०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातः सम्प्रवक्ष्यामि अरण्योश् चैव लक्षणम् । रूपम् अथा प्रमाणं च गुणदोषान् तथैव च ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
चोदितान् शब्दशास्त्रेण आचार्येण तु धीमता । पुरा कल्पे च यद् दृष्टम् ऋषिभिश् चैव लक्षणम् ॥

०१.०३
विश्वास-प्रस्तुतिः
गृह्याग्निं परिसङ्गृह्य धर्मपत्न्या सहैव तु । वैतानिकास् ततः कुर्याद् आधानाद्या यथोदिताः ॥

०१.०४
विश्वास-प्रस्तुतिः
तिथौ शुभायां नक्षत्रे दिशं गत्वा त्व् अनिन्दिताम् । अश्वत्थात् तु शमीगर्भाद् उक्तम् आहरणं श्रुतेः ॥

०१.०५
विश्वास-प्रस्तुतिः
शमीवृक्षे तु यो ऽश्वत्थो नान्यवृक्षेण संयुतः । मध्ये मूलं न बाह्ये तु स गर्भः परिकीर्तितः ॥

०२.०१
विश्वास-प्रस्तुतिः
अभावे तु शमीगर्भे अश्वत्थाद् एव वाहरेत् । प्राप्ते चैव शमीगर्भे समारोप्य विसर्जयेत् ॥

०२.०२
विश्वास-प्रस्तुतिः
चतुर्विंशाङ्गुला दीर्घा विस्तरेण षडङ्गुला । चतुरङ्गुलोच्छ्रया च अरणिश् चोत्तरारणिः ॥

०२.०३
विश्वास-प्रस्तुतिः
आ स्कन्धाद् उरसो वापि इति स्तौदायनैः स्मृता । बाहुमात्रा देवदर्शैर् जाजलैर् ऊरुमात्रिका ॥

०२.०४
विश्वास-प्रस्तुतिः
चारणवैद्यैर् जङ्घे च मौदेनाष्टाङ्गुलानि च । जलदायनैर् वितस्तिर् वा षोडशेति तु भार्गवः ॥

०२.०५
विश्वास-प्रस्तुतिः
शिरःप्रमाणे नाभौ तु चतुर्विंशतिकैव हि । शौनकादिभिर् आचार्यैर् एतन् मानं प्रकीर्तितम् ॥

०३.०१
विश्वास-प्रस्तुतिः
तस्यास् तु पिण्डः षड्भागे चतुर्भागे तु विस्तरे । चतुरश्रा च श्लक्ष्णा च छिद्रग्रन्थिविवर्जिता ॥

०३.०२
विश्वास-प्रस्तुतिः
क्लिन्ना भिन्नाग्निसंस्पृष्टा स्फुटिता विद्युता हता । अन्यैश् च दोषैः संयुक्ता वर्जनीया प्रयत्नतः ॥

०३.०३
विश्वास-प्रस्तुतिः
शिरोग्रन्थिर् हरेच् चक्षुश् छिद्रा पत्नीविनाशिनी । क्लिन्ना विनाशयेत् पुत्रान् स्फुटिता शोकम् आवहेत् ॥

०३.०४
विश्वास-प्रस्तुतिः
ऊर्ध्वशुष्के न कर्तव्या कृष्णे रूक्षे तथैव च । उभे अप्य् एकवृक्षे च अरणिश् चोत्तरारणिः ॥

०३.०५
विश्वास-प्रस्तुतिः
तत्प्रमाणा तदर्धा वा भूयसी वा यथेच्छया । अनेनैव तु मन्थव्यो न कुर्याद् योनिसङ्करम् ॥

०४.०१
विश्वास-प्रस्तुतिः
योनिसङ्करसङ्कीर्णे महान् दोषः प्रपद्यते । स यज्ञस् तामसो नाम फलं तत्र न विद्यते ॥

०४.०२
विश्वास-प्रस्तुतिः
पिण्डे त्व् अयनविषुवौ पृथुत्वे ऋतवः स्थिताः । अर्धमासाश् च दीर्घत्वे कालश् चात्र प्रतिष्ठितः ॥

