०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ यः कामयेत सर्वेषां नृणाम् उत्तमः स्याम् इति स भास्करायापूपं दद्यात्
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
तस्य कल्पो
मूलम्
तस्य कल्पो
०१.०३
विश्वास-प्रस्तुतिः
यवगोधूमानाम् अन्यतमचूर्णेन मण्डलाकृतिं संश्रप्य

०१.०४
विश्वास-प्रस्तुतिः
पात्रे कृत्वापिहितम्
मूलम्
पात्रे कृत्वापिहितम्
०१.०५
विश्वास-प्रस्तुतिः
सगुडाज्यसुवर्णशकलं च्वोपरिष्टान् निधायार्चयेद् रक्तकुसुमैर्

०१.०६
विश्वास-प्रस्तुतिः
विषासहिम् इत्य् अभिमन्त्र्य ब्राह्मणाय निवेदयेत्

०१.०७
विश्वास-प्रस्तुतिः
तत्र श्लोकाः
मूलम्
तत्र श्लोकाः
०१.०८
विश्वास-प्रस्तुतिः
अनेन विधिना यस् तु पूपं दद्याद् द्विजातये । प्रयच्छेत् सततं प्राज्ञस् तस्य पुण्यफलं शृणु ॥

०१.०९
विश्वास-प्रस्तुतिः
आरोग्यवान् वर्चस्वी च प्रजावान् पशुमांस् तथा । धनवान् अन्नवान् श्रीमांस् तथा सर्वजनप्रियः ॥

०१.१०
विश्वास-प्रस्तुतिः
अपमृत्युशतं साग्रं नाशयत्य् अविचारतः । प्रदत्तं सूर्यलोकं च प्रापयेत् परमं पदम् ॥ प्रापयेत् परमं पदम् इति ॥ इत्य् आदित्यमण्डकः समाप्तः ॥