१९ इन्द्रमहोत्सवः

०१.०१

विश्वास-प्रस्तुतिः

अथ राज्ञम् इन्द्रमहोत्सवस्य उपचारकल्पं व्याख्यास्यामः ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

प्रौष्ठपदे शुक्लपक्षे ॥

मूलम्

प्रौष्ठपदे शुक्लपक्षे ॥

०१.०३

विश्वास-प्रस्तुतिः

सम्भृतेषु सम्भारेषु ब्रह्मा राजा च उभौ स्नातौ अहतवसनौ सुरभिसुजातानुलेपनौ कर्मण्यौ व्रतवन्तौ उपवसतः

०१.०४

विश्वास-प्रस्तुतिः

[व्रतवन्तौ] श्वो भूते शम्नोदेव्याः पादैर् अर्धर्चाभ्याम् ऋचा षकृत्वोदकं परि वाचम् आचान्तो

०१.०५

विश्वास-प्रस्तुतिः

बर्हिर् उपकल्पयित्वा राजानम् अन्वालभ्य जुहुयात् ॥

०१.०६

विश्वास-प्रस्तुतिः

अर्वाञ्चम् इन्द्रं त्रातारम् इन्द्रम् इन्द्रः सुत्रामा इमम् इन्द्र वर्धय क्षत्रियं मे हन्ताय वृष इन्द्रस्य इन्द्रो जयाति इति च हुत्वा राष्ट्रसंवर्गैश् चा

०१.०७

विश्वास-प्रस्तुतिः

अथ इन्द्रम् उत्थापयन्ति आ त्वा अहार्षम् अन्तर् ध्रुवाद्यौर् विशस् त्वा सर्वा वाञ्छन्तु इति सर्वतो ऽप्रमत्ता धारयेरन्न्

०१.०८

विश्वास-प्रस्तुतिः

अद्भुतं हि सवनानयेत् समुत्थितं भवति ॥ यदि प्राच्याम् अग्निभयम् ॥ यदि दक्षिणस्यां यमभयम् ॥ यदि प्रतीच्यां वरुणभयम् ॥ यदि उदीच्यां क्षुद्भयम् ॥ यदि अन्तर्देशेभ्योभयतो विद्याद्

०१.०९

विश्वास-प्रस्तुतिः

अग्निर् मा पातु अग्निं ते वसुमन्तम् ऋच्छन्त्व् इति ॥ यथास्वलिङ्गं द्वाभ्यां-द्वाभ्यां प्रदक्षिणं प्रतिदिशम् उपस्थापयेत् ॥

०१.१०

विश्वास-प्रस्तुतिः

गृध्रश् चेद् अस्मिन् निपतति मृत्योर् भयं भवति ॥ यद् वा कृष्णशकुनिर् अन्तरिक्ष्र्ण पतति इति जपेद् यस् त्वा गृध्रः कपोत इति अन्ततो जपेत्

०१.११

विश्वास-प्रस्तुतिः

सर्वत्र अनाज्ञातेषु त्रिरात्रं घृतकम्बलम् ॥

मूलम्

सर्वत्र अनाज्ञातेषु त्रिरात्रं घृतकम्बलम् ॥

०१.१२

विश्वास-प्रस्तुतिः

शिरोभङ्गे तु राजानं मध्यभङ्गे तु मन्त्रिणम् । आदिभङ्गे जनपदं मूलभङ्गे तु नागरान् ॥

०१.१३

विश्वास-प्रस्तुतिः

इन्द्राटको यदा भिद्याद् राजकोशो विलुप्यते । रज्जुछेदे परिजाते नृपतिस् तु विनश्यति ॥

०२.०१

विश्वास-प्रस्तुतिः

सावित्र्या अभिमन्त्रितं कृत्वा प्रदक्षिणम् आवर्तयेद् राजानम् अभिभूर् यज्ञ इति एतैस् त्रिभिः सूक्तैर् अन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥

०३.०१

विश्वास-प्रस्तुतिः

अथ पशूनाम् उपाचारम् ॥

मूलम्

अथ पशूनाम् उपाचारम् ॥

०३.०२

विश्वास-प्रस्तुतिः

इन्द्रदेवताः स्युर् ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युर्

०३.०३

विश्वास-प्रस्तुतिः

इन्द्रं चोपसद्य यजेरन् ॥ त्रिरात्रं सप्तरात्रं वा

०३.०४

विश्वास-प्रस्तुतिः

त्रिर् अयनम् अह्नाम् उपतिष्ठन्ते हविसा च यजन्ते ॥

०३.०५

विश्वास-प्रस्तुतिः

आवृत इन्द्रम् अहम् इति इन्द्र क्षत्रम् इति हविषो हुत्वा

०३.०६

विश्वास-प्रस्तुतिः

ब्राह्मणान् स्वस्तिवाच्य इन्द्रम् अवभृथाय व्रजन्ति

०३.०७

विश्वास-प्रस्तुतिः

अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्य अप उपस्पृश्य अनपेक्षमाणाः प्रत्येत्य ब्राह्मणान् भक्त्या यद् ईप्सितं वरप्रदानैः परितोषयेत् ॥

०३.०८

विश्वास-प्रस्तुतिः

अथ हैषमितिकम् इति ॥

मूलम्

अथ हैषमितिकम् इति ॥

०३.०९

विश्वास-प्रस्तुतिः

श्वःश्वो ऽस्य राष्ट्रं ज्यायो भवति एको ऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश् चैवंविद्वान् इन्द्रमहेण चरति इति ब्राह्मणम् ॥