०४.०३
विश्वास-प्रस्तुतिः
यजमानो ऽरणिर् इति वदन्त्य् एके विपश्चितः । तत्प्रधानाः क्रियाः सर्वा यज्ञश् चापि तथैव हि ॥

०४.०४
विश्वास-प्रस्तुतिः
प्रथमे मूलषड्भागे पादौ जङ्घेति कीर्त्यते । द्वितीये जानुनी ऊरू तृतीये श्रोणिर् उच्यते ॥

०४.०५
विश्वास-प्रस्तुतिः
चतुर्थे जठरं साङ्गं ग्रीवा चैव तु पञ्चमे । षष्थे शिरः समाख्यातम् अङ्गान्य् एतानि निर्दिशेत् ॥

०५.०१
विश्वास-प्रस्तुतिः
मथिते पादजङ्घे च पिशाचः सम्प्रजायते । जानुनोश् च तथा चोर्वो राक्षस्त्वं प्रयाति हि ॥

०५.०२
विश्वास-प्रस्तुतिः
श्रोण्यां च सर्वकामा[ः] स्युर् जठरे क्षुत् तथा स्मृता । उरस्य् अमित्रा ग्रीवायां मृत्युः शिरसि वेदना ॥

०५.०३
विश्वास-प्रस्तुतिः
श्रोण्याम् एवात ऐच्छन्ति निर्दोषा कीर्तिता यतः । तथा वित्तपशून् पुत्रान् स्वर्गम् आयुः प्रियं सुखम् ॥

०५.०४
विश्वास-प्रस्तुतिः
प्रथमं मन्थनं श्रोण्याम् आधाने च विशेषतः । इतराणि यथेष्तं हि ग्रीवां सर्वत्र वर्जयेत् ॥

०५.०५
विश्वास-प्रस्तुतिः
त्रीण्य् अङ्गुलानि त्यक्त्वादौ तथा चत्वारि चान्ततः । मध्ये देवाः स्थितास् तस्माद् वह्निं तत्रैव मन्थयेत् ॥

०६.०१
विश्वास-प्रस्तुतिः
अनुलोमा भवेद् योनिः पार्श्वभेदो न विद्यते । आनुलोम्येन मथितः सर्वान् कामान् प्रयच्छति ॥

०६.०२
विश्वास-प्रस्तुतिः
मूलाद् अङ्गुलम् उत्सृज्य त्रीणित्रीणि च पार्श्वयोः । देवयोनिस् तु विज्ञेया तत्र मथ्यो हुताशनः ॥

०६.०३
विश्वास-प्रस्तुतिः
[मूलात् त्यक्त्वाङ्गुलान्य् अष्टौ अग्रात् तु द्वादशैव हि । अन्तरे देवयोनिः स्यात् तत्र मथ्यो हुताशनः] ॥

०६.०४
विश्वास-प्रस्तुतिः
वेदा यज्ञाय सम्भूता यज्ञा अग्नौ प्रतिष्ठिताः । अरण्योर् जायते चाग्निस् तयोस् तस्मात् प्रधानता ॥

०६.०५
विश्वास-प्रस्तुतिः
अरण्यर्धेन चैव स्युः खादिरौ चात्रपीडकौ । नेत्रं तु षड्गुणं चात्राद् उत्तरो ऽष्टाङ्गुलः स्मृतः ॥

०७.०१
विश्वास-प्रस्तुतिः
अष्टाङ्गुलः प्रमन्थः स्याच् चात्रं स्याद् द्वादशाङ्गुलम् । ओवीली द्वादशाङ्गुला एष यज्ञविधिः स्मृतः ॥

०७.०२
विश्वास-प्रस्तुतिः
व्याममन्त्रं वदन्त्य् एके अन्ये हस्तत्रयं विदुः । त्रिवृतं मुष्टिसंयुक्तं यज्ञवृक्षजवल्कलैः ॥

०७.०३
विश्वास-प्रस्तुतिः
चात्रे च भास्कराः प्रोक्ता उत्तरे वसवस् तथा । नेत्रे देवगणाः सर्वे विष्णुश् चैव तु पीडके ॥

