१८-२ राजकर्मसांवत्सरीयम्

०१.०१

विश्वास-प्रस्तुतिः

अथ वर्षशतं प्रवर्धमानो राजानम् अभिवर्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् ॥ तन्त्रम् इत्य् उक्तम् ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

पुनन्तु मा वायोः पूतो वैश्वानरो रश्मिभिर् इति पवित्रैः पुण्याहादीनि च मङ्गलैर् यजमानं च सम्प्रोक्ष्य यद् आबध्नन्न् इति पुष्पाद्यलङ्कारं वर्जयित्वा माहेन्द्रं चरुं श्रपयेत् ॥

०१.०३

विश्वास-प्रस्तुतिः

लोकपालेभ्यश् च द्वितीयं चरुं श्रपयेत् ॥

मूलम्

लोकपालेभ्यश् च द्वितीयं चरुं श्रपयेत् ॥

०१.०४

विश्वास-प्रस्तुतिः

महाम् इन्द्रो य ओजसेति सूक्तेन तृतीयायां ह्य् अग्नौ हुत्वा इन्द्राय स्वाहेत्यादि लोकपालांश् चेष्ट्वा राजानम् अन्वालभ्य आदिवज् जुहुयाद् अर्वाञ्चम् इन्द्रम् इन्द्रः सुत्रामा इमम् इन्द्र वर्धय क्षत्रियं मे शतं जीवतः सरद इति ॥

०१.०५

विश्वास-प्रस्तुतिः

रक्षन्तु त्वाग्नय इति चतसृभी रक्षां कृत्वा रोचनयालङ्कुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा ॥

०१.०६

विश्वास-प्रस्तुतिः

मनायै तन्तुम् इति सूक्तेन रक्षासूत्रे सम्पातं च कृत्वा ॥

०१.०७

विश्वास-प्रस्तुतिः

धाता ते ग्रन्थिम् इति बध्नाति ॥

मूलम्

धाता ते ग्रन्थिम् इति बध्नाति ॥

०१.०८

विश्वास-प्रस्तुतिः

उत्तरतन्त्रं हिरण्यं दक्षिणा ॥

मूलम्

उत्तरतन्त्रं हिरण्यं दक्षिणा ॥

०२.०१

विश्वास-प्रस्तुतिः

महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रम् ॥

०२.०२

विश्वास-प्रस्तुतिः

शस्त्रसस्वसम्पातः ॥

मूलम्

शस्त्रसस्वसम्पातः ॥

०२.०३

विश्वास-प्रस्तुतिः

त्र्तीयायां हस्त्यश्ववाहग्राम्याश्वानां कर्म सप्तम्यां हस्त्यश्वानां दर्शनम् ॥

०२.०४

विश्वास-प्रस्तुतिः

अष्टम्याम् अथ पिष्टमयीम् इत्यादि नवम्यां दुर्गापूजनम् ॥

०२.०५

विश्वास-प्रस्तुतिः

अथ वा वनम्याम् इत्यादि नवम्याम् ॥

मूलम्

अथ वा वनम्याम् इत्यादि नवम्याम् ॥

०२.०६

विश्वास-प्रस्तुतिः

अथापराजितदशम्याम् ॥

मूलम्

अथापराजितदशम्याम् ॥

०२.०७

विश्वास-प्रस्तुतिः

पूर्वाह्णे विजयमहूर्ते उक्तं प्रास्थानिकम् ॥

मूलम्

पूर्वाह्णे विजयमहूर्ते उक्तं प्रास्थानिकम् ॥

०२.०८

विश्वास-प्रस्तुतिः

एतानि खलु प्राग्द्वाराणीत्यादि ॥

मूलम्

एतानि खलु प्राग्द्वाराणीत्यादि ॥

०३.०१

विश्वास-प्रस्तुतिः

अथ श्रवणे नक्षत्रे राज्ञाम् इन्द्रमहस्येति व्याख्यातः ॥

०४.०१

विश्वास-प्रस्तुतिः

अथ पौर्णमास्याम् अपराह्णे पौर्णमासिकं कर्म ॥

मूलम्

अथ पौर्णमास्याम् अपराह्णे पौर्णमासिकं कर्म ॥

०५.०१

विश्वास-प्रस्तुतिः

अथापामार्गत्रयोदश्यां श्वेते मुहूर्ते स्नानं कृत्वापामार्गं त्रिः परिभ्रामयेद् राज्ञ उपरि मन्त्रेण ॥

०५.०२

विश्वास-प्रस्तुतिः

इशानां त्वा भेषजानाम् इति त्रिभिः सूक्तैः प्रतीचीनफल इति सूक्तेन वा पुनः स्नानम् ॥

