२० स्कन्दयागः धूर्तकल्पः

०१.०१

विश्वास-प्रस्तुतिः

अथातो धूर्तकल्पं व्याख्यास्यामः ॥

मूलम्

अथातो धूर्तकल्पं व्याख्यास्यामः ॥

०१.०२

विश्वास-प्रस्तुतिः

चतुर्षुचतुर्षु मासेषु फाल्गुणाषाढकार्त्तिकपूर्वपक्षेषु नित्यं कुर्वीत ॥

०१.०३

विश्वास-प्रस्तुतिः

श्वो भूते षष्ठ्याम् उपवासं कृत्वा प्रागुदीचीं दिशं निष्क्रम्य शुचौ देशे मनोहरे नोषरे मण्डलं त्रयोदशरत्निं कृत्वा मध्ये मण्डपस्य सर्ववानस्पत्यां मालां कृत्वा घण्टापताकास्रजः प्रतिसरं च मालापृष्ठे कृत्वा मध्ये दर्पणांश् चोपकल्पयित्वा तत्र यं वहन्ति हयाः श्वेता इत्य् आवाहयेत् ॥

०२.०१

विश्वास-प्रस्तुतिः

यं वहन्ति हयाः श्वेता नित्ययुक्ता मनोजवाः । तम् अहं श्वेतसन्नाहं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०२

विश्वास-प्रस्तुतिः

यं वहन्ति गजाः सिंहा व्याघ्राश् चापि विषाणिनः । तम् अहं सिंहसन्नाहं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०३

विश्वास-प्रस्तुतिः

यं वहन्ति मयूराश् च चित्रपक्षा विहङ्गमाः । तम् अहं चित्रसन्नाहं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०४

विश्वास-प्रस्तुतिः

यं वहन्ति सर्ववार्णाः सदायुक्ता मनोजवाः । तम् अहं सर्वसन्नाहं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०५

विश्वास-प्रस्तुतिः

यस्यामोघा सदा शक्तिर् नित्यं घण्तापताकिनी । तम् अहं शक्तिसन्नाहं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०६

विश्वास-प्रस्तुतिः

यश् च मातृगणैर् नित्यं सदा परिवृतो युवा । तम् अहं मातृभिः सार्धं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०७

विश्वास-प्रस्तुतिः

यश् च कन्यासहस्रेण सदा परिवृतो महान् । तम् अहं सिंहसन्नाहं धूर्तम् आवाहयाम्य् अहम् ॥

०२.०८

विश्वास-प्रस्तुतिः

आयातु देवः सगणः ससैन्यः सवाहनः सानुचरः प्रतीतः । षडाननो ऽष्टादशलोचनश् च सुवर्णवर्णो लघुपूर्णभासः ॥

०२.०९

विश्वास-प्रस्तुतिः

आयातु देवो मम कार्त्तिकेयो ब्रह्मण्यपित्रैः सह मातृभिश् च । भ्रात्रा विशाखेन च विश्वरूप इमं बलिं सानुचर जुषस्व ॥

०२.१०

विश्वास-प्रस्तुतिः

संविशस्वेति संवेशयेत् ॥

मूलम्

संविशस्वेति संवेशयेत् ॥

०३.१

विश्वास-प्रस्तुतिः

संविशस्व वरघण्टाप्सरःस्तवे यत्र सुभुजो हि निर्मिताः । संविष्टो मे धेहि दीर्घम् आयुः प्रजां पशूंश् चैव विनायकसेन ॥

०३.२

विश्वास-प्रस्तुतिः

इमा आप इति गन्धोदकं पाद्यं दद्यात् ॥ प्रतिगृह्णातु भगवान् देवो धूर्त इति ॥ षत् चैव हिरण्यवर्णा इतीमे दिव्यो गन्धर्व इति गन्धान् यस् ते गन्ध इति चेमाः सुमनस इति सुमनसः ॥ प्रियं धातुर् इति॥। ॥

