०६ पिष्टरात्र्याः कल्पः

०१.०१

विश्वास-प्रस्तुतिः

ओम् अथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥

मूलम्

ओम् अथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥

०१.०२

विश्वास-प्रस्तुतिः

अहतवासाः पुरस्तात् तल्पस्य गोमयेन स्थण्डिलम् उपलिप्य

मूलम्

अहतवासाः पुरस्तात् तल्पस्य गोमयेन स्थण्डिलम् उपलिप्य

०१.०३

विश्वास-प्रस्तुतिः

अहतवस्त्रेण सिंहासनम् अवछाद्य ॥

मूलम्

अहतवस्त्रेण सिंहासनम् अवछाद्य ॥

०१.०४

विश्वास-प्रस्तुतिः

यां देवाः प्रति नन्दन्तीति रात्रिम् आवाहयेत् ॥

मूलम्

यां देवाः प्रति नन्दन्तीति रात्रिम् आवाहयेत् ॥

०१.०५

विश्वास-प्रस्तुतिः

संवत्सरस्य प्रतिमाम् इति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीम् उपवेशयेत् ॥

मूलम्

संवत्सरस्य प्रतिमाम् इति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीम् उपवेशयेत् ॥

०१.०६

विश्वास-प्रस्तुतिः

छत्त्रं हिरण्मयं दद्याद् आसनं च हिरण्मयम् । दद्याच् छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥

मूलम्

छत्त्रं हिरण्मयं दद्याद् आसनं च हिरण्मयम् । दद्याच् छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥

०१.०७

विश्वास-प्रस्तुतिः

शुभ्रम् अन्नम् अतथा दद्यात् प्रभूतांश् चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश् च प्रकल्पयेत् ॥

मूलम्

शुभ्रम् अन्नम् अतथा दद्यात् प्रभूतांश् चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश् च प्रकल्पयेत् ॥

०१.०८

विश्वास-प्रस्तुतिः

आ मा पुष्टे च पोषे चेत्य् एताभिर् उपस्थाय ॥

मूलम्

आ मा पुष्टे च पोषे चेत्य् एताभिर् उपस्थाय ॥

०१.०९

विश्वास-प्रस्तुतिः

रक्षोघ्नैर् मन्त्रैः सर्षपान् अभिमन्त्र्य

मूलम्

रक्षोघ्नैर् मन्त्रैः सर्षपान् अभिमन्त्र्य

०१.१०

विश्वास-प्रस्तुतिः

आवतस् त इति जपन् समन्तात् तल्पस्यावकीर्य

मूलम्

आवतस् त इति जपन् समन्तात् तल्पस्यावकीर्य

०१.११

विश्वास-प्रस्तुतिः

अयं प्रतिसर इति प्रतिसरम् आबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥

मूलम्

अयं प्रतिसर इति प्रतिसरम् आबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥

०१.१२

विश्वास-प्रस्तुतिः

धूपशेषं राज्ञे दद्याद् ॥

मूलम्

धूपशेषं राज्ञे दद्याद् ॥

०१.१३

विश्वास-प्रस्तुतिः

अभयप्रदं कर्म ॥

मूलम्

अभयप्रदं कर्म ॥

०१.१४

विश्वास-प्रस्तुतिः

पश्चात् सर्वेषु कोनेषु द्विमुखीम् एकमुखीं वा । सर्वतो विजयां रक्षाम् एकां वा तेषु चतुर्मुखीम् ॥

मूलम्

पश्चात् सर्वेषु कोनेषु द्विमुखीम् एकमुखीं वा । सर्वतो विजयां रक्षाम् एकां वा तेषु चतुर्मुखीम् ॥

०१.१५

विश्वास-प्रस्तुतिः

एकमुखीं वा सर्वत्राप्रतिरथजप इत्य् एके

मूलम्

एकमुखीं वा सर्वत्राप्रतिरथजप इत्य् एके

०१.१६

विश्वास-प्रस्तुतिः

सर्वत्र शर्कराक्षेपश् चेति ॥

मूलम्

सर्वत्र शर्कराक्षेपश् चेति ॥

०२.०१

विश्वास-प्रस्तुतिः

गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत्

मूलम्

गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत्

(अव्परिस्_६।२।२) वनस्पतिर् असो मध्य इति गुग्गुलुकुष्ठधूपं दद्याद्

०२.०३

विश्वास-प्रस्तुतिः

यस् ते गन्ध इति भूतिम् अभिमन्त्र्य

मूलम्

यस् ते गन्ध इति भूतिम् अभिमन्त्र्य

०२.०४

विश्वास-प्रस्तुतिः

त्र्यायुषम् इति राज्ञे रक्षां कृत्वा

मूलम्

त्र्यायुषम् इति राज्ञे रक्षां कृत्वा

०२.०५

विश्वास-प्रस्तुतिः

असपत्नम् इति शर्करान् अभिमन्त्र्याङ्गुष्ठाद् [अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥

मूलम्

असपत्नम् इति शर्करान् अभिमन्त्र्याङ्गुष्ठाद् [अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥

०२.०६

विश्वास-प्रस्तुतिः

शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥

मूलम्

शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥

०२.०७

विश्वास-प्रस्तुतिः

भूतिना रक्षां कृत्वा निष्क्रम्य

मूलम्

भूतिना रक्षां कृत्वा निष्क्रम्य

०२.०८

विश्वास-प्रस्तुतिः

एवमेवम् अहर् अहः कुर्याद् इति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥

मूलम्

एवमेवम् अहर् अहः कुर्याद् इति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