०१.०१
विश्वास-प्रस्तुतिः
अथाश्वयुजे मासे पौर्णमास्याम् अपराह्णे हस्तिनीराजनं कुर्यात् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
प्रागुदक्प्रवणे देशे यत्र वा मनो रमते ॥
मूलम्
प्रागुदक्प्रवणे देशे यत्र वा मनो रमते ॥
०१.०३
विश्वास-प्रस्तुतिः
गिरयस् ते पर्वता इत्य् एतया हस्तशतम् अर्धं वा मण्डलं परिगृह्य याभिर् यज्ञम् इति सम्प्रोक्षेत् ॥

०१.०४
विश्वास-प्रस्तुतिः
तत्र श्लोकाः ॥
मूलम्
तत्र श्लोकाः ॥
०१.०५
विश्वास-प्रस्तुतिः
दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् । शान्तव्र्क्षमयं कुर्यात् तोरणं पुष्टिवर्धनम ॥

०१.०६
विश्वास-प्रस्तुतिः
शुक्लैः शुक्लाम्बरध्वजैर् माल्यैश् च परिभूषितम् । कारयेत बिले शुभ्रे रसैश् च परिपूरिते ॥

०१.०७
विश्वास-प्रस्तुतिः
रसैस् त्वाम् अभिषिञ्चामि भूमे मह्यं शिवा भव । असपत्ना सपत्नघ्नी मम यज्ञविवर्धनी ॥

०१.०८
विश्वास-प्रस्तुतिः
इमौ स्तम्भौ घृतान्वक्ताव् उभौ मा यशसावतात् । यो मा कश् चभिदासति तम् इमौ स्तम्भौ निर्दहताम् इति ॥

०१.०९
विश्वास-प्रस्तुतिः
उच् छ्रयस्व इमा या ब्रह्मणस्पत इत्य् एताभ्यां सुवर्णमाला पताकैः स्तम्भौ संयोज्य ॥

०१.१०
विश्वास-प्रस्तुतिः
तस्याधस्ताच् चतुर्हस्तां वेदिं कृत्वा दर्भपवित्रपाणिर् बलिं पुष्पाणि च दत्त्वा ॥

०१.११
विश्वास-प्रस्तुतिः
मधुलाजामश्रैः स्वस्तिकसंयावकदधिकृसरापूपकापायसघृतविविधपानभक्षफलैर् अग्निं परिस्तीर्य ॥

०१.१२
विश्वास-प्रस्तुतिः
आपो अस्मान् मातरः सूदयन्त्व् इति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा ॥

०१.१३
विश्वास-प्रस्तुतिः
प्रतिदिशम् अवस्थाप्य दध्याद् रौद्राग्नेयं वायव्यं वारुणा मन्त्राः ॥

०१.१४
विश्वास-प्रस्तुतिः
रक्षोघ्नं क्र्त्यादूशणं यशस्यवर्चस्यानि च हुत्वौषधीः समादाय द्विहस्तं मण्डलम् इत्य् उक्तम् ॥

०१.१५
विश्वास-प्रस्तुतिः
तत्र श्लोकाः ॥
मूलम्
तत्र श्लोकाः ॥
०१.१६
विश्वास-प्रस्तुतिः
बृहत्कण्टारीकण्टका लाघुकण्टारिका स्मृताः । सुवर्णपुष्पी श्वेतगिरि कर्णिका ह्य् उदिसत्रा ॥

०१.१७
विश्वास-प्रस्तुतिः
सिंही व्याघ्री च हरिणी ह्य् अमृता चापराजिता । पृश्निपर्णी च दूर्वा च पद्मम् उत्पलमालिनी ॥

०२.०१
विश्वास-प्रस्तुतिः
ताम् अनुमन्त्रयते ॥
मूलम्
ताम् अनुमन्त्रयते ॥
०२.०२
विश्वास-प्रस्तुतिः
वैणवं कटकम् अवस्थाप्यादध्यात् ॥
मूलम्
वैणवं कटकम् अवस्थाप्यादध्यात् ॥
०२.०३
विश्वास-प्रस्तुतिः
द्वैपवैयाघ्रानडुच्चर्म परिस्तीर्य ॥
मूलम्
द्वैपवैयाघ्रानडुच्चर्म परिस्तीर्य ॥
०२.०४
विश्वास-प्रस्तुतिः
ततो या स्याद् अधिदेवता तस्यै बलिं दत्त्वा पिण्डानि च दद्यात् ॥

०२.०५
विश्वास-प्रस्तुतिः
हस्तिनम् आचामयेत् ॥
मूलम्
हस्तिनम् आचामयेत् ॥
०३.०१
विश्वास-प्रस्तुतिः
यस्यां दिशि स रिपुर् भवति तां दिशं गत्वा हस्तिनम् आनयेद् धिरण्येन रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणया कुष्ठेन नलदेन रोचनेनाञ्जनेन मनह्शिलया पद्मकुमुदोत्पलैर् ॥

०३.०२
विश्वास-प्रस्तुतिः
ममाग्ने वर्च इति सूक्तं दक्षिणोत्तरमखं प्रतिजपेत् ॥

०३.०३
विश्वास-प्रस्तुतिः
शेषेण गात्राण्य् अभ्यञ्जयेत् ॥
मूलम्
शेषेण गात्राण्य् अभ्यञ्जयेत् ॥
०३.०४
विश्वास-प्रस्तुतिः
तत्र स्लोकाः ॥
मूलम्
तत्र स्लोकाः ॥
०३.०५
विश्वास-प्रस्तुतिः
हस्तिनां रक्षणे दण्डः कर्तव्यो वैणवो नवः । षोडशारत्निमात्रस् तु चारुपर्वमनओरमः ॥

०३.०६
विश्वास-प्रस्तुतिः
तेन वारणान् वारयेत् ॥
मूलम्
तेन वारणान् वारयेत् ॥
०३.०७
विश्वास-प्रस्तुतिः
दन्ताग्रेषु तृणानि कृत्वा यथा हव्यं वहसि ग्रसति ॥

०३.०८
विश्वास-प्रस्तुतिः
सुजातं जातवेदसम् इत्य् अग्निं प्रज्वालयेत् ॥
मूलम्
सुजातं जातवेदसम् इत्य् अग्निं प्रज्वालयेत् ॥
०३.०९
विश्वास-प्रस्तुतिः
सुजातं जातवेदसम् इति वाचयेद् यथा हव्यम् इति नीराजयित्वा ॥

०३.१०
विश्वास-प्रस्तुतिः
निधिं बिभ्रतीति शालां प्रवेशयेद् ॥
मूलम्
निधिं बिभ्रतीति शालां प्रवेशयेद् ॥
०३.११
विश्वास-प्रस्तुतिः
अनपेक्षमानाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश् च भवन्ति ॥

०३.१२
विश्वास-प्रस्तुतिः
गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च ॥
मूलम्
गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च ॥