०१.०१
विश्वास-प्रस्तुतिः
ॐ सम्भारान् कीर्तयिष्यामो यथालक्षणसंयुतान् । यैः कर्म क्रियमाणं हि फलवत् स्याद् द्विजन्मनाम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
अछिन्नाग्रान् कुशान् आर्द्रान् इन्द्रनीलसमप्रभान् । शुष्कान् अपि श्वेतवर्णान् आहुः शान्तिकरान् बुधाः ॥

०१.०३
विश्वास-प्रस्तुतिः
सुरभीणि च पुष्पाणि सुस्वादूनि फलानि च मनोहराणि वासांसि सम्भारेषूपकल्पयेत् ॥

०१.०४
विश्वास-प्रस्तुतिः
सुरभीण्य् एव बीजानि अन्यवस्तूनि यानि च । अर्घचन्दनधूपादि हेमरत्नादि चोत्तमम् ॥

(१।७च्द्) गावश् च दक्षिणार्थं हि पयस्विन्यः सुलक्षणाः ।
(१।८अब्) षोडशाष्टौ च चत्वारश् चतुर्णां वेदवित्तमाः ॥
०१.०५
विश्वास-प्रस्तुतिः
ऋत्विजस् तु समाख्याता वयःशीलगुणान्विताः । द्वात्रिंशत् षोडशाष्टौ वा शान्तिकार्ये तथाद्भुते ॥

०१.०६
विश्वास-प्रस्तुतिः
सहिरण्याः सवस्त्राश् च सालङ्काराः सवत्सकाः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥

(१।७अब्) सर्वे ते ऽपि ह्य् अथर्वाण ऋत्विजः षोडश स्मृताः ।
(१।८च्द्) शुद्धात्मानो जपैर् होमैर् वैदिकैर् वीतमत्सराः ॥
०२.०१
विश्वास-प्रस्तुतिः
ताम्रराजतहैमानां मृन्मयानाम् अथापि वा । अछिद्राणां सवर्णानां कलशानां च सङ्ग्रहः ॥

०२.०२
विश्वास-प्रस्तुतिः
चरूणाम् अथ पात्राणाम् इन्धनानां विशेषतः । यवव्रीहितिलऽऽआदीनाम् आज्यस्याहरणं तथा ॥

०२.०३
विश्वास-प्रस्तुतिः
अछिद्रास्फातितावक्रा दीर्घपर्वाः सुमध्यमाः । शमीदूर्वातरूणां तु ज्ञेयाः शान्तौ शभावाः ॥

०२.०४
विश्वास-प्रस्तुतिः
पुष्करतन्तुगोवालत्रुटिसर्षपयवस्य तु । षड्गुणितःषड्गुणितो [भवति] नरस्याङ्गुलमाने ॥

०२.०५
विश्वास-प्रस्तुतिः
गोपुच्छसदृशो दण्डः समः श्लक्ष्णो मनोहरः । स्रुवश् च शान्तुके ज्ञेयः स्रुग् उक्ता यज्ञलक्षणा ॥

०३.०१
विश्वास-प्रस्तुतिः
सौवर्णः शान्तिके प्रोक्तः पालशो वाथ खादिरः । अभिचारे विशेषेण कुर्यात् स्रुवम् अयोमयम् ॥

०३.०२
विश्वास-प्रस्तुतिः
कांस्यं य्च्चाटने कुर्याद् आश्वत्थं वश्यकर्मणि । विशेषेण तु विद्वेषे स्रुवो निम्बमयः स्मृतः ॥

०३.०३
विश्वास-प्रस्तुतिः
पौष्टिके राजतं विद्यात् ताम्रं च विजयावहम् । अमृतादौ तु विज्ञेयश् चान्दनः सिद्धिदः स्रुवः ॥

०३.०४
विश्वास-प्रस्तुतिः
स्रुवाणां विषयं ज्ञात्वा कीलकानां विधिं तथा । गृहस्याश्मविधिं दिक्षु कर्मसिद्धिम् अवाप्नुयात् ॥

०३.०५
विश्वास-प्रस्तुतिः
श्लेष्मातकार्ककण्टकिकटुतिक्तादिवर्जिते । अरिष्टगृध्रकौशिकविहङ्गैश् च विवर्जिते ॥

०४.०१
विश्वास-प्रस्तुतिः
गुल्मवल्लीलतायुक्ते हृद्यैश् च मधुरैर् द्रुमैः । तरुणैः फलवद्भिश् च श्मशानास्थिविवर्जिते ॥

०४.०२
विश्वास-प्रस्तुतिः
मयूरचक्रवाकादिहंसकारण्डवादिभिः । सुस्वरैर् नादिते देशे हृद्याङ्कुरसमन्विते ॥

०४.०३
विश्वास-प्रस्तुतिः
नदीतटे समुद्रस्य सङ्गमे वा विशेषतः । अनिन्द्ये दिग्विभागे च उत्तरे वापराजिते ॥

