०१.०१
विश्वास-प्रस्तुतिः
ॐ बृहस्पतिं सुखासीनम् आत्मविद्यापरायणम् । प्रणिपत्य महर्त्विजं नारदः परिपृच्छति ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
कथयस्व महाप्राज्ञ सर्वशास्त्रविशारद । अशुभं यच् छुभं वापि लक्षणं पावकस्य तु ॥

०१.०३
विश्वास-प्रस्तुतिः
स पृष्टस् तेन तत् सर्वम् आचचक्षे महामतिः ॥
मूलम्
स पृष्टस् तेन तत् सर्वम् आचचक्षे महामतिः ॥
०१.०४
विश्वास-प्रस्तुतिः
हूयमानोयदा वह्निर् ऋजुज्वालः प्रदृश्यते । स्निग्धश् च किंशुकाभश् च सिद्धिस् तत्र विनिर्दिशेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
यत्र बालार्कवर्णाभः कर्मण्य् अग्निः प्रदृश्यते । शान्तिं लभेते तत्राशु यजमानपुरोहितौ ॥

०१.०६
विश्वास-प्रस्तुतिः
अशोककुसुमाभो ऽपि काञ्चनाभस् तथैव च । शान्तिं करोत्य् आकालेन हूयमानो हुताशनः ॥

०२.०१
विश्वास-प्रस्तुतिः
अधूमो ज्वलते क्षिप्रं कृत्वावर्तं प्रदक्षिणम् । तदा शान्तिं विजानीयाद् विपरीते तथा भयम् ॥

०२.०२
विश्वास-प्रस्तुतिः
श्वसते गर्जते चैव विस्फुलिङ्गाः समन्ततः । प्रायश्चित्तिं तदाकुर्याद् यद् उक्तं कौशिकेन तु ॥

०२.०३
विश्वास-प्रस्तुतिः
अथाप्य् आलिङ्गते भूमिं भ्रमते च समन्ततः । अशुभं कथयेत् तत्र होत्रे ऽसौ पावकः स्वयम् ॥

०२.०४
विश्वास-प्रस्तुतिः
कपिलः पिङ्गलस् ताम्रो रक्तः काञ्चनसप्रभः । शुभकृत् पावको ज्ञेयो विपरीतो भयावहः ॥

०२.०५
विश्वास-प्रस्तुतिः
यदाग्नौ लक्षणं किं चिद् अशुभं तु प्रदृश्यते । होता क्लेशम् अवाप्नोति शान्तिं तत्र प्रयोजयेत् ॥