०१.०१
विश्वास-प्रस्तुतिः
ओम् अथातस् तुलापुरुषविधिं व्याख्यास्यामस्
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
तद् उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा

०१.०३
विश्वास-प्रस्तुतिः
ऋत्विग्यजमानौ कॢप्तकेशश्मश्रू रोमनखानि वापयित्वा

०१.०४
विश्वास-प्रस्तुतिः
सम्भारान् उपकल्प्य प्राक्तन्त्रम् आज्यभागान्तं कृत्वा

०१.०५
विश्वास-प्रस्तुतिः
महाव्याहृतिसावित्रीशान्तिं ब्रह्म जज्ञानम् इति हुत्वा

०१.०६
विश्वास-प्रस्तुतिः
अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्नेः प्रजातम् इति सम्पातान् उदपात्रानीयाभिषेककलशेषु निनयेद्

०१.०७
विश्वास-प्रस्तुतिः
अथास्येन्द्रो ग्रावभ्याम् इत्य् अभिषेचयेद्
मूलम्
अथास्येन्द्रो ग्रावभ्याम् इत्य् अभिषेचयेद्
०१.०८
विश्वास-प्रस्तुतिः
इदम् आपो यथेन्द्रो बाहुभ्याम् इत्य् अभिषेचयित्वा

०१.०९
विश्वास-प्रस्तुतिः
यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धस्रजश् चाबध्नीयात्

०१.१०
विश्वास-प्रस्तुतिः
तुलां हिरण्यं च पवित्रैर् अभ्युक्ष्य पुरुषसम्मितो ऽर्थ इति सप्तभिस् तदारोहयेद्

०१.११
विश्वास-प्रस्तुतिः
अच्युता द्यौर् इति चतसृभिर् अवरोहयेत्
मूलम्
अच्युता द्यौर् इति चतसृभिर् अवरोहयेत्
०१.१२
विश्वास-प्रस्तुतिः
सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य ब्राह्मणेभ्यो निवेदयित्वात्मालङ्कारान् कर्त्रे दद्यात्

०१.१३
विश्वास-प्रस्तुतिः
सहस्रदक्षिणं ग्रामवरम्
मूलम्
सहस्रदक्षिणं ग्रामवरम्
०१.१४
विश्वास-प्रस्तुतिः
द्विजान् अन्नेन तर्पयेत्
मूलम्
द्विजान् अन्नेन तर्पयेत्
०१.१५
विश्वास-प्रस्तुतिः
अथ चेन् निःस्वपक्षेण यथा सम्पद्यते धनम् । धातुभिः सह तौल्यम् अतु वासोभिश् च रसैस् तथा । व्रीह्यादिसप्तधान्यैर् वा यथासम्पद्यते गृहे ॥

०२.०१
विश्वास-प्रस्तुतिः
सखड्गः सशिरस्त्राणः सर्वाभरणभूषितः । तपनीयम् अगरे कृत्वा पश्चात् तोल्यो नराधिपः ॥

०२.०२
विश्वास-प्रस्तुतिः
इन्द्रेणेदं पुरा दत्तम् अधिराज्याप्तये वरम् । सर्वपापप्रणाशाय सर्वपुण्यविवृद्धये ॥

०२.०३
विश्वास-प्रस्तुतिः
महादानातिदानानाम् इदं दानम् अनुत्तमम् । अक्षय्यफलदं श्रेष्ठं दातॄणां श्रेयवर्धनम् ॥

०२.०४
विश्वास-प्रस्तुतिः
यत् पापं स्वे कुले जातैस् त्रिः सप्त पुरुषैः कृतम् । तत् सर्वं नश्यते क्षिप्रम् अग्नौ तूलं यथा तथा ॥

०२.०५
विश्वास-प्रस्तुतिः
अनामयं स्थानम् अवाप्य दैवैर् अलङ्घनीयं सुकृतैर् हिरण्मयैः । सुवर्णतेजाः प्रविमुक्तपापो दिवीन्द्रवद् राजति सूर्यलोके ॥ दिवीन्द्रवद् राजति सूर्यलेकेति ॥ इति तुलापुरुषविधिः समाप्तः ॥