०७.०४
विश्वास-प्रस्तुतिः
अरणिर् या द्वितीया तु उत्तरा सा प्रकीर्तिता । तत्रैकदेशं सङ्गृह्य उत्तरः स च कीर्तितः ॥

०७.०५
विश्वास-प्रस्तुतिः
प्राङ्मुखोदङ्मुखो वापि भ्रामकः पश्चिमामुखः । पाणिभ्यां पीडनं शुभ्रम् उत्तराग्रं प्रगृह्य तु ॥

०८.०१
विश्वास-प्रस्तुतिः
मूले मूलं तु संयोज्य चात्रस्यैवोत्तरस्य च । अरण्युपरि संस्थाप्य पीडकेन तु पीडयेद् ॥

०८.०२
विश्वास-प्रस्तुतिः
नेत्रेण भ्रामयेच् चात्रं यावद् वह्निः प्रजायते । सर्वैर् हि देवैः सम्पन्नस् तेन सर्वसुखः स्मृतः ॥

०८.०३
विश्वास-प्रस्तुतिः
ब्रह्माद्यैर् दैवतैश् चैव विद्वद्भिश् च तपोधनैः । एष यन्त्रप्रयोगस् तु दृष्टो यज्ञार्थहेतुभिः ॥

०८.०४
विश्वास-प्रस्तुतिः
यजमानेन मन्थव्यः स्वशाखाश्रोत्रियेण वा । तन्मन्त्रेन द्विजाग्र्यैर् वा स्मृतम् एतद् धि मन्थनम् ॥

(अव्परिस्_२२।९।१) (अथ) यद्य् अरणी जीर्णे स्यातां जन्तुभिर् मन्थनेन वा ॥ समानीते नवे अरणी आहृत्य श्वे भूते दर्शेनाष्ट्वा तस्मिन् पूर्वे शकलीकृत्य गार्हपत्ये प्रक्षिप्योपर्य् अग्नौ धारयन् जपति ॥
०९.०२
विश्वास-प्रस्तुतिः
उद् बुध्यस्वाग्ने प्र विशस्य योन्यां देवयज्यायै वोढवे जातवेदः । अरण्योर् अरणी सं चरस्व जीर्णां त्वचम् अजीर्णया निर् णुदस्वेत्य्

०९.०३
विश्वास-प्रस्तुतिः
आज्यं संस्कृत्याहवनीये मनस्वतीं जुहोति ॥ [पुत्रार्थी श्रावयेत्] ॥

०९.०४
विश्वास-प्रस्तुतिः
मनो ज्योतिर् जुषताम् आज्यस्य विछिन्नं यज्ञं सम् इमं दधातु । या इष्टा उषसो या अनिष्टास् ताः सं चिनोमि हविषा घृतेन स्वाहेति अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपति ॥ शराव् ओदनं सदक्षिणं ददाति ॥ सा प्रकृतेष्तिः सङ्गृह्यते ॥

१०.०१
विश्वास-प्रस्तुतिः
प्रसङ्गेनैव कथितम् अग्निमन्थनम् अत्र वै । अरण्योश् चाङ्गसम्भूतं नेत्रं चात्रं च पीडकः ॥

१०.०२
विश्वास-प्रस्तुतिः
य इदं धारयिष्यति अरण्योर् इह लक्षणम् । न तस्य दुर्लभं किं चिद् लोके परत्र च ॥

१०.०३
विश्वास-प्रस्तुतिः
पुत्रार्थी श्रावयेन् नित्यम् अचिराल् लभते सुतम् । श्रुतशीलं वृत्तवन्तं दीर्घायुर् विपुलां प्रजाम् ॥

१०.०४
विश्वास-प्रस्तुतिः
एतद् एवं समाख्यातं पिप्पलादेन धीमता । द्विजानां बालवृद्धानां पुरश्चरणम् उत्तमम् ॥

१०.०५
विश्वास-प्रस्तुतिः
अधीत्यैतच् च देहान्ते परं ब्रह्माधिगच्छति । न तस्य मृत्युर् न जरा निद्रा व्याधिर् न चैव हि । क्षुत्पिपासाभयं नास्ति ब्रह्मभूतः स तिष्ठति ॥