०१.०१
विश्वास-प्रस्तुतिः
ॐ समिधां सम्प्रवक्ष्यामि प्रमाणं लक्षणं शुभम् । तथाशुभं च तत्त्वेन यथाफलविभागतः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
यज्ञकर्मणि कर्तव्या[ः] शान्तिके पौष्टिके तथा । प्रादेशमात्रीः समिधः प्रोक्ताः सर्वेषु कर्मसु ॥

०१.०३
विश्वास-प्रस्तुतिः
तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः । अङ्गुलस्य प्रमाणेन प्रादेशो द्वादशाङ्गुलः ॥

०१.०४
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं न कर्तव्या नापि ह्रस्वा न चोर्ध्वतः । न वक्रा चैव कर्तव्या नापि ग्रन्थिसमन्विता ॥

०१.०५
विश्वास-प्रस्तुतिः
ऊर्ध्वतस् तु यतो वक्रा चित्रदद्रुविचर्चिकाः । करोति यागे क्षिप्रं तु तस्मात् तां परिवर्जयेत् ॥

०२.०१
विश्वास-प्रस्तुतिः
द्विफला पिण्डवर्जापि त्रिफला वापि या भवेत् । षट्फला सप्तफला या चतुरङ्गं विनश्यति ॥

०२.०२
विश्वास-प्रस्तुतिः
सपत्त्रपुष्पसमिधः कल्पयित्वा विचक्षणः । पौष्टिकं कर्म कुर्वीत सिध्यते नात्र संशयः ॥

०२.०३
विश्वास-प्रस्तुतिः
पत्त्रपुष्पयुता यास् तु शान्तद्रुमसमुद्भवाः । समिधो गोष्ठमध्ये तु प्रशस्ताः परिकीर्तिताः ॥

०२.०४
विश्वास-प्रस्तुतिः
[अथापरं प्रवक्ष्यामि समिधां चैव लक्षणम्] ॥
मूलम्
[अथापरं प्रवक्ष्यामि समिधां चैव लक्षणम्] ॥
०२.०५
विश्वास-प्रस्तुतिः
विशीर्णा द्विदला ह्रस्वा वक्रा चैव द्विधाग्रतः । कृशा च दीर्घा स्थूला च कर्मसिद्धिविनाशिनी ॥

०२.०६
विश्वास-प्रस्तुतिः
[यद् यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि । तत्र तेनैव सिद्धिः स्याद् विपरीते तथा भयम्] ॥

०२.०७
विश्वास-प्रस्तुतिः
समाहृतानां समिधां तासां चैव फलं शृणु ॥
मूलम्
समाहृतानां समिधां तासां चैव फलं शृणु ॥
०२.०८
विश्वास-प्रस्तुतिः
विशीर्णायुःक्षयं कुर्याद् द्विदला रोगदा भवेत् । अभिमुखगतमात्रा सद्यो ह्रस्वा निवर्तयेत् ॥

०३.०१
विश्वास-प्रस्तुतिः
दुर्भगं कुरुते वक्रा स्थानभ्रंशं द्विधाग्रतः । कृशा सर्वविनाशाय दीर्घा नाशयते श्रियम् ॥

०३.०२
विश्वास-प्रस्तुतिः
स्थूला तु कुरुते विघ्नं सर्वकार्ये द्विजस्य तु । अतः प्रमाणं विविधं फलं चापि तथा शृणु ॥

०३.०३
विश्वास-प्रस्तुतिः
लतापल्लवसञ्जाता द्वादशाङ्गुलकल्पिता । क्षीराक्ता शान्तिके होमे होतव्या तु विशेषतः ॥

०३.०४
विश्वास-प्रस्तुतिः
केवलं मुक्तिसिद्ध्यर्थं घृताक्ता[म्] होमयेद्द्विजः । दशाङ्गुलप्रमाणां हि होमयेन् मन्त्रकर्मणि ॥

