०७ आरात्रिकम्

०१.०१

विश्वास-प्रस्तुतिः

ॐ न सुष्वाप पुरा शक्रो दानवानां पुरोधसा । प्रयुक्तैर् औषधैर् योगैर् मन्त्राणां जपहोमतः ॥

मूलम्

०१.०२

विश्वास-प्रस्तुतिः

प्रणिपत्य बृहस्पतिम् अथर्वाणं पुरन्दरः । दानवैः परिभूतो ऽहं त्राहि माम् इत्य् उवाच ह ॥

०१.०३

विश्वास-प्रस्तुतिः

ततो ऽसाव् एवम् उक्तस् तु प्रभूतबलवर्धनम् । आरोग्यदं भूतिकरं क्षुद्रोपद्रवनाशनम् ॥

०१.०४

विश्वास-प्रस्तुतिः

आरात्रिकं हि कर्तव्यं तस्य त्रातुम् इदं तदा । कृत्वा पिष्टमयं दीपं सुवर्तिस्नेहसंयुतम् ॥

०१.०५

विश्वास-प्रस्तुतिः

अति निहः प्रान्यान् इति द्वाभ्याम् एनं प्रदीपयेत् । पात्रे सपुष्पे संस्थाप्य सर्षपांश् च सहाक्षतैः ॥

०१.०६

विश्वास-प्रस्तुतिः

प्रियङ्गुं शतपुष्पां च दूर्वां चैव शतावरीम् । सपापहारिणीं भूतिं तत्रैव च बलिं न्यसेत् ॥

०१.०७

विश्वास-प्रस्तुतिः

अप्सरोभिः परिवृतो गुरुर् गत्वा पुरन्दरम् । प्राप्तसत्त्वं सुमनसम् आसने प्रान्मुखं स्थितम् ॥

०१.०८

विश्वास-प्रस्तुतिः

प्रेतो यन्त्व् एकशतं च दीपं समभिमन्त्रयेत् । त्रिः परिभ्रामयेद् राज्ञो मन्त्रेणाथ सुमङ्गलम् ॥

०१.०९

विश्वास-प्रस्तुतिः

शाम्यन्त्य् अस्य ततो रोगा ग्रहा विघ्नविनायकाः । स्वस्त्य् अस्तु न्र्पराष्ट्राय स्वस्ति गोब्राह्मणाय च ॥

०१.१०

विश्वास-प्रस्तुतिः

ततस् तु शङ्खध्वनिना दीपं गृहीत्वा सतोयधारां प्रयतो ऽपि निर्हरेत् । पुरोहितो ज्योतिषिको ऽपि वा स्वयं हितैषिनी धात्र्य् अथर्वो (पकारिता ॥

०१.११

विश्वास-प्रस्तुतिः

आचाम्याथ ह राजानम् आचम्यादौ पुरोहितः । ब्राह्मणाय यथाशक्ति रुक्मं प्रातः प्रदापयेत् ॥

०१.१२

विश्वास-प्रस्तुतिः

मूलकर्मादिकं तस्य पञ्चगुह्यककारितम् । भयं राज्ञो न भवति तेजो वीर्यं च वर्धते ॥

०१.१३

विश्वास-प्रस्तुतिः

एवं विधानम् अखिलं विहितं यथावद् एतत् समस्तशुभदं गदितं न्र्पाणाम् । नैवापदः समुपयान्ति नृपं कदा चिद् आरात्रिकं प्रतिनिशं क्रियते तु यस्य ॥ इत्य् आरात्रिकं समाप्तम् ॥