१४ हस्तिरथदानविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ हस्तिरथदानानाम् अनुक्रमं वक्ष्ये

मूलम्

ओम् अथ हस्तिरथदानानाम् अनुक्रमं वक्ष्ये

०१.०२

विश्वास-प्रस्तुतिः

जातरूपमयं क्र्त्वा एकचक्रं सुशोभनम् । हस्तिभिः सप्तभिर् युक्तम् अर्चयित्वा यथाविधि ॥

०१.०३

विश्वास-प्रस्तुतिः

अथ वा चतुर्भिर् युक्तं हैमं राजतम् एव वा । अस्पृष्टं दारुजं वापि सर्वसम्भारपूरितम् ॥

०१.०४

विश्वास-प्रस्तुतिः

हस्तियुग्मेन संयुक्तं सौरभेययुतेन वा । भुङ्क्ते सप्तैव जन्मानि सप्तद्वीपां वसुन्धराम् ॥

०१.०५

विश्वास-प्रस्तुतिः

हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये वा ऋक्षे शुचिः शुचौ देशे तन्त्रम् इत्य् उक्तम् ॥

०१.०६

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधायान्वारभ्याथ जुहुयात् ॥

०१.०७

विश्वास-प्रस्तुतिः

सवित्रे स्वाहा ॥ पतङ्गाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहा इति हुत्वा।

०१.०८

विश्वास-प्रस्तुतिः

कनकाश् च तिला गावो दासी गृहमहीरथाः । कन्या हस्ती च विद्या च महादानि वै दश ॥

०१.०९

विश्वास-प्रस्तुतिः

तस्मात् सर्वेषु दानेषु अनुक्तविधिकेषु च । अग्निं ब्रूम इति सूक्तम् आज्यतन्त्रेण होमयेत् ॥

०१.१०

विश्वास-प्रस्तुतिः

अश्वदाता व्रजेत् स्वर्गम् अश्वारूढश् च मानवः । पूज्यते देवगन्धर्वैर् अप्सरोकिन्नरैस् तथा ॥

०१.११

विश्वास-प्रस्तुतिः

हस्तिवर्चसं प्रथताम् इति कलशे सम्पातान् आनीय युगं योक्त्रं रथम् इति सर्वं सम्प्रोक्ष्य ॥

०१.१२

विश्वास-प्रस्तुतिः

अश्रान्तस्य त्वा मनसा युनज्मीति योजयेत् ॥

मूलम्

अश्रान्तस्य त्वा मनसा युनज्मीति योजयेत् ॥

०१.१३

विश्वास-प्रस्तुतिः

अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलम् उद्वहो भवो उदुह्य प्रति धावतात् ॥

०१.१४

विश्वास-प्रस्तुतिः

युक्तायार्थं दद्यात् ॥

मूलम्

युक्तायार्थं दद्यात् ॥

०१.१५

विश्वास-प्रस्तुतिः

श्यावैर् युक्तः शितिपद्भिर् हिरण्ययो यस्य रथः पथिभिर् वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग् घिरण्यपाणिः सविता नो ऽभिरक्षतु ॥

०१.१६

विश्वास-प्रस्तुतिः

बृहद्धस्तिरथं युक्तं हस्तेन तु ददन् नरः । सवितुः स्थानम् आप्नोति दिव्यां कामजवां सभाम् ॥