१३ हिरण्यगर्भविधिः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथ हिरण्यगर्भविधिम् अनुक्रमिष्यामः सर्वपापापनोदनम्

मूलम्

ओम् अथ हिरण्यगर्भविधिम् अनुक्रमिष्यामः सर्वपापापनोदनम्

०१.०२

विश्वास-प्रस्तुतिः

उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा

मूलम्

उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा

०१.०३

विश्वास-प्रस्तुतिः

ऋत्विग्यजमानौ क्ल्प्तकेशश्मश्रुरोमनखौ स्याताम्

मूलम्

ऋत्विग्यजमानौ क्ल्प्तकेशश्मश्रुरोमनखौ स्याताम्

०१.०४

विश्वास-प्रस्तुतिः

अथ ऋत्विक् प्रग् अस्तङ्गमनाद् अश्वत्थाद् अरणी आधायाग्ने जायस्वेति द्वाभ्यां मथ्यमानम् अनुमन्त्रयते

मूलम्

अथ ऋत्विक् प्रग् अस्तङ्गमनाद् अश्वत्थाद् अरणी आधायाग्ने जायस्वेति द्वाभ्यां मथ्यमानम् अनुमन्त्रयते

०१.०५

विश्वास-प्रस्तुतिः

तृतीयया जातं चतुर्थ्योपसमादधाति

मूलम्

तृतीयया जातं चतुर्थ्योपसमादधाति

०१.०६

विश्वास-प्रस्तुतिः

शुचौ देशे परिधाप्य यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा

मूलम्

शुचौ देशे परिधाप्य यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा

०१.०७

विश्वास-प्रस्तुतिः

अग्नेः प्रजातं परि यद् धिरण्यं यद् आबध्नन्न् इति हिरण्यस्रजम् आग्रथ्य रक्षन्तु त्वेति रक्षां कृत्वा

मूलम्

अग्नेः प्रजातं परि यद् धिरण्यं यद् आबध्नन्न् इति हिरण्यस्रजम् आग्रथ्य रक्षन्तु त्वेति रक्षां कृत्वा

०१.०८

विश्वास-प्रस्तुतिः

दर्भान् आस्तीर्याधह्शायिनौ स्याताम्

मूलम्

दर्भान् आस्तीर्याधह्शायिनौ स्याताम्

०१.०९

विश्वास-प्रस्तुतिः

श्वो भूते ऽभिजिन्मुहूर्ते हिरण्मयं मण्डलाकृति नाभिमात्रं पात्रम् आधाय सापिधानम्

मूलम्

श्वो भूते ऽभिजिन्मुहूर्ते हिरण्मयं मण्डलाकृति नाभिमात्रं पात्रम् आधाय सापिधानम्

०१.१०

विश्वास-प्रस्तुतिः

स्रुक्स्रुवाज्यस्थाल्युदपात्रालङ्कारांश् च

मूलम्

स्रुक्स्रुवाज्यस्थाल्युदपात्रालङ्कारांश् च

०१.११

विश्वास-प्रस्तुतिः

परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ चाथ जुहोति

मूलम्

परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ चाथ जुहोति

०२.०१

विश्वास-प्रस्तुतिः

हिरण्यगर्भाय स्वाहा ॥ अग्नये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ प्रजापतये स्वाहेति हुत्वा

मूलम्

हिरण्यगर्भाय स्वाहा ॥ अग्नये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ प्रजापतये स्वाहेति हुत्वा

