२३ यज्ञपात्रलक्षणम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथातो यज्ञपात्राणां लक्षणं योनिर् एव च । रूपं तथा प्रमाणं च क्रमेनैव प्रकथ्यते ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

चमसग्रहपात्राणि होमपात्राणि यानि च । यज्ञवृक्षास् तथा शाखा ब्रह्मवेदे प्रदर्शिताः ॥

०१.०३

विश्वास-प्रस्तुतिः

पितृपिण्डेषु दर्व्याद्यम् अग्निष्वात्तं च याज्ञिकम् । सायंहोमेषु नित्यानि तथा नैमित्तिकानि च ॥

०१.०४

विश्वास-प्रस्तुतिः

बिल्वाकृतिश् चरुः प्रोक्तस् ताम्रो वा मृन्मयो ऽपि वा । ग्रीवायां मुखविस्तीर्णश् चरुस्थालीति कीर्त्तितः ॥

०१.०५

विश्वास-प्रस्तुतिः

कुशस्याम्रस्य वा पर्णैर् वेणोर् वा बल्बजस्य वा । चतुष्कोणार्धवीतं च लोके शूर्पं तद् उच्यते ॥

०२.०१

विश्वास-प्रस्तुतिः

असिः खड्गं च निस्त्रिंशः पर्यायाः परिकीर्त्तिताः । तदाकृट्य् एव यद् रूपं यज्ञे स्फ्यं च वदन्ति तम् ॥

०२.०२

विश्वास-प्रस्तुतिः

इध्मोच्छ्रयम् अर्धखातं खातेनैव तु विस्तरः । मध्ये हीनं तथोर्ध्वाग्रं वारणं तद् उलूखलम् ॥

०२.०३

विश्वास-प्रस्तुतिः

स्थूलत्वान् मुष्टिमात्रं च स्कन्धमात्रं प्रमाणतः । वारणं मुसलं चैव अधस्ताल् लोहवेष्टितम् ॥

०२.०४

विश्वास-प्रस्तुतिः

स्रुवस् तु मूलदण्डश् च बिलं चाङ्गुष्ठपर्वणः । समवेते पृथग्भूते बिलार्धे दण्डवृत्तता ॥

०२.०५

विश्वास-प्रस्तुतिः

वैकङ्कती ध्रुवा प्रोक्ता सर्वयज्ञेषु या स्मृता । तथाग्निहोत्रहवणी स्रुवश् चापि तथा स्मृतः ॥

०३.०१

विश्वास-प्रस्तुतिः

मूलदण्डा त्वग्बिला च पुष्करं चतुरङ्गुलम् । पुष्कराद् द्विगुणं चाग्रं गजोष्ठं परिपठ्यते ॥

०३.०२

विश्वास-प्रस्तुतिः

[नेत्रादिकरणैर् हीनं नासिकाभ्यां द्विजैस् तथा । द्व्यङ्गुलः खाता च बिलाद् अङ्गुलं चैव पिण्डिका । वृत्ता वा चतुरश्रा वा साधस्ताच् छोभना स्मृता] ॥

०३.०३

विश्वास-प्रस्तुतिः

अर्धाङ्गुलं पृथुत्वेन बिलबाह्यं समन्ततः । बिलं वृत्तं स्रुचो मध्ये दण्डस्थौल्यं बिलार्धतः ॥

०३.०४

विश्वास-प्रस्तुतिः

चतुर्विंशत्यङ्गुलं दण्डं वदन्त्य् एके मनीषिणः । सप्तत्रिंशद् अङ्गुलानि सा स्रुक् चैव प्रकीर्तिता ॥

०३.०५

विश्वास-प्रस्तुतिः

भिन्ना विशीर्णा वक्रा च क्लिन्ना च स्फुटिता तथा । सुषिरा ग्रन्थिभिर् युक्ता चक्षुरादिविनाशिनी ॥

०४.०१

विश्वास-प्रस्तुतिः

दग्धशेषे ऽर्धशुष्के च विद्युता चैव पातिते । उन्मूल्ये पतिते भग्ने मनसापि न चिन्तयेत् ॥

०४.०२

विश्वास-प्रस्तुतिः

शुभनक्षत्रातिथिषु शुभां गत्वा दिशं बुधः । स्रुवार्थं पातयेद् वृक्षं प्रातः प्राग्रं च सौम्यवाक् ॥

०४.०३

विश्वास-प्रस्तुतिः

मृगो हरिणरुरुश् च कृष्णपृष्ठशिरस् तथा । यत् तस्य चर्म त्वक् चैव तत् कृष्णाजिनम् उच्यते ॥

