०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ घ्र्तावेक्षणं वक्ष्यामः ॥
मूलम्
ओम् अथ घ्र्तावेक्षणं वक्ष्यामः ॥
०१.०२
विश्वास-प्रस्तुतिः
प्रातःप्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रबोधितो राजा शयनगृहाद् उत्थायापराजितां दिशम् अभिनिष्क्रम्योपाध्यायं प्रतीक्षेत ॥

०१.०३
विश्वास-प्रस्तुतिः
अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः क्र्तमङ्गलविरचितोष्णीषी शान्तिगृहं प्रविश्य देवानां नमस्कारं कृत्वा स्वस्तिवाचनम् अनुज्ञाप्य विनीतवद् उपविशेत् ॥

०१.०४
विश्वास-प्रस्तुतिः
यमस्य लोकाद् यथा कलां यो न जीवो ऽसीति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य परिस्तीर्य शन्तातीयेन तिलान् घृताक्तान् जुहुयात् ॥

०१.०५
विश्वास-प्रस्तुतिः
तान् हुत्वा सौवर्णराजतम् औदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं घृतस्य जूतिः सहस्रशृङ्गो यमस्य लोकाद् उरु विष्णो वि क्रमस्वेत्य् अभिमन्त्र्याज्यं तेज इति तदालभते ॥

०१.०६
विश्वास-प्रस्तुतिः
आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं परम् । आज्येन देवास् त्र्प्यन्ति आज्ये लोकाः प्रतिष्ठिताः ॥

०१.०७
विश्वास-प्रस्तुतिः
भौमान्तरिक्षदिव्यं वा यत् ते कल्मषम् आगतम् । सर्वं तद् आज्यसंस्पर्शात् प्रणाशम् उपगच्छत्व् इति ॥

०१.०८
विश्वास-प्रस्तुतिः
तस्मिन् घृतपात्रस्थं हि सर्वम् आत्मानं च पश्येत् ॥

०१.०९
विश्वास-प्रस्तुतिः
दध्ना शिरो हृदयम् अन्वालभ्य जपेत् ॥
मूलम्
दध्ना शिरो हृदयम् अन्वालभ्य जपेत् ॥
०१.१०
विश्वास-प्रस्तुतिः
उच्चा पतन्तम् इति द्वाभ्याम्
मूलम्
उच्चा पतन्तम् इति द्वाभ्याम्
०१.११
विश्वास-प्रस्तुतिः
सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य शेषं कारयेद् इत्य्

०१.१२
विश्वास-प्रस्तुतिः
अत्र श्लोकाः ॥
मूलम्
अत्र श्लोकाः ॥
०२.०१
विश्वास-प्रस्तुतिः
अयं घृतावेक्षणस्य प्रोक्तो विधिर् अथर्वणा । उपास्यो नित्यकालं तु राज्ञा विजयकाङ्क्षिणा ॥

०२.०२
विश्वास-प्रस्तुतिः
एतत् समाहरेत् सर्वं प्रयतस् तु समाहितः । राजा विजयते राष्ट्रं नश्यन्ते तस्य शत्रवः ॥

०२.०३
विश्वास-प्रस्तुतिः
द्विजोत्तमाय कपिलां राजा दद्यात् तु गां शुभाम् । आशीर्वादं ततस् तेन श्रुत्वा तन्मुखनिःसृतम् ॥

०२.०४
विश्वास-प्रस्तुतिः
गुरुणा वाचितो यस्माद् दीर्घम् आयुर् अवाप्नुयात् । पुत्रान् पौत्रांश् च मैत्रांश् च लभते नात्रसंशयः ॥

०२.०५
विश्वास-प्रस्तुतिः
आयुष्यम् अथ वर्चस्यं सौभाग्यं शत्रुतापनम् । दुःस्वप्ननाशनं पुण्यं घृतास्यावेक्षणं स्मृतम् इति ॥ इति घृतावेक्षणं समाप्तम् ॥ श्रीसाम्ब । यमस्य लोकाद् अध्य् आबभूविथ इति ऋचः ६, यथा कलां यथा शफम् इति ऋचः ६, घृतस्य जूतिर् इति ऋचः ४ घृतावेक्षणमध्ये पैप्पलादा मन्त्राः ॥