०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ र्षिपुत्रिकायां तु स्फुतं सर्वेषु कर्मसु । लक्षणं ह्य् अग्निवर्णानां प्रवक्ष्यामि यथाक्रमम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
वास्तुकर्मण्य् अथोत्पाते पतेर् नीराजने विधौ । सर्वनक्षत्रहोमेषु ग्रहातिथ्यविधौ तथा ॥

०१.०३
विश्वास-प्रस्तुतिः
यात्रोद्याने विवाहेषु चूडोपनयनेषु च । सर्वेषु चाग्निहोमेषु वह्निवर्णान् निबोधत ॥

०१.०४
विश्वास-प्रस्तुतिः
मानेनाध्यर्धशीर्सण्या त्रिमध्या षण्मुखा स्मृता । चतुरश्रा चकर्तव्या वेदिः शान्तीष्टिकर्मसु ॥

०१.०५
विश्वास-प्रस्तुतिः
एषा वै विपरीता च कार्या घोरेषु कर्मसु । कर्मणाम् अनुरूपां तु वेदिं वक्ष्याम्य् अतः परम् ॥

०१.०६
विश्वास-प्रस्तुतिः
यथावर्तनगोचर्मचक्रतल्पेषु सम्मिता । सम्मृज्य प्रोक्ष्य संस्तीर्य विधिवच् चोपशोभयेत् ॥

०१.७
विश्वास-प्रस्तुतिः
श्लक्ष्णाः समाहिताः सर्वाः प्रागुदक्प्रवणाः शुभाः । सम्मृज्य प्रोक्ष्य संस्तीर्य विधिवच् चोपशोभयेत् ॥

०१.८
विश्वास-प्रस्तुतिः
दक्षिणेन तु या वक्रा याज्ञिकं सा विनाशयेत् । या च वक्रोत्तरेण स्याद् यजमानं विनाशयेत् ॥

०१.९
विश्वास-प्रस्तुतिः
पुरस्तात् पृष्ठतो वापि मध्यतो विषमा च या । पुरम् अन्तःपुरं चापि नायकं च हिनस्ति सा ॥

०१.१०
विश्वास-प्रस्तुतिः
एषा सङ्क्षेपतः प्रोक्ता वेदिः सामान्यलक्षणा । विशेषतस् तु तेष्व् एव कर्मस्व् एवाभिधास्यते ॥

०२.१
विश्वास-प्रस्तुतिः
प्राचीं संशोधयेद् भूमिं यज्ञवास्तु यथोदितम् । समित्कुशाग्निवर्णानां लक्षणज्ञो भवेद् गुरुः ॥

०२.२
विश्वास-प्रस्तुतिः
ततस् तु यत्नवान् सम्यग् अग्नाव् उपसमाहिते । अग्निवर्णान् परीक्षेत यथोवाचोशनाः कविः ॥

०२.३
विश्वास-प्रस्तुतिः
शब्दं वर्णं च गन्धं च रूपं स्नेहं प्रभां गतिम् । स्पर्शं चापि परीक्षेत अग्नाव् इति विनिश्चयः ॥

०२.४
विश्वास-प्रस्तुतिः
स्वाहाकारावसाने तु स्वयम् उत्थाय पावकः । हविर् यात्राभिलषति तद् विद्याद् अर्थसिद्धये ॥

०२.५
विश्वास-प्रस्तुतिः
वृषवारणमेघौघनेमिदुन्दुभिनिःस्वनः । मृणालपद्मदूर्वाभकुमुदोत्पलगन्धमुक् ॥

०३.१
विश्वास-प्रस्तुतिः
तथा महात्मा स्तनयन् वाहकुम्भनिभद्युतिः । संहितज्वालनिकरः पावकः पापनाशनः ॥

०३.२
विश्वास-प्रस्तुतिः
कुरण्टाकृतिगोक्षीरहेमारुणतडित्प्रभः । प्रोत्फुल्लोत्पलकुन्देन्दुकुमुदाभोत्पलद्युतिः ॥

०३.३
विश्वास-प्रस्तुतिः
हुतो ऽपि सञ्ज्वलत्य् एव स्निग्धो विप्रस्य दक्षिणः । लेलिहानः प्रमुदितः कृष्णवर्णो ऽर्थसिधये ॥