०३.३

विश्वास-प्रस्तुतिः

वनस्पतिर् असो मेध्य इति धूपम् ॥ यक्ष्येण ते दिवा अग्निः शुक्रश् चेति दीपम् ॥ यो विश्वतः सुप्रतीक इति पर्णानि ॥

०३.४

विश्वास-प्रस्तुतिः

प्रक्षाल्य हविष्य् उपसादयेद् दध्योदनं क्षीरोदनं गुडोदनं मुद्गपयसमिश्रधान्यमोदकानि सर्वगन्धान् सर्वर्सान् उदकपूर्णं मूलपुर्णं पुष्पपूर्णं फलपूर्णं रसपूर्णं चोपकल्पयित्वा

०३.५

विश्वास-प्रस्तुतिः

इन्द्रः सीतम् इत्य् उल्लिख्य अग्ने प्रेत्य् अग्निं प्रणीय प्रज्वल्य प्राञ्चम् इध्मम् उपसमाधाय भग एतम् इध्मम् इति तिसृभिर् एतम् इध्मं सुगार्हस्पत्य इत्य् उपसमाधाय समिद्धो अग्निर् इति समिद्धम् अनुमन्त्रयते ॥

०४.१

विश्वास-प्रस्तुतिः

भद्रम् इच्छन्तो हिरण्यगर्भो ममाग्ने वर्चस् त्वया मन्यो यस् ते मन्यो यद् देवा देवहेडनम् इति षत् कामसूक्तादयो दश महीपतये स्वाहा ॥

०४.२

विश्वास-प्रस्तुतिः

धूर्ताय स्कन्दाय विशाखाय पिनाकसेनाय भ्रातृस्त्रीकामाय स्वच्छन्दाय वरघण्ताय निर्मिलाय लोहितगात्राय शलकटङ्कटाय स्वाहेति हुत्वा अग्नये प्रजापतये ये देवा दिव्य् एकादश स्थेति अनुमतये अग्नये स्विष्टकृत इति च ॥

०५.१

विश्वास-प्रस्तुतिः

शिवाग्निकृत्तिकानां तु स्तोष्यामि वरदं शुभम् । स मे स्तुतो विश्वरूपज् सर्वान् अर्थान् प्रयच्छतु ॥

०५.२

विश्वास-प्रस्तुतिः

धनधान्यकुलान् भोगान् स मे वचनवेदनम् । दासीदासं तथा स्थानं मणिरत्नं सुराञ्जनम् ॥

०५.३

विश्वास-प्रस्तुतिः

ये भक्त्या भजन्ते धूर्तं ब्रह्मण्यं च यशस्विनम् । सर्वे ते धनवन्तः स्युः प्रजावन्तो यशस्विनः ॥

०५.४

विश्वास-प्रस्तुतिः

यथेन्द्रस् तु वरान् लब्ध्वा प्रीतस् तु भगवान् पुरा । देहि मे विपुलान् भोगान् भक्तानां च विशेषत इति ॥

०५.५

विश्वास-प्रस्तुतिः

कामसूक्तेनोपहारम् उपहरेत् ॥

मूलम्

कामसूक्तेनोपहारम् उपहरेत् ॥

०५.६

विश्वास-प्रस्तुतिः

उपहारम् इमं देव मया भक्त्या निवेदितम् । प्रतिगृह्य यथान्यायम् अक्रुद्धः सुमना भव ॥

०६.१

विश्वास-प्रस्तुतिः

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवेभवे नादिभवे भजस्व मां भवोद्भवेति भवाय नमः ॥

०६.२

विश्वास-प्रस्तुतिः

देवं प्रपद्ये वरदं प्रपद्ये स्कन्दं प्रपद्ये च कुमारम् उग्रम् । षण्णां सुतं कृत्तिकानां षडास्यम् अग्नेः पुत्रं साधनं गोपथोक्तैः ॥

०६.३

विश्वास-प्रस्तुतिः

रक्तानि यस्य पुष्पाणि रक्तं यस्य विलेपनम् । कुक्कुटा यस्य रक्ताक्षाः स मे स्कन्दः प्रसीदतु ॥

