०१.०१
विश्वास-प्रस्तुतिः
अथ वृषोत्सर्गः ॥
मूलम्
अथ वृषोत्सर्गः ॥
०१.०२
विश्वास-प्रस्तुतिः
कार्त्तिकेयां पौर्णमास्यां रैवत्याम् आश्वयुज्यां वा गवां गोष्ठे पौर्णमासतन्त्रम् आज्यभागान्तं कृत्वा रुद्ररौद्राभ्याम् आज्यं जुहुयात् ॥

०१.०३
विश्वास-प्रस्तुतिः
पूषा गा अनु एतु न इति चतसृभिः पौष्णस्य जुहुयात् ॥

०१.०४
विश्वास-प्रस्तुतिः
पूषा गा अनु एतु नः पूषा रक्षातु सर्वतः । पूषा वाजं सनोतु नः ॥

०१.०५
विश्वास-प्रस्तुतिः
पूषन्न् अनु प्र गा इहि(इति) यजमानस्य सुन्वतः । अस्माकं स्तुवताम् उत ॥

०१.०६
विश्वास-प्रस्तुतिः
पूषन् तव व्रते वयं परि पूषा पुरस्ताद् इति ॥
मूलम्
पूषन् तव व्रते वयं परि पूषा पुरस्ताद् इति ॥
०१.०७
विश्वास-प्रस्तुतिः
इन्द्रस्य कुक्षिः साहस्रस् त्वेष इति ऋषभं सम्पातवन्तं कृत्वा य इन्द्र इव देवेषु इति ऋषभस्य दक्षिणे कर्णे जपेत् ॥

०१.०८
विश्वास-प्रस्तुतिः
लोहितेन स्वधितिन इति वत्सतरीम् अनुमन्त्रयते ॥

०१.०९
विश्वास-प्रस्तुतिः
अयं प्रजानां जनिता प्रजापतिर् गवां गोष्ठ इह मध्यतो वसः । वत्सतरीषु अपसदने गवाम् अधि तिष्ठ पशून् भवनस्य गोपाः ॥

०१.१०
विश्वास-प्रस्तुतिः
इति मण्डलानि भ्रामयति
मूलम्
इति मण्डलानि भ्रामयति
०१.११
विश्वास-प्रस्तुतिः
रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्व७अतिसृजामि अपरिमितपोषायै त्वातिसृजामीति पर्युक्ष्यैकरूपं द्विरूपं बहुरूपं वा यो वा यूथं छादयति यूथेन तेजस्विनालङ्कृतेनालङ्कृतम् अपराजितां दिशं निष्क्रामयेयुः सह वत्सतरीभिस् तन्त्रं संस्थापयेयुर्

०१.१२
विश्वास-प्रस्तुतिः
अथ ब्रह्मणे गां पयस्विनीं दद्यात् पायसेन ब्राह्मणान् भोजयित्वोत्सृज्य सर्वान् कामान् आप्नोति अक्षयाण् च लोकान् आप्नोतीति