०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ रोहिण्यां सकलायाम् उपोषितो ब्रह्मा सर्वबीजरसरत्नगन्धावकीर्णं तीर्थोदकपूर्णकलशम् आदायातिसृष्टो अपाम् इत्य् अभिषेकमन्त्रैर् यथोक्तैर् दातारम् अभिषिञ्चति ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
व्रतेन त्वं व्रतपत इति व्रतम् उपैति
मूलम्
व्रतेन त्वं व्रतपत इति व्रतम् उपैति
०१.०३
विश्वास-प्रस्तुतिः
याचितारदाताराव् अयाचिताशिनाव् अधह्शायिनौ भवतो

०१.०४
विश्वास-प्रस्तुतिः
व्रतोपचारम्
मूलम्
व्रतोपचारम्
०१.०५
विश्वास-प्रस्तुतिः
यथाशक्त्यैकरात्रं पञ्चरात्रं द्वादशरात्रं वा व्रतं चरित्वा

०१.०६
विश्वास-प्रस्तुतिः
श्वो भूते तन्त्रम् आज्यभागान्तं कृत्वान्वारभ्याथ जुहुयात् ॥

०१.०७
विश्वास-प्रस्तुतिः
कामसूक्तं कालसूक्तं पुरुषसूक्तं महाव्याहृतिभिः सङ्ख्यापूर्विकाभिः सर्व ऋत्विजो जुह्वत्य्

०१.०८
विश्वास-प्रस्तुतिः
अथ सुवर्णमयीं भूमिं भूमेः प्रतिकृतिं गोचर्ममात्रां कृत्वा

०१.०९
विश्वास-प्रस्तुतिः
मण्डपवेद्यां समानीय वेद्युत्तरतो यस्यां वेदिम् इत्य् उपस्थाप्य

०१.१०
विश्वास-प्रस्तुतिः
गिरयस् ते पर्वता इति पर्वतान् अवस्थाप्य
मूलम्
गिरयस् ते पर्वता इति पर्वतान् अवस्थाप्य
०१.११
विश्वास-प्रस्तुतिः
हिरण्यरजतमणिमुक्ताप्रवालादिभिर् उपशोभयेद् यद् अदः सम्प्रयतीर् इति

०१.१२
विश्वास-प्रस्तुतिः
सा मन्दसानेति नदीः कल्पयित्वा रसैश् च परिपूरयेद्

०१.१३
विश्वास-प्रस्तुतिः
अपाम् अग्रम् असि समुद्रं वो ऽभ्यवसृजामीति समुद्रान्

०१.१४
विश्वास-प्रस्तुतिः
वनस्पतिः सह देवैर् न आगन्न् इति बृहस्पतिनेति वनस्पतीन् अन्यांश् च

०१.१५
विश्वास-प्रस्तुतिः
यज्ञे त्वा मनसा सङ्कल्पयेन् मनसा सङ्कल्पयतीथ भवतीह भवतीह भवति

०१.१६
विश्वास-प्रस्तुतिः
निधिं बिभ्रती बहुधेति नमस्कारयित्वा
मूलम्
निधिं बिभ्रती बहुधेति नमस्कारयित्वा
०१.१७
विश्वास-प्रस्तुतिः
सत्यं बृहद् इत्य् अनुवाको ये देवा दिव्य् एकादश स्थेति पुण्याहं वाचयेत्

०१.१८
विश्वास-प्रस्तुतिः
संस्थापयेन्
मूलम्
संस्थापयेन्
०१.१९
विश्वास-प्रस्तुतिः
नव दिवो देवजनेनेत्य् अभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्

०१.२०
विश्वास-प्रस्तुतिः
दातुर् एसास्मै रोहिणी कामं निकामं वा दुग्ध इति

०१.२१
विश्वास-प्रस्तुतिः
यथा रोहन्ति बीजानि फालकृष्टे महीतले एवं कामाः प्ररोहन्ते प्रेत्येह मनसः सदा

०१.२२
विश्वास-प्रस्तुतिः
सर्वेषाम् एव दानानां यत् फलं समुदाहृतम् । तत्तत् प्राप्नोति विप्रेभ्यो दत्त्वा भूमिं यथाविधि ॥ दत्त्वा भूमिं यथाविधीति ॥ इति भूमिदानं समाप्तम् ॥