१७ राजकर्मसांवत्सरीयम्

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ प्रतिसंवत्सरं राजकर्माणि क्रमेण वक्ष्यामः ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

अथाश्वयुजे मासे शुक्लपक्षस्य तृतीये ऽहनि ॥

मूलम्

अथाश्वयुजे मासे शुक्लपक्षस्य तृतीये ऽहनि ॥

०१.०३

विश्वास-प्रस्तुतिः

हरिद्रायवानाम् ॥

मूलम्

हरिद्रायवानाम् ॥

०१.०४

विश्वास-प्रस्तुतिः

रक्षन्तु त्वाग्नय इति चतसृभी रक्षाम् अश्वानां बद्ध्वा हस्त्यश्वानां नीराजनं कुर्यात् ॥

०१.०५

विश्वास-प्रस्तुतिः

अश्वो ऽसि क्षिप्रजन्मासि ॥॥प्रदद्यात् स विशुद्धात्मा सप्तद्वीपां वसुन्धराम् ॥

०१.०६

विश्वास-प्रस्तुतिः

हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये नक्षत्रे शुचौ देशे ॥ तन्त्रम् इत्य् उक्तम् ॥

०१.०७

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधायान्वारभाथजुहुयात् ॥

मूलम्

प्राञ्चम् इध्मम् उपसमाधायान्वारभाथजुहुयात् ॥

०१.०८

विश्वास-प्रस्तुतिः

सवित्रे स्वाहा ॥ पतङ्गाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहेति हुत्वा कनकानां बद्ध्वा हस्त्यश्वानां पूर्ववन् नीराजनं कुर्यात् ॥

०२.०१

विश्वास-प्रस्तुतिः

अथ नवम्याम् अपराह्णे वाहनानि स्नापयित्वा अहतवासा ब्रह्मा द्वादशमितां वेदिं कृत्वा ॥ तन्त्रम् इत्य् उक्तम् ॥

०२.०२

विश्वास-प्रस्तुतिः

शान्तिकृत्यादूषणेन वाहनं त्रिः प्रोक्ष्य परीयान् ॥

०२.०३

विश्वास-प्रस्तुतिः

निःसालाम् इति सूक्तं जपन् प्रत्येत्याभिषिञ्चयेद् एनम् ॥

०२.०४

विश्वास-प्रस्तुतिः

अश्वम् अलङ्कृतं शबलकण्ठं कृत्वोपस्थाप्य दध्याद् ॥

०२.०५

विश्वास-प्रस्तुतिः

एवम् एव मैश्रधान्यान्य् उदपात्राण्य् अन्तरासु दिक्षु ॥

०२.०६

विश्वास-प्रस्तुतिः

तत्रैव देवता यजेत् ॥ अग्निं वायुं वरुणम् अश्विनाव् इति ॥

०२.०७

विश्वास-प्रस्तुतिः

पयसि स्थालीपाकं श्रपयित्वा ॥

मूलम्

पयसि स्थालीपाकं श्रपयित्वा ॥

०२.०८

विश्वास-प्रस्तुतिः

समास् त्वाग्ने त्वं नो अग्ने मा नो विदन्न् अभयैर् अपराजितैर् आयुष्यैः स्वस्त्ययनैर् अप्रतिरथेनेति च हुत्वा संस्थाप्य ॥

०२.०९

विश्वास-प्रस्तुतिः

अग्नेर् अदो ऽसीत्य् अहतवासोभिः प्रछाद्य रसैः कुम्भान् औदुम्बरान् पूरयित्वा प्रतिदिशम् अवस्थाप्य ममाग्ने वर्चो अभयं द्यावापृथिवी उद् उत्तमं वरुणाश्विना ब्रह्मणा यातम् इति जुहुयात् ॥

०२.१०

विश्वास-प्रस्तुतिः

पौर्णमासी प्रथमेति च जुहुयाद् दुन्दुभिम् आहन्याद् इत्य् उक्तम् ॥

०२.११

विश्वास-प्रस्तुतिः

उप श्वासय पृथिवीम् इति तत्रैवानुमन्त्रणं च ॥

मूलम्

उप श्वासय पृथिवीम् इति तत्रैवानुमन्त्रणं च ॥

०२.१२

विश्वास-प्रस्तुतिः

सर्वाणि च वादित्राणि वाहनानि च ॥

मूलम्

सर्वाणि च वादित्राणि वाहनानि च ॥

०२.१३

विश्वास-प्रस्तुतिः

जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥

मूलम्

जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥

०२.१४

विश्वास-प्रस्तुतिः

न तं यक्ष्मा ऐतु देव इति गुग्गुलक्ष्ठदूपं दद्यात् ॥

०२.१५

विश्वास-प्रस्तुतिः

यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥

०२.१६

विश्वास-प्रस्तुतिः

दूष्या दूषिर् असीति प्रतिसरम् आबध्य ये पुरस्ताद् इति प्रतिदिशं क्षिपेत् ॥

०२.१७

विश्वास-प्रस्तुतिः

बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्याद् वाहनानाम् अभयं कर्म ॥