०५.०३

विश्वास-प्रस्तुतिः

तत आरात्रिकं परिधत्तेति द्वाभ्याम् इति समानम् ॥

०६.०१

विश्वास-प्रस्तुतिः

अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिक्दीक्षासमानम् ॥

०६.०२

विश्वास-प्रस्तुतिः

अभ्यातानान्तं कृत्वा ये ऽस्यां प्राची दिग् इति ॥

०६.०३

विश्वास-प्रस्तुतिः

मा नो देवा यस् ते सर्प इत्य् एतैः सूक्तैस् तृणानि युगतर्द्मना सम्पातवन्ति गणं च प्रातितमितधानाशने हस्त्यश्वादियुगपत् तन्त्रं समानम् ॥ धेनुर् दक्षिणा ॥

०७.०१

विश्वास-प्रस्तुतिः

अथाक्षय्यनवम्यां रात्रौ हस्त्यश्वादीनाम् अनीकानां रथस्य परहोमश् च ॥

०८.०१

विश्वास-प्रस्तुतिः

अथ विष्णुद्वादश्यां पुरोहितः पश्चिमां सन्ध्याम् उपास्य गृहीतदर्भो यत्र राजानम् अभिगम्य पौष्टिकहोमश् च रात्रौ नीराजनं कृत्वा हस्त्यश्वेभ्यश् च ॥

०९.०१

विश्वास-प्रस्तुतिः

अथ कार्त्तिक्यां पौर्णमास्यां रैवत्याम् अश्वयुज्यां वृषोत्सर्गः ॥

१०.०१

विश्वास-प्रस्तुतिः

अथाग्रयणीपौर्णमास्यां तन्त्रं कृत्वापाद् अग्रेति द्वाभ्यां रसं सम्पात्याभिमन्त्र्य राजानं प्राशयेत् ॥ धेनुर् दक्षिणा ॥

११.०१

विश्वास-प्रस्तुतिः

अथ पौष्यां पौर्णमास्याम् उक्तः पुष्याभिषेकः ॥

१२.०१

विश्वास-प्रस्तुतिः

अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलाका ॥

मूलम्

अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलाका ॥

१२.२

विश्वास-प्रस्तुतिः

महानवम्याम् उक्तप्रज्वलनं नीराजं वा ॥

मूलम्

महानवम्याम् उक्तप्रज्वलनं नीराजं वा ॥

१३.१

विश्वास-प्रस्तुतिः

अथ ग्रीष्मप्रतिपद्य् आयुष्यम् इति स्नानं कृत्वापां सूक्तैर् आप्लुत्य प्रक्षिणम् आव्र्त्याप उपस्पृश्येत्य् उक्तम् ॥

१४.१

विश्वास-प्रस्तुतिः

अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रम् अश्नातीत्य् उक्तम् ॥

१५.१

विश्वास-प्रस्तुतिः

अथ मदनत्रयोदश्यां वैशाख्यां पौर्णमास्यां च मध्याह्ने गर्ते वा वाप्यां पुष्करिण्यां घते वा सर्वगन्धान् प्रक्षिप्य प्राक्तन्त्रम् अभ्यातानान्तं कृत्वा सिंहे व्याघ्रे यशो हविः प्रातर् अग्निं गिराव् अरगराटेषु दिवस् पृथिव्या इत्य् एतैः सूक्तैर् उदकं सम्पात्याभिमन्त्र्य राजानं स्नापयेत् ॥ प्रविश्य सम्प्रोक्ष्येति च तन्त्रं संस्थापयेत् ॥ धेनुर् दक्षिणा ॥

१६.१

विश्वास-प्रस्तुतिः

अथ श्रावण्यां पौर्णमास्यां विजये मुहूर्ते रक्षन्तु त्वाग्नय इति चतसृभी रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोपनिष्क्रम्येति पैठीनसिः ॥

१७.१

विश्वास-प्रस्तुतिः

अथादित्यदिन आदित्यमण्डलको व्याख्यातः ॥

मूलम्

अथादित्यदिन आदित्यमण्डलको व्याख्यातः ॥

१८.१

विश्वास-प्रस्तुतिः

अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः ॥

१९.१

विश्वास-प्रस्तुतिः

अथ राजकर्माणि प्रतिनक्षत्रं कर्तव्यानीत्य् आयुधानि खड्गप्रभृतीनि बिभृयाद् इति कृत्तिकारोहिण्यादीनि व्याख्यातानि ॥

१९.२

विश्वास-प्रस्तुतिः

इन्द्रोत्सव इन्द्रमहोत्सवो व्याख्यातः ॥

मूलम्

इन्द्रोत्सव इन्द्रमहोत्सवो व्याख्यातः ॥

१९.३

विश्वास-प्रस्तुतिः

प्रतिदिनं ग्रहयागः ॥ प्रतिदिनं नक्षत्रयागः ॥ प्रतिदिनं दशगणी महाशान्तिः ॥

१९.४

विश्वास-प्रस्तुतिः

प्रतिस्थानं कृत्तिकारोहिणीव्याख्याता नक्षत्रस्नानानि नक्षत्रक्षिणाश् च ॥

२०.१

विश्वास-प्रस्तुतिः

राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा समाप्ता ॥