०३.०५
विश्वास-प्रस्तुतिः
नवाङ्गुला तु कर्तव्या तैलाभ्यक्ताभिचारिके । अष्टाङ्गुला विभूत्यर्थे घृतदध्ना तु होमयेत् ॥

०४.०१
विश्वास-प्रस्तुतिः
केवलं मधुसंयुक्ता सप्ताङ्गुलदलीकृता । उच्चाटने प्रशस्ता सा द्विदला च न शान्तये ॥

०४.०२
विश्वास-प्रस्तुतिः
विद्वेषे कटुतैलाक्ता द्विदला तु षडङ्गुला । सर्वतो ग्रन्थिहीना तु विप्राणां स्यात् समिच् छुभा ॥

०४.०३
विश्वास-प्रस्तुतिः
अवक्राग्रन्थिसंयुक्ता क्षत्रियाणां जयावहा । मध्ये तु ग्रन्थिसंयुक्ता वैश्यानां भूतिसाधनी ॥

०४.०४
विश्वास-प्रस्तुतिः
त्रयाणाम् अपि वक्ष्यन्ते या ग्राह्याः समिधः स्मृतः । नात्यार्द्रा नातिशुष्का वा नैव चोषरसम्भवाः ॥

०४.०५
विश्वास-प्रस्तुतिः
न दग्धा न कृमिदष्टाः सर्वदोषविवर्जिताः । समिधाम् इन्धनानां च तुल्यान् वृक्षान् ब्रवीम्य् अतः ॥

०४.०६
विश्वास-प्रस्तुतिः
शुषुकैर् या इन्धनैः पूर्वं यज्ञवृक्षमयैः शुभैः । आर्द्राणि होमयेच् चैव शुष्कैः कलहकर्मणि । शुष्काणि हीन्धनानि स्युः समिधस् तु यथोदिताः ॥

०५.०१
विश्वास-प्रस्तुतिः
पुष्टिकामः पलाशस्य गृह्णीयाच् छान्तिकर्मणि उदुम्बरस्य वित्तार्थी वटाश्वत्थस्य राज्यधीः ॥

०५.०२
विश्वास-प्रस्तुतिः
श्रीकामो बिल्ववृक्षस्य कदम्बस्य तथैव च । विद्वेषं कटुकैः कुर्यात् कण्टकैर् मरणं भवेत् ॥

०५.०३
विश्वास-प्रस्तुतिः
ककुभं कटभं वृक्षं कौविरालं तु कौहकम् । वंशं विभीतकं शिग्रुं विद्याद् उच्चाटने हितान् ॥

०५.०४
विश्वास-प्रस्तुतिः
स्तम्भने सर्वसैन्यानां विजयार्थे जयं दिशेत् । अपामार्गेण सौभाग्यम् आयुष्कामो हि दूर्वया ॥

०५.०५
विश्वास-प्रस्तुतिः
पुन्नागचम्पकौ वृक्षा ये चान्ये क्षीरिणः शुभाः । यद् यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि ॥

०५.०६
विश्वास-प्रस्तुतिः
तत्र तेनैव सिद्धिः स्याद् विपरीते तथा भयम् । अर्कः पलाशो मधुको न्यग्रोधोदुम्बरस् तथा ॥

०५.०७
विश्वास-प्रस्तुतिः
प्लक्षो ऽश्वत्थो गोमयानिकुशाश् च समिधः क्रमात् । यथाक्रमेण समिध आदित्यादिग्रहेषु च ॥

०५.०८
विश्वास-प्रस्तुतिः
शतं सहस्रं लक्षं वा गायत्र्या परमाहुतिः । हूयमानं तु यत् किं चित् कृतान्नं यदि वा तिलाः ॥

०५.०९
विश्वास-प्रस्तुतिः
ग्रहनक्षत्रपीडायां सावित्र्यापि हुतं हुतम् । एषभेदो मयाख्यातः शुभस्य त्व् अशुभस्य च ॥

०५.१०
विश्वास-प्रस्तुतिः
यथोक्तम् एतद् यः कुर्यात् स सर्वफलम् आप्नुयाद् इति ॥