०२.०२

विश्वास-प्रस्तुतिः

तैर् एव नमस्कारं कारयित्वा

मूलम्

तैर् एव नमस्कारं कारयित्वा

०२.०३

विश्वास-प्रस्तुतिः

तैर् एवोपस्थाय स्रुक्स्रुवाज्यस्थाल्युदपात्रालङ्कारांश् चेति

मूलम्

तैर् एवोपस्थाय स्रुक्स्रुवाज्यस्थाल्युदपात्रालङ्कारांश् चेति

०२.०४

विश्वास-प्रस्तुतिः

हिरण्मये राजानं हिरण्यवतीभिः स्नापयित्वा

मूलम्

हिरण्मये राजानं हिरण्यवतीभिः स्नापयित्वा

०२.०५

विश्वास-प्रस्तुतिः

हिरण्यकलशैस् तस्मिन् पञ्चगव्यम् अप आसिच्य

मूलम्

हिरण्यकलशैस् तस्मिन् पञ्चगव्यम् अप आसिच्य

०२.०६

विश्वास-प्रस्तुतिः

हिरण्यगर्भसूक्तेनांहोमुचेन शन्तातीयेन पञ्चभिश् च नामभिः सम्पातान् आनीय

मूलम्

हिरण्यगर्भसूक्तेनांहोमुचेन शन्तातीयेन पञ्चभिश् च नामभिः सम्पातान् आनीय

०२.०७

विश्वास-प्रस्तुतिः

तथैव सदस्यान् असदस्यान् ऋत्विजो ऽनुज्ञापयेद्

मूलम्

तथैव सदस्यान् असदस्यान् ऋत्विजो ऽनुज्ञापयेद्

०२.०८

विश्वास-प्रस्तुतिः

राजा हिरण्यगर्भत्वम् अभीप्सत्य् अस्मिन् भवन्तो ऽनुमन्यन्ताम् इति

मूलम्

राजा हिरण्यगर्भत्वम् अभीप्सत्य् अस्मिन् भवन्तो ऽनुमन्यन्ताम् इति

०२.०९

विश्वास-प्रस्तुतिः

तैर् अनुष्ठितः

मूलम्

तैर् अनुष्ठितः

०३.०१

विश्वास-प्रस्तुतिः

उद् एहि वाजिन्न् इति द्वाभ्यां प्रवेशयेत्

मूलम्

उद् एहि वाजिन्न् इति द्वाभ्यां प्रवेशयेत्

०३.०२

विश्वास-प्रस्तुतिः

त्रयस्त्रिंशद् देवता इत्य् अभिसन्धाय तम् अनुशास्ति

मूलम्

त्रयस्त्रिंशद् देवता इत्य् अभिसन्धाय तम् अनुशास्ति

०३.०३

विश्वास-प्रस्तुतिः

वाचं नियम्य प्रतिसंहृत्य चेन्द्रियाणि विषयेभ्यो मनसा भगवन्तं हिरण्मयं हिरण्यगर्भं परमेष्ठिनं पौरुषं ध्यायस्वेति

मूलम्

वाचं नियम्य प्रतिसंहृत्य चेन्द्रियाणि विषयेभ्यो मनसा भगवन्तं हिरण्मयं हिरण्यगर्भं परमेष्ठिनं पौरुषं ध्यायस्वेति

