०१.०१
विश्वास-प्रस्तुतिः
ॐ यदा जुहोति हस्तेन दक्षिणेनेतरेण वा । तदा वक्ष्ये विधिं तस्य श्रेयसी स्याद् यथाहुतिः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
यथा नश्यति चैवास्य कर्म गुह्यम् अजानतः । तथाहं सम्प्रवक्ष्यामि गोपथः पाठम् इच्छताम् ॥

०१.०३
विश्वास-प्रस्तुतिः
कुशबल्बजमौञ्जां वा कृत्वा वेष्टिम् अनामिकाम् । होमकर्म ततः कुर्यात् स्पृष्ट्वा वामेन दक्षिणम् ॥

०१.०४
विश्वास-प्रस्तुतिः
न रिक्तपाणिर् जुहुयान् नानिपातितजानुकः । अनिपातितजानोश् च हरन्त्य् आहुती राक्षसाः ॥

०१.०५
विश्वास-प्रस्तुतिः
उद्धृत्य समिधो ऽन्नं वा पञ्चभिर् जुहुयाद् बुधः । शनैश् च निर्वपेद् अन्नं मध्ये ऽग्नौ सुसमाहितः ॥

०२.०१
विश्वास-प्रस्तुतिः
गृहकर्मणि यज्ञे वा तथा पञ्चभिर् एव तु । शान्तिके पौष्टिके वैव वर्जयेत् तु कनीनिकाम् ॥

०२.०२
विश्वास-प्रस्तुतिः
तिसृभिर् जुहुयाद् अन्नं न तिलान् नैव तण्डुलान् । यदाभिचारिकं किं चित् तस्मिन् काले प्रयोजयेत् ॥

०२.०३
विश्वास-प्रस्तुतिः
वामेनाभिचारन् नित्यं त्रिभिर् अङ्गुलिभिः समैः । निर्दिष्टं तिसृभिः शूलं तेन शत्रुं निपातयेत् ॥

०२.०४
विश्वास-प्रस्तुतिः
अपसव्येन हस्तेन सव्यं यदि जुहोति तत् । सव्येन चापसव्यं तु [सव्यं यदि जुहोति तत्] ॥

०२.०५
विश्वास-प्रस्तुतिः
अभिचारस् तु तत् प्रोक्तः॥॥षर्वशान्तिं गमिष्यति ॥