१५ अश्वरथदानविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथाश्वरथदानविधिः।

मूलम्

ओम् अथाश्वरथदानविधिः।

०१.०२

विश्वास-प्रस्तुतिः

गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चम् इध्मम् उपसमाधायान्वारभ्याथ जुहुयात् ॥

०१.०३

विश्वास-प्रस्तुतिः

वतरंहा भव वाजिन् युज्यमान इत्य् एतेनाश्वेषु सम्पातान् आनीयाश्रान्तस्य त्वेति समानम्

०१.०४

विश्वास-प्रस्तुतिः

त्वम् इन्द्रस् त्वं महेन्द्र इति सवित्रे अर्घं दत्त्वा

०१.०५

विश्वास-प्रस्तुतिः

पुनन्तु मेत्य् आत्मानम् आलभ्य जपेद्

मूलम्

पुनन्तु मेत्य् आत्मानम् आलभ्य जपेद्

०१.०६

विश्वास-प्रस्तुतिः

रक्षन्तु त्वाग्नय इति यजमानम् अभिमन्त्र्य समृद्धिहोमान्ते

०१.०७

विश्वास-प्रस्तुतिः

वरां धेनुं कर्त्रे दद्याद् अश्वरथं ग्रामवरं चेति

०१.०८

विश्वास-प्रस्तुतिः

य एवं विधिना दद्याद् विदुषे अश्वरथं सुधीः । ज्यैष्ठ्यं श्रैष्ठ्यं च साम्राज्यं प्रजानाम् इह गच्छति ॥

०१.०९

विश्वास-प्रस्तुतिः

सप्तानां लोकानाम् अन्ते ज्योतिर्लोकम् अनामयम् । गत्वा स परमानन्दं भुङ्क्ते यावद् विभावसुः ॥