०३.४
विश्वास-प्रस्तुतिः
विशालमूलो ह्य् अमलो नीलः पृथुलमध्यमः । प्रदीप्ताग्रो ऽमलततो ज्वालामालाकुलो ऽनलः ॥

०३.५
विश्वास-प्रस्तुतिः
प्रदक्षिणः प्रसन्नार्चिर् अर्चिष्मान् अर्चितद्युतिः । अर्चनीयश् च नृपतेर् अर्चितो हव्यवाहनः ॥

०४.१
विश्वास-प्रस्तुतिः
परिस्तरणयोगाच् च यज्ञकाण्डपरिच्छदम् । शान्तिवेश्मार्ध्वदीप्तार्चिर् ऋत्विजश् चानुलिम्पति ॥

०४.२
विश्वास-प्रस्तुतिः
प्रहसन्न् इव शब्देन द्योतयन्न् इव तेजसा । कृतपुण्यस्य नृपतेर् हूयमानो हुताशनः ॥

०४.३
विश्वास-प्रस्तुतिः
कर्मणो ऽवभृथे यस्य हविषो ऽन्ते च पार्थिवम् । सुगन्धाभिर् अधूमाभिः शिखाभिः संस्पृशन्न् इव ॥

०४.४
विश्वास-प्रस्तुतिः
अर्चिभिर् ज्वालभारैश् च प्रदहन् द्विषतां दिशः । विधूमः कुण्डली यः स्याद् अनुलोमश् च सिद्धये ॥

०५.१
विश्वास-प्रस्तुतिः
कुरण्टहेमारुणशङ्खकुन्दमुक्तावलीन्दुप्रतिमे हुताशे । समस्वने सिंहवृषैर् गजेन्द्रबलाहकौघस्वनदुन्दुभीनाम् ॥

०५.२
विश्वास-प्रस्तुतिः
विशालमूले पृथुले च मध्ये ज्ञेयानले सम्प्रति पीडिताग्रे । मृणालपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य ॥

०५.३
विश्वास-प्रस्तुतिः
आतप्तपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य । तस्यार्थबान्धववती सकला महीयं वीर्यांशुजालविवराहतराजशब्दा ॥

०५.४
विश्वास-प्रस्तुतिः
विभ्राजते त्व् अखिलरागयुतो हुताशो हस्तावृतं कथयतीव जयं नृपस्य । सूर्यांशुभिः कृतविघट्टनहेमपद्मकिञ्जल्कचूर्णनिकरारुणतामलांशुः ॥

०५.५
विश्वास-प्रस्तुतिः
क्षीरोदशुक्तिपुटगर्भविकीर्णमुक्तासङ्घातपाण्डुररजो रथनेमिघोषः । दाता नृपाय वसुधां तु हिमांशुमौलिज्योत्स्नाविकाशितसमुद्रजलां हुताशः ॥

०६.१
विश्वास-प्रस्तुतिः
लक्ष्मीप्रदोहरमृणालकपालशुभ्रस्निग्धानुवृत्तशिखरप्रकृतिश् च यत्र । वैश्वानरो ज्वलति यस्य विशुद्धमूर्तिः स प्राप्नुयान् नृपशताधिपतां नरेन्द्रः ॥

०६.२
विश्वास-प्रस्तुतिः
बालार्कबोधितसरोरुहगर्भगन्धस् तोयावलम्बिजलदस्तनिताभिरामः । राज्ञो ददाति वसुधां हुतभुग् गजेन्द्रदन्ताग्रकम्पितमहार्णववीचिवृक्षाम् ॥

०६.३
विश्वास-प्रस्तुतिः
यस्यां वसन्तरविमण्डलतुल्यबिम्बो वेद्यां नृपस्य परिपूर्णमरीचिजालः । तस्यानलाकलितसागरतोयवस्त्रा म्रागैक्षवेनिर् अवनिर् वशम् अभ्युपैति ॥

०६.४
विश्वास-प्रस्तुतिः
यस्यानलो ज्वलति काञ्चनतुल्यगौरो प्रज्वाल्यमानवपुर् उत्पलकोशगन्धः । आयाति तस्य भवनं ह्य् अलिदीप्तिमाला सव्रीडसूर्यकिरणा क्षितिपाललक्ष्मीर् इति ॥