०३.०४

विश्वास-प्रस्तुतिः

तथेति तत् प्रतिपद्यते

मूलम्

तथेति तत् प्रतिपद्यते

०३.०५

विश्वास-प्रस्तुतिः

स सप्तदशमात्रान्तरम् अस्ति

मूलम्

स सप्तदशमात्रान्तरम् अस्ति

०३.०६

विश्वास-प्रस्तुतिः

सप्तदशो वै प्रजापतिः

मूलम्

सप्तदशो वै प्रजापतिः

०३.०७

विश्वास-प्रस्तुतिः

प्रजापतेर् आवृत इति विज्ञापयेत्

मूलम्

प्रजापतेर् आवृत इति विज्ञापयेत्

०३.०८

विश्वास-प्रस्तुतिः

तथैव सदस्यान् असदस्यान् अनुज्ञाप्योत्थापयेद्

मूलम्

तथैव सदस्यान् असदस्यान् अनुज्ञाप्योत्थापयेद्

०३.०९

विश्वास-प्रस्तुतिः

उत्थितं हिरण्मयेन चक्रेणाभिन्युब्जयेत्

मूलम्

उत्थितं हिरण्मयेन चक्रेणाभिन्युब्जयेत्

०३.१०

विश्वास-प्रस्तुतिः

मा ते प्राण इत्य् उद्धरेद्

मूलम्

मा ते प्राण इत्य् उद्धरेद्

०३.११

विश्वास-प्रस्तुतिः

उद्धृतं हिरण्यनाम्नो प्रविमुच्य यस् त्वा मृत्युर् इत्य् अपास्येत्

मूलम्

उद्धृतं हिरण्यनाम्नो प्रविमुच्य यस् त्वा मृत्युर् इत्य् अपास्येत्

०३.१२

विश्वास-प्रस्तुतिः

सम्पश्यमाना इत्य् अवेक्षितो ब्राह्मणान् प्रणिपत्य नमस्कार्य नमो हिरण्यगर्भायेत्य्

मूलम्

सम्पश्यमाना इत्य् अवेक्षितो ब्राह्मणान् प्रणिपत्य नमस्कार्य नमो हिरण्यगर्भायेत्य्

०३.१३

विश्वास-प्रस्तुतिः

अथ ह वै हिरण्यगर्भस्येति प्रियतमाय तत उक्तम्

मूलम्

अथ ह वै हिरण्यगर्भस्येति प्रियतमाय तत उक्तम्

०३.१४

विश्वास-प्रस्तुतिः

ब्राह्मणा ब्रूयुर् उत्तिष्ठ हिरण्यगर्भानुगृहीतो (सीत्य्

मूलम्

ब्राह्मणा ब्रूयुर् उत्तिष्ठ हिरण्यगर्भानुगृहीतो (सीत्य्

०३.१५

विश्वास-प्रस्तुतिः

अप्रतिरथेन हुत्वा संस्थापयेद्

मूलम्

अप्रतिरथेन हुत्वा संस्थापयेद्

०३.१६

विश्वास-प्रस्तुतिः

अप्सु ते राजन् वरुणेति वरुणम् अभिष्टूय स्नात्वा पवित्रैः प्रत्येत्यादित्यम् उपतिष्ठन्ते

मूलम्

अप्सु ते राजन् वरुणेति वरुणम् अभिष्टूय स्नात्वा पवित्रैः प्रत्येत्यादित्यम् उपतिष्ठन्ते

०४.०१

विश्वास-प्रस्तुतिः

हिरण्यं तव यद् गर्भो हिरण्यस्यापि गर्भजः । हिरण्यगर्भस् तस्मात् त्वं पाहि मां महतो महान् इति

मूलम्

हिरण्यं तव यद् गर्भो हिरण्यस्यापि गर्भजः । हिरण्यगर्भस् तस्मात् त्वं पाहि मां महतो महान् इति

