कर्तासौ तावत् पुत्रान् धनं श्रियम् । पूर्णे काले विमानेन नीयते परमं पदम् ॥