०४.०४

विश्वास-प्रस्तुतिः

वाममुष्टिगृहीतास् तु प्रछिद्यन्ते सकृत् कुशाः । परशुनासिना वा तत् सकृदाछिन्नम् उच्यते ॥

०४.०५

विश्वास-प्रस्तुतिः

अङ्गुष्ठपर्वाग्रमुखं दर्व्याकृति तु मेक्षणम्। वैकङ्कते पालाशे वा प्रादेशस् तु प्रमाणतः ॥

०५.०१

विश्वास-प्रस्तुतिः

अलाबु वैणवं वापि दार्व्यं वैणवम् एव वा । अक्षाव् अमण्डलौ प्रोक्तौ यथा दृष्टं पुर र्षिभिः ॥

०५.०२

विश्वास-प्रस्तुतिः

चक्राभ्यां काष्ठसङ्घातैः शिल्पिभिश् चैव यत् कृतम् । लोके प्रसिद्धं शकटम् अग्निष्ठं याज्ञिके विधौ ॥

०५.०३

विश्वास-प्रस्तुतिः

आज्यं घृतं विजानीयान् नवनीतं सुसंस्कृतम् । सौवीराद्य् अञ्जनं चैव अथ वा दैविकं तथा ॥

०५.०४

विश्वास-प्रस्तुतिः

अभ्यञ्जनं च तत् प्रक्तं तिलतैलं च यद् विदुः । आसनं कशिपु प्रोक्तं कायस्थं चोपबर्हणम् ॥

०५.०५

विश्वास-प्रस्तुतिः

यवोदरैर् अष्टभिस् तु अङ्गुलं परिपठ्यते । चरुत्विंशत्यङ्गुलं तु याज्ञिकैर् हस्त आकृतः ॥

०६.०१

विश्वास-प्रस्तुतिः

हस्तमात्रं स्रुवः खड्गं सकृदाछिन्नम् एव च । बाहुमात्रा जुहूः प्रोक्ता ध्रुवा बर्हिस् तथैव च ॥

०६.०२

विश्वास-प्रस्तुतिः

ताम्रश् चैव स्रुवः प्रोक्तः खड्गं खादिरम् एव च । पालाशी च जुहूः कार्या इध्माश् चैव विशेषतः ॥

०६.०३

विश्वास-प्रस्तुतिः

ग्रहाः पात्राणि चमसा दण्डयूपासनानि च । वृक्षेषु याज्ञिकेषु स्युर् यथालाभेषु नान्यतः ॥

०६.०४

विश्वास-प्रस्तुतिः

समिधः प्रादेशमात्र्यो नित्यहोमे प्रकीर्तिताः । समिल्लक्षणदृष्टानि प्रमाणानि यथाक्रमम् ॥

०६.०५

विश्वास-प्रस्तुतिः

शम्य् अश्वत्थ[ः] पलाशश् च खादिरो ऽथ विकङ्कतः । काश्मर्योदुम्बरो बिल्वो यज्ञवृक्षाः प्रकीर्तिताः ॥

०७.०१

विश्वास-प्रस्तुतिः

एषाम् अलाभे वृक्षाणाम् अन्ये ग्राह्यास् तु याज्ञिकैः । यज्ञाङ्गकार्ये द्रष्टव्याः समिदर्थं विशेषतः ॥

०७.०२

विश्वास-प्रस्तुतिः

यवव्रीहिमहाव्रीहिप्रयङ्गूणां हि तण्डुलाः । श्यामाकतण्डुलतिला आसाद्याः श्रुतिचोदिताः ॥

०७.०३

विश्वास-प्रस्तुतिः

सायंहोमेषु यद् द्रव्यं प्रातर्होमेषु तद् भवेत् । भिन्नद्रव्यहुतं यत् तु न हुतं तस्य तद् भवेत् ॥

०७.०४

विश्वास-प्रस्तुतिः

उदिते ऽनुदिते चैव समयाध्युषिते तथा । क्षुधाकाले तथाप्य् केके पक्षहोमं तु कारयेत् ॥

०७.०५

विश्वास-प्रस्तुतिः

यायावराणां मुनिभिः पक्षहोमस् तु तैः स्मृतः । यथा कथं चिद् वचनं श्रुत्युक्तं द्विज आचारेत् ॥