०४.०२

विश्वास-प्रस्तुतिः

सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य

मूलम्

सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य

०४.०३

विश्वास-प्रस्तुतिः

गृहान् ऐमीति गृहान् प्रतिपद्य

मूलम्

गृहान् ऐमीति गृहान् प्रतिपद्य

०४.०४

विश्वास-प्रस्तुतिः

त्वम् अग्ने प्रमतिर् इत्य् अग्निम् उपस्थाप्याथोत्सृजेद्

मूलम्

त्वम् अग्ने प्रमतिर् इत्य् अग्निम् उपस्थाप्याथोत्सृजेद्

०४.०५

विश्वास-प्रस्तुतिः

अथ द्विजेभ्यो दक्षिणां दश सहस्राण् दद्यात्

मूलम्

अथ द्विजेभ्यो दक्षिणां दश सहस्राण् दद्यात्

०४.०६

विश्वास-प्रस्तुतिः

ग्रामवरं च

मूलम्

ग्रामवरं च

०४.०७

विश्वास-प्रस्तुतिः

स्रुक्स्रुवाज्यस्थाल्युदपात्रालङ्कारांश् चेत्य् अन्यत् सर्वं सदस्येभ्यो

मूलम्

स्रुक्स्रुवाज्यस्थाल्युदपात्रालङ्कारांश् चेत्य् अन्यत् सर्वं सदस्येभ्यो

०४.०८

विश्वास-प्रस्तुतिः

यावद् वा तुष्येरंश् तावद् वा देयम् ॥ राजा दद्याद्

मूलम्

यावद् वा तुष्येरंश् तावद् वा देयम् ॥ राजा दद्याद्

०४.०९

विश्वास-प्रस्तुतिः

यथाकामं ब्राह्मणान् अन्नेन परिचरेत्

मूलम्

यथाकामं ब्राह्मणान् अन्नेन परिचरेत्

०४.१०

विश्वास-प्रस्तुतिः

तत्र श्लोकाः

मूलम्

तत्र श्लोकाः

०५.०१

विश्वास-प्रस्तुतिः

वेदानां पारगा यस्य
चतुर्णां ब्रह्मवित्तमाः ।
तुष्टा यस्याशिषो ब्रूयुस्
तस्य यज्ञफलं भवेत् ॥

मूलम्

वेदानां पारगा यस्य चतुर्णां ब्रह्मवित्तमाः । तुष्टा यस्याशिषो ब्रूयुस् तस्य यज्ञफलं भवेत् ॥

०५.०२

विश्वास-प्रस्तुतिः

ब्राह्मणानां प्रसादेन
सूर्यो दिवि विराजति ।
इन्द्रो ऽप्य् एषां प्रसादेन
देवान् अतिविराजति ॥

मूलम्

ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजति । इन्द्रो ऽप्य् एषां प्रसादेन देवान् अतिविराजति ॥

०५.०३

विश्वास-प्रस्तुतिः

हिरण्यदानस्य फलम्
अमृतत्वम् इति श्रुतिः ।
श्रूयते ह्य् अस्य दाता
यः सो ऽमृतत्वं समश्नुते ॥

मूलम्

हिरण्यदानस्य फलम् अमृतत्वम् इति श्रुतिः । श्रूयते ह्य् अस्य दाता यः सो ऽमृतत्वं समश्नुते ॥

०५.०४

विश्वास-प्रस्तुतिः

राजेक्ष्वाकुप्रभृतयः
पुरा राजर्षयो ऽमलाः ।
दत्त्वा हिरण्यं विप्रेभ्यो
ज्योतिर् भूत्वा दिवि स्थिताः ॥

मूलम्

राजेक्षुवाकुप्रभ्र्तयः पुरा राजर्षयो ऽमलाः । दत्त्वा हिरण्यं विप्रेभ्यो ज्योतिर् भूत्वा दिवि स्थिताः ॥

०५.०५

विश्वास-प्रस्तुतिः

य एवं संस्कृतो राजा
विधिना ब्रह्मवादिना ।
प्रजानाम् इह साम्राज्यं
ज्यैष्ठ्यं श्रैष्ठ्यं च गच्छति ॥

मूलम्

य एवं संस्कृतो राजा विधिना ब्रह्मवादिना । प्रजानाम् इह साम्राज्यं ज्यैष्ठ्यं श्रैष्ठ्यं च गच्छति ॥

०५.०६

विश्वास-प्रस्तुतिः

अमुष्मिन् ब्रह्मणा सार्धम्
आनन्दम् अनुभूय वै ।
ज्योतिर्मयं सत्यलोकं
नचैवावर्तते पुनः ॥

मूलम्

अमुष्मिन् ब्रह्मणा सार्धम् आनन्दम् अनुभूय वै । ज्योतिर्मयं सत्यलोकं नचैवावर्तते पुनः ॥