०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातो गोसहस्रविधिः ॥
मूलम्
ओम् अथातो गोसहस्रविधिः ॥
०१.०२
विश्वास-प्रस्तुतिः
गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चम् इध्मम् उपसमाधायान्वालभ्याथ जुहुयात् ॥

०१.०३
विश्वास-प्रस्तुतिः
आ गाव इति सूक्तेनाज्यं जुहुयात् ॥
मूलम्
आ गाव इति सूक्तेनाज्यं जुहुयात् ॥
०१.०४
विश्वास-प्रस्तुतिः
महाव्रीहीणाम् ऐन्द्रं चरुं सौम्यं च सहस्रतम्याः पयसि श्रपयित्वा गाव एव सुरभव इत्य् एतेन जुहुयात् ॥

०१.०५
विश्वास-प्रस्तुतिः
पञ्चानां नदीनां तीर्थोदकम् ॥
मूलम्
पञ्चानां नदीनां तीर्थोदकम् ॥
०१.०६
विश्वास-प्रस्तुतिः
पश्चाद् अग्नेस् तीर्थोदकेन पूर्णं कलशम् अवस्थाप्य हिरण्यवर्णा इत्य् अभिमन्त्र्य सं वो गोष्ठेनेति दश गाः स्नापयेत् ॥

०१.०७
विश्वास-प्रस्तुतिः
त्वरमाननयाः समभ्युक्ष्य सहस्रतम्याः सानोदनेकेमम् इन्द्र वर्धय क्षत्रियं म इति राजानम् अभिषिच्य ॥

०१.०८
विश्वास-प्रस्तुतिः
इमा आप इति षड्भिर् योथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कृत्वा ॥

०१.०९
विश्वास-प्रस्तुतिः
सहस्रतमीं प्रथमाम् अलङ्कृत्य ॥
मूलम्
सहस्रतमीं प्रथमाम् अलङ्कृत्य ॥
०१.१०
विश्वास-प्रस्तुतिः
आ गावो माम् उपतिष्ठन्ताम् इत्य् उपतिष्ठेत् ॥
मूलम्
आ गावो माम् उपतिष्ठन्ताम् इत्य् उपतिष्ठेत् ॥
०१.११
विश्वास-प्रस्तुतिः
प्रजावतीः सूयवसाद् इति च सर्वाः पाययेत् ॥
मूलम्
प्रजावतीः सूयवसाद् इति च सर्वाः पाययेत् ॥
०१.१२
विश्वास-प्रस्तुतिः
प्रियम् अशनं दत्त्वाद्धि तृणम् अघ्न्य इति सहस्रतमीम् आलभ्य जपेत् ॥

०१.१३
विश्वास-प्रस्तुतिः
मया गावो गोपतिना सचध्वम् इति मन्त्रानेत्नार्घं दत्त्वा ॥

०१.१४
विश्वास-प्रस्तुतिः
सहस्रतम्याः पुछम् औपसङ्गृह्य भूमिष् ट्वा प्रतिगृह्णात्व् इति जपन् ॥

०१.१५
विश्वास-प्रस्तुतिः
सहस्रतम्याः पृष्ठतो व्रजन् ॥
मूलम्
सहस्रतम्याः पृष्ठतो व्रजन् ॥
०१.१६
विश्वास-प्रस्तुतिः
सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्तिवाच्य ब्राह्मणेभ्यो निवेद्य दश गा दक्षिणां कर्त्रे दद्यात् सहस्रतमीं वस्त्रयुग्मम् अच ॥

०१.१७
विश्वास-प्रस्तुतिः
तद् अपि श्लोकाः ॥
मूलम्
तद् अपि श्लोकाः ॥
०२.०१
विश्वास-प्रस्तुतिः
सप्ताजन्मानुगं पापं पुरुषैः सप्तभिः क्र्तम् । तत्क्षणाद् विधिनानेन नाशयेद् गोप्रदो नरः ॥

०२.०२
विश्वास-प्रस्तुतिः
सर्वेषाम् एव दानानां फलं यत् परिकीर्तितम् । तद् अवाप्नोति विरेभ्यो गोसहस्रप्रदो नरः ॥

०२.०३
विश्वास-प्रस्तुतिः
अश्वमेधं वृषोत्सर्गं गोसहस्रं च यः सुतः । दद्यान् मदीय इत्य् आहुः पितरस् तर्पयन्ति हि ॥

०२.०४
विश्वास-प्रस्तुतिः
तस्माद् अनेन विधिना गोसहस्रं ददेन् नरः । सर्वपापविशुद्धात्मा याति तत् परमं पदम् इति ॥