२७ स्रुवलक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ॐ सौवर्णराजतैस् ताम्रैः कांस्यैर् द्रौमैस् तथायसैः । स्रुवैः सर्वगुणोपेतैः कर्म कुर्याद् यथाक्रमम् ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

सौवर्णै राजतैर् यज्ञे ताम्रैः शान्तिकपौष्टिके । कांस्येन रुधिरं मांसं नान्यज् जुहुवीत किं चन ॥

०१.०३

विश्वास-प्रस्तुतिः

सर्वे यज्ञे प्रयोक्तव्या वर्जयित्वायसं स्रुवम् । आयसं खादिरं चैव अभिचारे प्रयोजयेत् ॥

०१.०४

विश्वास-प्रस्तुतिः

अधुन्वंश् चैव जुहुयात् स्रुवेणास्फुटिताहुतिम् । धुन्वन् हि हन्ति पुत्रान् तु राक्षसा स्फुटिताहुतिः ॥

०१.०५

विश्वास-प्रस्तुतिः

नान्यत् किं चिद् अभिध्यायेद् उद्धृत्यान्यत आहुतिम् । तद् दैवतम् अभिध्यायेद् आहुतिर् यस्य हूयते ॥

०२.०१

विश्वास-प्रस्तुतिः

स्रुवे पूर्णे जपेन् मन्त्रम् उत्तानं शान्तिके करम् । शान्तिके पौष्टिके चैव वर्जयेत् तु कनीनिकाम् ॥

०२.०२

विश्वास-प्रस्तुतिः

नातिदीर्घो नातिह्रस्वो नातिस्थूलः कृशस् तथा । अष्टाविंशत्यङ्गुलः स्यात् कनिष्ठाग्रप्रमाणतः ॥

०२.०३

विश्वास-प्रस्तुतिः

दीर्घो हिनस्ति राजानं ह्रस्व र्त्विजं विनाशयेत् । स्थूलः सस्योपघाताय कृशः क्षयकरः स्मृतः ॥

०२.०४

विश्वास-प्रस्तुतिः

गोपुच्छाग्राकृतिर् दण्डो मण्डलाग्र[म्] शिरो विदुः । अङ्गुष्ठाग्रप्रमाणेन निम्नं शिरसि खानयेत् ॥

०२.०५

विश्वास-प्रस्तुतिः

एतल् लक्षणम् उद्दिष्टं स्रुवस्य फलभेदतः । गोपथेन यथाशास्त्रम् उद्धृतं श्रुतिचोदनात् । स्रुवेण कुरुते कर्म हस्तेनापि तथा शृणु ॥