०६.४

विश्वास-प्रस्तुतिः

आग्नेयं कृत्तिकापुत्रम् ऐन्द्रं के चिद् अधीयते । के चित् पाशुपतं रौद्रं यो ऽसि सो ऽसि नमो ऽस्तु त इति ॥

०६.५

विश्वास-प्रस्तुतिः

स्वामिने नमः शङ्करायाग्निपुत्राय कृत्तिकापुत्राय नमः ॥

०६.६

विश्वास-प्रस्तुतिः

भगवान् क्व चिद् अप्रतिरूपः स्वाहा भगवान् क्व चिद् अप्रतिरूपः ॥

०६.७

विश्वास-प्रस्तुतिः

मणिरत्नवरप्रतिरूपः ॥ काञ्चनरत्नवरप्रतिरूप इति ॥

०६.८

विश्वास-प्रस्तुतिः

एते [ते] देव गन्धा एतानि पुष्पाण्य् एष धूप एतां मालां त्रिः प्रदक्षिणां कृत्वा आदित्यकर्तितं सूत्रम् इति प्रतिसरम् आबध्नीयात् ॥

०७.१

विश्वास-प्रस्तुतिः

आदित्यकर्तितं सूत्रम् इन्द्रेण त्रिवृतीकृतम् । अश्विभ्यां ग्रथितो ग्रन्थिर् ब्रह्मणा प्रतिसरः कृतः ॥

०७.२

विश्वास-प्रस्तुतिः

धन्यं यशस्यम् आयुष्यम् अशुभस्य च घातनम् । बध्नामि प्रतिसरम् इमं सर्वशत्रुनिबर्हनम् ॥

०७.३

विश्वास-प्रस्तुतिः

रक्षोभ्यश् च पिशाचेभ्यो गन्धर्वेभ्यस् तथैव च । मनुष्येभ्यो भयं नास्ति यच् च स्याद् दुष्कृतं कृतम् ॥

०७.४

विश्वास-प्रस्तुतिः

स्वकृतात् परकृताच् च दुष्कृतात् प्रतिमुच्यते । सर्वस्मात् पातकान् मुक्तो भवेद् वीरस् तथैव च ॥

०७.५

विश्वास-प्रस्तुतिः

अभिचाराच् च कृत्यातः स्त्रीकृताद् अशुभं च यत् । तावत् तस्य भतं नास्ति यावत् सूत्रं स धारयेत् ॥

०७.६

विश्वास-प्रस्तुतिः

यावद् आपश् च गावश् च यावत् स्थास्यन्ति पर्वताः । तावत् तस्य भयं नास्ति यः सूत्रं धारयिष्यतीति ॥

०७.७

विश्वास-प्रस्तुतिः

अन्वायं भुक्त्वा देवं विसर्जयेत् ॥

मूलम्

अन्वायं भुक्त्वा देवं विसर्जयेत् ॥

०७.८

विश्वास-प्रस्तुतिः

प्रमोदो नाम गन्धर्वः प्रदोषो परिधावति । मुञ्च शैलमयात् पापन् मुञ्चमुञ्च प्रमुञ्च च ॥

०७.९

विश्वास-प्रस्तुतिः

[यावत्] इमा आपः पवनेन पूता हिरण्यवर्णा अनवद्यरूपाः । तावद् इमं धूर्तं प्रवाहयामि प्रवाहितो मे देहि वरान् यथोक्तान् ॥

०७.१०

विश्वास-प्रस्तुतिः

उदितेषु नक्षत्रेषु गृहान् प्रविष्टो गृहिणीं पश्येत् धनवति धनं मे देहीति ॥

०७.११

विश्वास-प्रस्तुतिः

यद् भोक्तुं कामजातं जगत्यां मनसा संहीहते तत्तद् द्विजन्मा पिनाकसेनयजमानात् कामम् उपभुक्तो भुक्त्वामृतत्वं तद्वद् एवाभ्युपैति ॥