०८.०१

विश्वास-प्रस्तुतिः

आतुरः पथिकश् चैव राजोपद्रवपीडितः । पक्षहोमं तदा कुर्यान् निस्तीर्य सततं चरेत् ॥

०८.०२

विश्वास-प्रस्तुतिः

चतुर्दशगृहीतं तु सकृद् उन्नयते हविः । एका समित् सकृद् धोमः सो ऽर्धमासाय कल्पते ॥

०८.०३

विश्वास-प्रस्तुतिः

चतुर्दशगुणं कृत्वा स्रुचा पात्रेण पूर्ववत् । एवं गार्हपत्ये च दक्षिणाग्नौ च जुह्वति ॥

०८.०४

विश्वास-प्रस्तुतिः

पूर्वा हुत्वाहुतीः सायं व्युष्टायाम् अपरे ऽह्नि । एतेनैव विधानेन जुह्वति प्रातराहुतीः ॥

०८.०५

विश्वास-प्रस्तुतिः

ऋषिभिश् च पुरा दृष्टम् आपत्कालेषु सर्वतः । अरण्योश् च समारोप्य श्रुतिदृष्टेन कर्मणा ॥

०९.०१

विश्वास-प्रस्तुतिः

होमार्थेष्व् एतद् द्रष्टव्यम् आहिताग्निगृहेष्व् अपि । तत्प्रयोजनमात्रं तु न दोषः सूतकेषु च ॥

०९.०२

विश्वास-प्रस्तुतिः

सद्यःशौचादिकं प्रोक्तं सूतकं च द्विजातिभिः । स्वयंहोमीति वचनान् न दोषः श्रुतिचोदनात् ॥

०९.०३

विश्वास-प्रस्तुतिः

व्रतिनां सत्त्रिणां चैव महाराजाहिताग्नयः । एषां दोषो न विद्येत सायम्प्रातः क्रिये स्थिते ॥

०९.०४

विश्वास-प्रस्तुतिः

पालाश्यः समिधो ऽदोषा नित्यं होमे प्रकीर्तिताः । अथ वा कौशिकोक्तानां यज्ञियानां महीरुहाम् ॥

०९.०५

विश्वास-प्रस्तुतिः

अङ्गुलत्रयम् आवर्त्य उच्छ्रये ऽप्य् अङ्गुलत्रयम् । पुरोडाशप्रमाणं तु सर्वत्र कथितं नृणाम् ॥

१०.०१

विश्वास-प्रस्तुतिः

षोडशाङ्गुलम् आवर्त्य त्रिभागं चोत्तरम् ऋजु । दक्षिणस्यां दिशि स्थानं दक्षिणाग्नेः प्रकीर्तितम् ॥

१०.०२

विश्वास-प्रस्तुतिः

अष्टाविंशत्य् अङ्गुलानि गार्हपत्यं प्रकीर्तितम् । आहवनीयम् [चतुर्]विंशतिश् चतुरश्रं तु कारयेत् ॥

१०.०३

विश्वास-प्रस्तुतिः

अङ्गुलानि तु षट्त्रिंशद् ध्न्वाकृत्या तु कारयेत् । दक्षिणाग्नेस् तु वै कुण्डं विद्वद्भिज् परिकथ्यते ॥

१०.०४

विश्वास-प्रस्तुतिः

ईशान्यां दिशि सभ्यस्य गार्हपत्यविधानतः । सभ्यं नेच्छन्ति शालाग्नौ माहकिः कौशिकस् तथा ॥

१०.०५

विश्वास-प्रस्तुतिः

मौदायनास् तथेच्छन्ति शौनकेयास् तथैव च । मन्ताद् एव तथा प्रोक्तं द्रव्यं यत्र न दृश्यते ॥

१०.०६

विश्वास-प्रस्तुतिः

आज्यं तत्र विजानीइयाद् धोमस् तत्र स्रुवेण च । अभ्युक्षणं हविःकर्म कर्तव्यं वज्रपाणिना ॥

१०.०७

विश्वास-प्रस्तुतिः

कुशहस्तेन कर्तव्या जपहोमपितृक्रियाः । यज्ञे चैव अङ्गभूताश् च पात्रमन्त्रहविर्द्विजाः । चरुत्भिश् च क्रियाः सर्वाश् चातुर्होत्रं तद् उच्यते ॥

११.०१

विश्वास-प्रस्तुतिः

याज्ञिकास् तु वदन्त्य् अन्ये चतुर्भिर् यच् च हूयते । ब्रह्मणाध्वर्युहोतृभ्यां त्रिभिर् अग्निचतुर्थकैः ॥

११.२

विश्वास-प्रस्तुतिः

दुर्भिक्षे चाकुले भङ्गे ऋत्विजां चाप्य् असम्भवे । एकश् चातुर्होत्रं कुर्याद् आपस्तम्बे प्रपठ्यते ॥

