१९-२ ब्रह्मयागः

०१.०१

विश्वास-प्रस्तुतिः

ॐ भार्गवं प्रणिपत्याथ भगवाञ् शौनको ऽवदत् । ब्रह्मयागविधिं कृत्स्नं विस्तरेण वदस्व मे ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

परिपृष्टः स तेन अथ अथर्वा यजतां वरः । विधिं कृत्स्नं प्रतिष्ठाय आख्यातुम् उपचक्रमे ॥

०१.०३

विश्वास-प्रस्तुतिः

सर्वेषाम् एव यागानां परमो ऽयम् उदाहृतः । ब्रह्मयागं प्रयत्नेन शृणु एतं तद् यथाक्रमम् ॥

०१.०४

विश्वास-प्रस्तुतिः

हृद्ये मनोहरे शुभ्रे सर्वाबाधाविवर्जिते । श्लेष्मान्तकाक्षगृध्रादिपरित्यक्ते समे शुभे ॥

०१.०५

विश्वास-प्रस्तुतिः

मण्डपं कारयेत् तत्र यथोक्तविधिना गुरुः । पताकातोरणिर् युक्तं द्वारैश् च अपि पृथग्विधैः ॥

०२.०१

विश्वास-प्रस्तुतिः

अभ्युक्ष्य शान्तितोयेन पञ्चगव्येन वा सकृत् । गोमयेन प्रलिप्य आदौ पूजयेद् वर्णकिः पृथक् ॥

०२.०२

विश्वास-प्रस्तुतिः

पुष्पैश् च विविधैः शुभ्रैः फलैश् च अपि अर्चयेद् बुधः । ततो बलिं हरेद् रात्रौ चतुर्दिक्षु विधानवित् ॥

०२.०३

विश्वास-प्रस्तुतिः

प्रदीपान् घृतपूर्णांश् च प्रदद्याद् विविधान् तथा । त्ततो मण्डपमध्ये तु वर्तयेद् दिव्यमण्डलम् ॥ [चतुरश्रं चतुर्द्वारं वृत्ताकारम् अथ अपि वा] ॥

०२.०४

विश्वास-प्रस्तुतिः

सितचूर्णेन तन्मध्ये लिखेत् पद्मं सुशोभनम् । बहिश् च वर्णैः शुभ्रैर् नाना शोभां प्रकल्पयेत् ॥

०२.०५

विश्वास-प्रस्तुतिः

मध्ये पद्मं तु संस्थाप्य ब्रह्माणं परमेश्वरम् । ब्रह्मजज्ञानसूक्तेन यथोक्तम् उपकल्पयेत् ॥

०३.०१

विश्वास-प्रस्तुतिः

तथ इमा आप इत्या द्यैर् यथावद् अधिवासयेत् । रोचनाचन्दनाद्यैश् च पुष्पैर् धूपैश् च पूजयेत् ॥

०३.०२

विश्वास-प्रस्तुतिः

घृतप्रदीपमाल्यैश् च वस्त्रैर् भक्षैश् च शोभनैः । सितचन्दनकर्पूरं दद्याद् वा अपि हि गुग्गुलम् ॥

०३.०३

विश्वास-प्रस्तुतिः

प्रदक्षिणं ततः कृत्वा नमेत् सर्वाङ्गकैर् नरः । दक्षिणे पश्चिमे वा अपि भागे वेदिः प्रशस्यते ॥

०३.०४

विश्वास-प्रस्तुतिः

कृत्वाज्यभागपर्यन्तं ततः शान्त्युदकं पुनः । ब्रह्मजज्ञानसूक्तेन कुर्याच् चैवात्र पूजनम् । तथैव रौद्रमन्त्रैश् च अभिषेकाय कल्पयेत् ॥

०३.०५

विश्वास-प्रस्तुतिः

हुत्वाभ्यातानमन्त्रांश् च ततो रुद्रगणेन च । नीलरुद्रैश् चरुं विद्वान् विधिना श्रपयेद् बुधः ॥

०४.०१

विश्वास-प्रस्तुतिः

होमयेत् कुत्ससूक्तेन उच्छुष्मैश् च यथाविधि । जपेन् मन्त्रान् तथायुष्यान् मङ्गल्यांश् चापि यत्नतः ॥

०४.०२

विश्वास-प्रस्तुतिः

हुत्वा च चातनं तत्र मातृनामगणेन च । स्नापयेत् पञ्चगव्येन तथा शान्त्युदकेन च ॥

०४.०३

विश्वास-प्रस्तुतिः

फलस्नानं च कुर्वीत युक्तो मङ्गलवादिभिः । बन्दिभिर् वेदविद्भिश् च स्त्रीसण्गीतैर् मनोरमैः ॥

०४.०४

विश्वास-प्रस्तुतिः

चारुचामरहस्ताभिश् चित्रदण्डैः सदर्पणैः । स्नापयेद् ब्रह्मसूक्तेन रौद्रेणापि तथार्चयेत् ॥

०४.०५

विश्वास-प्रस्तुतिः

ततः प्रदक्षिणं कृत्वा जानुभ्यां धरणीं गतः । आशास्येष्टफलं तत्र युक्तो मङ्गलपाठकैः ॥

०५.०१

विश्वास-प्रस्तुतिः

तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा । कुर्याद् दुन्दुभिनादं तु शङ्खभेरिप्रपूरितम् ॥

०५.०२

विश्वास-प्रस्तुतिः

कुर्याद् उत्तरतन्त्रं च सदस्यान् वाचयेत् ततः । भोजयेच् छक्तितस् तत्र ब्राह्मणान् वेदपारगान् ॥

०५.०३

विश्वास-प्रस्तुतिः

दीनानाथान्धकृपणान् भक्षभोज्यैर् अनेकधा । अन्नपानविहीनांश् च विशेषेण प्रपूजयेत् ॥

०५.०४

विश्वास-प्रस्तुतिः

दत्त्वा च दक्षिणां शक्त्या दद्याद् गणबलिं निशि । गृहदेवास् तु सम्पूज्याः कार्यश् चाप्य् उत्सवो गृहे ॥

०५.०५

विश्वास-प्रस्तुतिः

योगिनो भोजयेत् पश्चाद् गृहेसु गृहमेधिनः । अछेद्यास् तरवः कार्याः प्राणिहिंसां च वर्जयेत् ॥

०५.०६

विश्वास-प्रस्तुतिः

बन्धनस्थाश् च मोक्तव्या बद्धाः क्रोधाच् च शत्रवः । अभयं घोषयेद् देशे गुरुं च परिपूजयेत् ॥

०५.०७

विश्वास-प्रस्तुतिः

अभयं सर्वतो दत्त्वा इष्टे च परमेश्वरे । दीर्घम् आयुर् अवाप्नोति कृत्स्नां भुङ्क्ते वसुन्धराम् ॥

०५.०८

विश्वास-प्रस्तुतिः

ब्रह्मयागविधिः कृत्स्नो भक्तानां तु मयोदितः । अथर्वणा सुरेन्द्राय प्रणताय शुभेच्छया ॥

०५.०९

विश्वास-प्रस्तुतिः

कृताभिषेकः कृतयाग एष कृताह्ह्निकः कृतरक्षः सुरेशः । अथर्वणो ऽनुग्रहम् आशु लब्ध्वा त्रिविष्टपं विरराजासपत्नम् ॥ इति ॥