०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ काङ्कायनो भगवन्तम् अथर्वाणं पप्रच्छ ॥ भगवन् केन विधानेन कोटिहोमं लक्षहोमम् अयुतहोमं वा प्रारम्भमाणः कथम् ऋत्विजो वृणीते कथं च कुर्युस् तस्मै स होवाच ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
ब्राह्मणो वा राजा वा वैश्यो वा ग्रामो वा जनपदो वा श्रीकामः शान्तिकामः कोटिहोमं लक्षहोमम् अयुतहोमं वाहं करिष्यामीति तस्या समाप्तेर् भवद्भिर् अमांसाशिभिर् ब्रह्मचारिभिर् हविष्यभुग्भिर् भवितव्यम्

०१.०३
विश्वास-प्रस्तुतिः
तैस् तथेति उक्तः कुण्डम् एकहस्तं द्विहस्तं चतुर्हस्तम् अष्टहस्तं वा [समस्तहस्तं वा दीर्घं वा] दशहस्तं खानयेत् तथा च बादरिः ॥

०१.०४
विश्वास-प्रस्तुतिः
लक्षहोमे तु कर्तव्यम् अष्टहस्तं न संशयः । द्विहस्तं वा प्रकुर्वीत चतुर्हस्तम् अथापि वा ॥

०१.०५
विश्वास-प्रस्तुतिः
कुण्डं वा दशहस्तं तु द्विविस्तारं तथोत्तरम् । न चेत् पुरस्ताद् धीनं स्यात् सुखं यज्ञः समाप्यते ॥

०१.०६
विश्वास-प्रस्तुतिः
अथ दक्षिणतो हीनं यजमानभयङ्करम् । पश्चिमेन विहीनं स्याद् यज्ञस्यासिद्धिदं ध्रुवम् ॥

०१.०७
विश्वास-प्रस्तुतिः
उत्तरेण विनिर्दिष्टं राज्ञो राज्यहरं भृशम् । मध्ये विहीनं यद् कुण्डं प्रजाक्षयकरं विदुः ॥

०१.०८
विश्वास-प्रस्तुतिः
स्रक्तिहीनं तु यत् कुण्डं तद् अप्य् अशुभदं भवेत् । द्वादशाङ्गुलमानेन मेखलाक्षेत्रम् उच्यते ॥

०१.०९
विश्वास-प्रस्तुतिः
मेखलात्रयम् उद्धिष्टम् उभयं चतुरङ्गुलम् । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥

०१.१०
विश्वास-प्रस्तुतिः
प्रथमा सात्त्विकी प्रोक्ता द्वितीया राजसी स्मृता । तृतीया तामसी ज्ञेया मेखला वृषभध्वजः ॥

०१.११
विश्वास-प्रस्तुतिः
चतुर्दशाङ्गुलां तत्र योनिं कुर्वीत साधकः । अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस् तु षडङ्गुलः ॥

०१.१२
विश्वास-प्रस्तुतिः
गजोष्ठसदृशाकार प्राजापत्या च सा चिदुः । एवं कृत्वा विधानेन कुण्डं लक्षणलक्षितम् ॥

०१.१३
विश्वास-प्रस्तुतिः
सर्वलक्षणसम्पूर्णं सर्वतस् तु समाहितः । कुण्डं सिद्धिकरं ज्ञेयम् आयुःकीर्तिविवर्धनम् ॥

०१.१४
विश्वास-प्रस्तुतिः
तस्माद् यत्नेन कुण्डं खात्वाद्भिर् अभ्युक्ष्य पुरस्ताद् अग्नेर् आदित्यादीन् ग्रहान् प्रतिष्ठाप्योत्तरतः कृत्तिकादीनि नक्षत्राणि स्वासु दिक्षु लोकपालान् सर्वासु कुण्डस्रक्तिष्व् अग्न्यादिदेवान् रतिष्ठाप्य

०१.१५
विश्वास-प्रस्तुतिः
तेषां प्रतिमन्त्रम् आवाहनादिकं कृत्वा विलीनपूतम् आज्यं गृहीत्वा स्रुवं स्रुचं च सम्मृज्य प्रतप्येध्मम् उपसमाधायान्वारब्धाय वास्तोष्पत्यादिभिश् चतुर्भिर् गणैः शान्त्युदकं कृत्वा ततः कर्तारम् आचामयति च सम्प्रोक्षति च ॥