११.३

विश्वास-प्रस्तुतिः

ऋत्विजां च७अप्य् असाम्निध्ये अध्वर्युस् तत् पठेत् स्वयम् । अस्थानपठिते कुर्युर् ऋत्विग् इत्यादि चोदितम् ॥

११.४

विश्वास-प्रस्तुतिः

खाते लूने तु यच् चोक्तं संस्कारश्रुतिहेतुभिः । द्रव्याणां यज्ञक्ल्प्त्यर्थं कुर्यात् पूर्वेण सङ्ग्रहम् ॥

११.५

विश्वास-प्रस्तुतिः

पात्रासादं द्वितीयं च प्रोक्षणेन विवर्जितम् । उभयोश् चैव कुर्वीत पाकयज्ञेष्टिकर्मवत् ॥

१२.१

विश्वास-प्रस्तुतिः

कृष्णाजिनं तिला दर्भा मन्त्रा आज्यं द्विजोत्तमाः । दोषो न विद्यते ह्य् एषां यथार्थं सन्नियोजयेत् ॥

१२.२

विश्वास-प्रस्तुतिः

आज्यं धूमहविर् ज्वाला परिपाकः स्फुलिङ्गकैः । दावाग्निकाष्ठसंस्पर्शे अग्नेर् दोषो न विद्यते ॥

१२.३

विश्वास-प्रस्तुतिः

जपाध्यायतपोदानैः सोपवासैः सहोमकैः । श्राद्धादिपितृकार्यैस् च न दोषः परिवेदने ॥

१२.४

विश्वास-प्रस्तुतिः

पितृभ्रातृसपत्नैश् च पतितोन्मत्तषण्ढकैः । जात्यन्धमूकबधिरैर् न दोषः परिवेदने ॥

१२.५

विश्वास-प्रस्तुतिः

अत्यन्तकामिना चैव पत्नीहीनेन चैव हि । एषाम् अनुज्ञाम् आदाय कुर्याद् वैतानिकी[ः] क्रियाः ॥

१३.१

विश्वास-प्रस्तुतिः

रौद्रराक्षसपैशाचान् आसुरांश् चाभिचारिकान् । मन्तांश् च पितृकर्मैवं कृत्वालभ्योदकं स्पृशेत् ॥

१३.२

विश्वास-प्रस्तुतिः

स्रुक् स्रुवश् च ध्रुवा खड्गं मुसलोलूखलं चरुः । उदकेनैव सोष्णेन सम्प्रक्षाल्य विशुध्यति ॥

१३.३

विश्वास-प्रस्तुतिः

पात्रं ग्रहाश् च चमसा हविः शूर्पं कुशासनम् । सोमस्पृष्टं च यद् भाण्डं वारिशौचेन शुध्यति ॥

१३.४

विश्वास-प्रस्तुतिः

वेदोक्तं सर्वमन्तोक्तं शौनकेन महात्मना । अवश्यं तद् द्विजैः कार्यं श्रेयस्कामैस् तु नित्यशः ॥

१३.५

विश्वास-प्रस्तुतिः

पात्रानां तु प्रसाङ्गेन यद् अन्यत् परिकीर्तितम् । सायं प्रातस् तु होमाङ्गं पुरा दृष्टं महर्षिभिः ॥

१४.१

विश्वास-प्रस्तुतिः

गुरुणा भाषितेनैव याज्ञिकानुमतेन च । सदापदिष्टद्रव्याणां लक्षणं परिकीर्तितम् ॥

१४.२

विश्वास-प्रस्तुतिः

नित्यं ये ऽनुस्मरिष्यन्ति यज्ञपात्रेषु लक्षणम् । राजसूयाश्वमेधाभ्यां फलं प्राप्स्यन्ति ते ध्रुवम् ॥

१४.३

विश्वास-प्रस्तुतिः

पिप्पलादेन महता समाख्यातम् इदं शुभम् । ब्राह्मणानां हितार्थाय पुत्रशिष्यहिताय च ॥

१४.४

विश्वास-प्रस्तुतिः

निष्कामो वा सकामो वा वेदोक्तं यः समाचरेत् । निष्कामस्य तु मुक्तिः स्यात् सकामः फलम् अश्नुते ॥

१४.५

विश्वास-प्रस्तुतिः

निष्कामेण तु यत् किं चित् कर्तव्यम् इति वैदिकम् । तत् सर्वं मुक्तिदं ज्ञेयं परापरपरं सुखम् ॥

१४.६

विश्वास-प्रस्तुतिः

न शोकस् तस्य नो व्याधिर् न मृत्युर् न जरा तथा । न क्षुधा न पिपासा च अमृतात्मा स तिष्ठति ॥