०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ तिलधेनुं प्रवक्ष्यामि सर्वपापप्रणाशनीम् । तिलाः श्वेतास् तिलाः कृष्णास् तिला गोमूत्रवर्णकाः ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
तिलानां तु विचित्राणां धेनुं वत्सं च कारयेत् । द्रोणस्य वत्सकं कुर्याच् चतुर्द्रोणा तु गौः स्मृता ॥

०१.०३
विश्वास-प्रस्तुतिः
सुवासायां शुचौ भूमौ धूपपुष्पैर् अलङ्क्र्ता । कृष्णाजिने तु कर्तव्या बहूनां वापि कारयेत् ॥

०१.०४
विश्वास-प्रस्तुतिः
कर्णौ रत्नमयौ कुर्याच् चक्षुषी दीपकौ तथा । घ्राणे तु सर्वग्न्धांस् तु जिह्वायां शारदं घृतम् ॥

०१.०५
विश्वास-प्रस्तुतिः
दन्तेषु मौक्तिकं दद्याल् ललाटे ताम्रभाजनम् । ऊधसि तु मधूशीरम् अपाने च घृतं मधु ॥

०२.०१
विश्वास-प्रस्तुतिः
हृदये चन्दनं दद्याज् जङ्घयोर् इक्षुकाण्डकम् । सुवर्णशृङ्गी रौप्यखुरी रौप्यलाङ्गूलदक्षिणा ॥

०२.०२
विश्वास-प्रस्तुतिः
वस्त्रछन्ना तु दातव्या कांस्यपात्रं तु दोहनी ।

०२.०३
विश्वास-प्रस्तुतिः
प्रजापतिश् चेत्य् अभिमन्त्र्य विप्राय दद्यात्

०२.०४
विश्वास-प्रस्तुतिः
तत्र श्लोकाः ॥
मूलम्
तत्र श्लोकाः ॥
०२.०५
विश्वास-प्रस्तुतिः
धेनुं वत्सं च यो दद्याद् विनाथर्वाभिमन्त्रिताम् । विनानेन विधानेन देवत्वं नोपजायते ॥

०२.०६
विश्वास-प्रस्तुतिः
विश्वरूपाः स्थिताः सर्वा धेनवः परिकीर्तिताः । धेनुत्वं न स प्रयाति विना सूक्ताभिमन्त्रिताम् । निष्फलं नश्यते सर्वं विनाभिमन्त्रितं सताम् ॥

०२.०७
विश्वास-प्रस्तुतिः
बालत्वे यच् च कौमारे यत् पापं यौवने कृतम् । वयःपरिणतौ यच् च यच् च जन्मान्तरेषु च ॥

०२.०८
विश्वास-प्रस्तुतिः
यन् निशायां तथा प्रातर् यन् मध्याह्नापराह्णयोः । सन्ध्ययोर् यत् कृतं पापं कर्मणा मनसा गिरा ॥

०३.०१
विश्वास-प्रस्तुतिः
प्रसूयमानां यो धेनुं दद्याद् ब्राह्मणपुङ्गवे । कृष्णाजिनं गुडधेनुं घृतधेनुं तथैव च ॥

०३.०२
विश्वास-प्रस्तुतिः
सुवर्णरत्नधेनुं च जलधेनुं तथा पराम् । क्षीरधेनुं मधुधेनुं शर्करालवणं तथा ॥

०३.०३
विश्वास-प्रस्तुतिः
रसादिधेनूः सर्वान्या अनेन विधिना स्मृताः । यत् तु बाल्ये कृतं पापं यौवने चैव यत् कृतम् ॥

०३.०४
विश्वास-प्रस्तुतिः
मानकूटं तुलाकूटं कन्यानृतगवानृतम् । उदके ष्ठीवितं चैव मुसलं चापि लङ्घितम् ॥

०३.०५
विश्वास-प्रस्तुतिः
वृषलीगमनं चैव गुरुदारानिषेवणम् । सुरापानस्य यत् पापं तिलधेनुः प्रशाम्यति ॥

०४.०१
विश्वास-प्रस्तुतिः
या स यमपुरे घोरे नदी वैतरणी स्मृता । यत्र लोहमुखाः काकाः श्वानश् चैव भयावहाः ॥

०४.०२
विश्वास-प्रस्तुतिः
वालुकान्ताः स्थलाश् चैव पच्यन्ते यत्र दुष्कृतः । असिपत्त्रवनं यत्र शालूकाः शाल्मली तथा ॥

०४.०३
विश्वास-प्रस्तुतिः
तान् सुखेन व्यतिक्रम्य धर्मराजाश्रमं व्रजेत् । स्वागतं ते महाभाग स्वस्ति ते ऽस्तु महामते ॥

०४.०४
विश्वास-प्रस्तुतिः
विमानम् एतद् योग्यं ते मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ गच्छ त्वं परमां गतिम् ॥

०४.०५
विश्वास-प्रस्तुतिः
मा च चारभटे दद्यान् मा च दद्यात् पुरोहिते । मा च काणे विरूपे च कुष्ठिव्यङ्गे तथैव च ॥

०४.०६
विश्वास-प्रस्तुतिः
वेदान्तगाय दातव्या वेदान्तगसुताय वा । एकैकस्मै च दातव्या माघमासे तु पूर्णिमाम् ॥

०४.०७
विश्वास-प्रस्तुतिः
य इमां पठते नित्यं यश् चेमां शृणुयाद् अपि । देवलोकम् अतिक्रम्य सूर्यलोकं स गच्छति ॥ सूर्यलोकं स गच्छतीति ॥ इति तिलधेनुविधिः समाप्तः ॥