०१.०१
विश्वास-प्रस्तुतिः
ॐ शौनकं तु सुखासीनं भार्गवः परिपृच्छति । कुण्डं कस्मिन् भवेत् कीदृक् कस्यां वा दिशि किं फलम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
स तस्मा उपसन्नाय आचष्टे भार्गवाय तु । कुण्डं यस्मिन् भवेद् यादृग् यस्यां वा दिशि यत् फलम् ॥

०१.०३
विश्वास-प्रस्तुतिः
चतुरश्रं शफाकृत्या अर्धचन्द्रं त्रिकोणकम् । वर्तुलं पञ्चकोणं च पद्माभं सप्तकोणकम् ॥

०१.०४
विश्वास-प्रस्तुतिः
कुण्डान्य् एतानि पूर्वादिदिक्षु अष्टसु विनिर्दिशेत् । दिग्देवतानां चाष्टानां कर्मणि स्वम्स्वम् आदिशेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
चतुरश्रं तु पूर्वस्याम् ऐन्द्रेष्व् अपि च कर्मसु । शफाकृति तदाग्नेय्याम् आग्नेयेष्व् अपि कर्मसु ॥

०१.०६
विश्वास-प्रस्तुतिः
अर्धचन्द्रं तु याम्यायां याम्येष्व् अपि च कर्मसु । नैरृत्यां च त्रिकोणं स्याद् अभिचारविधौ शुभम् ॥

०१.०७
विश्वास-प्रस्तुतिः
वारुण्यां वर्तुलं ज्ञेयं वारुण्येष्व् अपि कर्मसु । वायव्यां पञ्चकोणं तु वायव्येष्व् अपि कर्मन् ॥

०१.०८
विश्वास-प्रस्तुतिः
उत्तरस्यां तु पद्माभं सौम्येष्व् अपि च कर्मसु । ऐशान्यां सप्तकोणं तु रौद्रेष्व् अपि यथोदितम् ॥

०१.०९
विश्वास-प्रस्तुतिः
सर्वकर्मसु विज्ञेयं कुण्डं पद्मनिभं तु यत् । चतुरश्रं तु सर्वत्र समं स्याद् विजयावहम् ॥

०१.१०
विश्वास-प्रस्तुतिः
सर्वशान्तिकरं कुण्डं पद्माकारं विशेषतः । शान्तिके चतुरश्रं च पौष्टिके वर्तुलं तथा ॥

०१.११
विश्वास-प्रस्तुतिः
अभिचारे त्रिकोणं च वश्यादौ चार्धचन्द्रकम् । षट्कोणं मारणादौ च विद्वेषे चाष्टकोणकम् ॥

०१.१२
विश्वास-प्रस्तुतिः
मेखला सर्वकुण्डेषु द्वादशाङ्गुलम् इष्यते । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥

०२.०१
विश्वास-प्रस्तुतिः
न चेत् पुरस्ताद् धीनं स्यात् सुखं यज्ञः समाप्यते । यत् तु दक्षिणतो ऽहीनं तद् राज्ञस् त्व् अभयप्रदम् ॥

०२.०२
विश्वास-प्रस्तुतिः
यथाहीनं पश्चिमेन भवेत् तत् सिद्धिदं शुभम् । उत्तरेण समम्यत् स्यात् तद् राज्ञो राज्यवर्धनम् ॥

०२.०३
विश्वास-प्रस्तुतिः
मध्ये समं च सुखदं दिग्विदिक्षु समं तु यत् । तद् राजजनसम्पत्कृत् सर्वांश् चारीन् विनाशयेत् ॥

०२.०४
विश्वास-प्रस्तुतिः
न चेत् पुरस्ताद् इत्यादि य एष कथितो विधिः । मण्डपानां गृहाणां च माने शान्तिकरः स्मृतः ॥

०२.०५
विश्वास-प्रस्तुतिः
हस्तकुण्डं सदाहोमे अयुते द्विकरं स्मृतम् । लक्षहोमे चतुष्पाणि कोट्याम् अष्टकरं स्मृतम् ॥