०४.०४
विश्वास-प्रस्तुतिः
भूमिं संशोधयेत् कर्ता प्रागुदक्प्प्रवणे शुभे । प्राचीं संशोध्य यत्नेन मण्डपं तत्र कारयेत् ॥

०४.०५
विश्वास-प्रस्तुतिः
नवकोष्ठं समं वापि हस्तैः षोषशभिर् मितम् । चतुरश्रं चतुर्द्वारम् एकोर्ध्वद्वारम् एव वा ॥

०५.०१
विश्वास-प्रस्तुतिः
तत ईशानकोणे तु स्नानवेदिं समाचरेत् । दशद्वादशहस्तं वा यथावितानम् एव वा ॥

०५.०२
विश्वास-प्रस्तुतिः
चतुर्गुणोच्छ्रयाश् चैव मूलस्तम्भास् तु ये ततः । उपस्तम्भास् तु ये पार्श्वे तदर्धेन प्रकीर्तिताः ॥

०५.०३
विश्वास-प्रस्तुतिः
कुम्भाः स्तम्भैस् तथा देयाः कामैर् द्वारं दिशां स्मृतम् । यजमानोच्छ्रयं वापि तदर्धेन प्रकीर्तिताः ॥

०५.०४
विश्वास-प्रस्तुतिः
कुण्डाकृति गृहं कुर्याद् द्विगुणं परिवेष्तितम् । सर्वदिक्षु प्लवं चैव कुण्डस्योर्ध्वं न छादयेत् ॥

०६.०१
विश्वास-प्रस्तुतिः
परितो द्वादशस्थूनं चतु[ः]स्तम्भं तु मध्यतः । अर्चितं पूजितं नित्यं शान्तौ शान्तिगृहं स्मृतम् ॥

०६.०२
विश्वास-प्रस्तुतिः
नेत्राद्युल्लोचशोभिष्ठं नानावर्णध्वजाकुलम् । रक्ता पीता च धूम्रा च कृष्णा नीलाथ पाण्डुरा ॥

०६.०३
विश्वास-प्रस्तुतिः
विचित्रा हीन्द्रनीलाभा पताकाः षोडश स्मृताः । [ऐन्द्रायुधधूम्रकृष्णनीलपाण्डुरवर्णकाः] ॥

०६.०४
विश्वास-प्रस्तुतिः
[पीतरक्तसिताः श्यामा पताकाः षोडश स्मृताः ।] कलशान् षोडशान् तत्र उपरिष्टान् महाध्वजः ॥

०६.०५
विश्वास-प्रस्तुतिः
वस्त्रेणाछादितान् कुर्यात् सहिरण्यान् पृथक्पृथक् । मणिमुक्ताफलैः पुष्पैर् हृद्यैश् च मधुरैः फलैः ॥

०६.०६
विश्वास-प्रस्तुतिः
समन्ताद् दिक्षु विन्यस्तैः प्रदीपैश् चाप्य् अलङ्कृतम् । धूपैर् बल्युपहारैश् च जयघोषैश् च बन्दिनाम् ॥

०६.०७
विश्वास-प्रस्तुतिः
शङ्खतूर्यनिनादैस् तु वीणादुन्दुभिसस्मितैः । पूज्यमानो हि नृपतिः प्रविशेत् सपुरोहितः ॥

०६.०८
विश्वास-प्रस्तुतिः
ततः शान्त्युदकं कृत्वा चातनेनानुयोजितम् । सम्प्रोक्ष्य विधिवन् मन्त्रैर् आनयेद् अरणी ततः ॥

०७.०१
विश्वास-प्रस्तुतिः
मथिते ऽग्नौ विधानेन शान्त्युदकेन समन्त्रकम् । होमं कृत्वा यथोक्तं तु निमित्तान्य् उपलक्षयेत् ॥

०७.०२
विश्वास-प्रस्तुतिः
मेघदुन्दुभिनिर्घोषैः प्रज्वलन् सर्वतस् तथा । अव्यवछिन्नदीर्घार्चिः सुस्निग्धः सिद्धिकारकः ॥

०७.०३
विश्वास-प्रस्तुतिः
किंशुकाशोकपद्माभो नीलोत्पलनिभस् तथा । वह्निः सिद्धिकरो ज्ञेयः सप्तरात्रान् न संशयः ॥

०७.०४
विश्वास-प्रस्तुतिः
हुतमात्रे प्रज्वलति विहसन्न् इव दृश्यते । तं विद्यात् सिद्धिदं वह्निं पद्मवर्णनिभं तथा ॥

०७.०५
विश्वास-प्रस्तुतिः
अस्निग्धार्चिः सधूमो यः कृष्णवर्णो ऽप्रदक्षिणः । यथोक्तविपरीतस् तु न वह्निः स्यात् प्रयङ्करः ॥

०७.०६
विश्वास-प्रस्तुतिः
यस्मिन् प्रसन्नताम् एति हूयमाने हुताशने । तत्र नित्यं महासिद्धिर् असमाप्ते विनिर्दिशेत् ॥ असमाप्ते विनिर्दिशेत् ॥ इति सम्भारलक्षणं समाप्तम् ॥