०१.१६
विश्वास-प्रस्तुतिः
अथ समिधो घृताक्तास् तिलान् वा स्वाहाकारवतीः सङ्ख्यावत्यो गायत्र्या महाव्याहृतिभिर् वा सर्व ऋत्विजो जुह्वति ॥

०१.१७
विश्वास-प्रस्तुतिः
श्रीपर्णमिश्राः श्रीकामस्य शमीपर्णमिश्राः शान्तिकामस्य करीरसक्तुमिश्रा वृष्टिकामय्स बदरादिफलमिश्राः पशुकामस्य ॥

०२.०१
विश्वास-प्रस्तुतिः
अहरहः कर्मणो ऽपवर्गाद् अथ पूर्णायां कोट्यां लक्षे वायुते वान्वारब्धे यजमाने निशि महाभिषेकं कृत्वा वसोर् धारं जुह्वति ॥

०२.०२
विश्वास-प्रस्तुतिः
औदुम्बरीं स्रुचं शुरःप्रमाणां ब्राह्मणस्य ललातप्रमाणां क्षत्रियस्य स्कन्धप्रमाणां वैष्यस्याप्रमाणां जनपदस्य

०२.०३
विश्वास-प्रस्तुतिः
तेषाम् अन्ते सरणार्थं निम्नं खानयित्वोष्णोदकेन प्रक्षाल्याज्यम् आनीय वसोर् धारां वैश्वानरं प्राप्नोति ॥

०२.०४
विश्वास-प्रस्तुतिः
तद् यद् आज्यधानीं च वैश्वानरं प्राप्नोति अथोच्चारयति ॥

०२.०५
विश्वास-प्रस्तुतिः
ओजश् च मे क्षत्रं च मे ये अग्नयो अमो देववधेभ्यो भवाशर्वौ मृडतं प्राणाय नम इति हुत्वा अर्घं प्रदाय वस्त्रं लोध्रं माल्यं फलादीनि भाजने कृत्वा नमस् ते अस्तु पश्यत इति स्वाहाकारेणाग्नौ प्रक्षिप्य यम्यं कामं कामयते सो ऽस्मै कामः समृध्यते ॥

०२.०६
विश्वास-प्रस्तुतिः
समृद्धिहोमादि समानं स्वस्त्ययनानि जपेत् पुण्याहं वाचयेद् गोभूतिलसुवर्णं वासश् च र्त्विग्भ्यः सम्प्रदाय प्रणिपत्य विसर्जयेत् ॥

०२.०७
विश्वास-प्रस्तुतिः
तस्मिन्न् अहनि व्यतीते यदि स्त्री माल्यहस्ता श्वेतचन्दनानिलिप्ता श्वेतपुष्पाण्य् आदाय प्रयच्छेद् गौरसर्षपान् पाण्याधारे वा गृहीत्वा प्रासादम् आरोहयेत् कुञ्जरं वा प्रमत्तम् अश्वं श्वेतं वा पर्वतं गोवृषं वा यानं युक्तं वाजिभिर् यद्य् आरोहेत् स्वप्नकाले समस्तसिद्धिं विद्यान् मनसो याम् अभीष्टाम् ॥

०२.०८
विश्वास-प्रस्तुतिः
तस्मात् तां रात्रीं प्रयतः स्वपेत् ॥ स्वप्नं दृष्ट्वा र्त्विग्भ्यो निवेदयेत् ॥ परो ऽपेहि यो न जीबो ऽसि विद्म ते स्वप्न यथा कलां यथा शफम् इति राजमुखम् अभिमन्त्र्य यथागतं गच्छेयुस् तद् अपि श्लोकाः ॥

०२.०९
विश्वास-प्रस्तुतिः
दिव्यान्तरिक्षभौमेषु अद्भुतेषु न संशयः । कोटिहोमं विदुः प्राज्ञा लक्षं वायुतम् एव वा ॥

०२.१०
विश्वास-प्रस्तुतिः
अविज्ञातं च यत् पापं सहसा चैव यत् कृतम् । तत् सर्वं लक्षहोमस्य करणाद् धि विनश्यति ॥

०२.११
विश्वास-प्रस्तुतिः
तस्मात् सर्वेषु कार्येषु शान्तिकेषु विशेषतः । यः कुर्यात् प्रयतो नित्यं न सो ऽनर्थान् समश्नुते ॥