०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ पुष्याभिषेकस्य विधिं वक्ष्यामि साम्पदम् । धर्मार्थकामसंयुक्तं राजा कुर्यात् पुरोहितम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
सौवर्णराजतैस् ताम्रैः कलशैः पार्थिवैर् अपि । सहस्रेण शतेनाथ तोयग्रहणम् इष्यते ॥

०१.०३
विश्वास-प्रस्तुतिः
चतुर्णां सागराणां तु नदीनां च शतस्य तु । अभिषेकाय राज्ञस् तु तोयम् आहृत्य यत्नतः ॥

०१.०४
विश्वास-प्रस्तुतिः
एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् । ओषधीस् तेषु सर्वेषु कलशेषूपकल्पयेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
सहा च दहदेवी च बला चातिबला तथा । मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥

०२.०१
विश्वास-प्रस्तुतिः
शतावरी जयन्ती च शतपुष्पा सचन्दना । प्रियङ्गू रोचनो अशीरम् अमृता च ससारिका ॥

०२.०२
विश्वास-प्रस्तुतिः
अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च । शिरीषाम्रकपित्थानां पल्लवैः समलङ्कृतान् ॥

०२.०३
विश्वास-प्रस्तुतिः
हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् । आच्छादितान् सितैर् वस्त्रैर् अभिमन्त्र्य पुरोहितः ॥

०२.०४
विश्वास-प्रस्तुतिः
सावित्र्य् उभयतः कुर्याच् छं नो देवी तथैव च । हिरण्यवर्णाः सूक्तं च अनुवाकाद्यम् एव च ॥

०२.०५
विश्वास-प्रस्तुतिः
धरणी पादपीठं स्याद् दूर्वामूलाङ्कुरान् शुभान् । तस्योपरि न्यसेत् पीठं हैमं रौप्यम् अथापि वा ॥

०३.०१
विश्वास-प्रस्तुतिः
अनडुद्व्याघ्रसिंहानां मृगस्य च यथाक्रमम् । चत्वारि चर्माण्य् एतानि पूर्वाद् आरभ्य विन्यसेत् ॥

०३.०२
विश्वास-प्रस्तुतिः
चातुर्होत्रविधानेन जुहुयाच् च पुरोहितः । चतुर्दिक्षु स्थितैर् विप्रैर् वेदवेदाङ्गपारगैः ॥

०३.०३
विश्वास-प्रस्तुतिः
बिल्वाहारः फलाहारः पयसा वापि वर्तयेत् । सप्तरात्रं घृताशी व ततो होमं प्रयोजयेत् ॥

०३.०४
विश्वास-प्रस्तुतिः
गव्येन पयसा कुर्यात् सौवर्णेन स्रुवेण तु । वेदानाम् आदिभिर् मन्त्रैर् महाव्याहृतिपूर्वकैः ॥

०३.०५
विश्वास-प्रस्तुतिः
शर्मवर्मा गणश् चैव तथा स्याद् अपराजितः । आयुष्यश् चाभयश् चैव तथा स्वस्त्ययनो गणः ॥

०४.०१
विश्वास-प्रस्तुतिः
एतान् पञ्च गणान् हुत्वा वाचयेत द्विजोत्तमान् । हिरण्येनाक्षतार्घेण फलैश् च मधुसर्पिषा ॥

०४.०२
विश्वास-प्रस्तुतिः
पुण्याहं वाचयित्वास्य आरम्भं कारयेद् बुधः । तिष्यनक्षत्रसंयुक्ते महूर्ते करणे शुभे ॥

०४.०३
विश्वास-प्रस्तुतिः
उच्चैर्घोष इति तूर्याण्य् अभिमन्त्र्य पुरोहितः । सर्वतूर्यनिनादेन अभिषिक्तो ह्य् अलङ्कृतः ॥

०४.०४
विश्वास-प्रस्तुतिः
सिंहासनं समारुह्य पीठिकां वा यथाक्रमम् । चामरछत्त्रसंयुक्तं प्रतिहारविभूषितम् ॥

०४.०५
विश्वास-प्रस्तुतिः
मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् । उपविष्टस् ततो राजा प्रजानां कारयेद् धितम् । अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः ॥

०५.०१
विश्वास-प्रस्तुतिः
ततस् तु दर्शनं देयं ब्राह्मणानां नृपेण तु । श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करेत् ॥

०५.०२
विश्वास-प्रस्तुतिः
आशिषस् ते हि दास्यन्ति तुष्टा जनपदा भुवि । एवं प्रजानुरज्येत पृथिवी च वशा भवेत् ॥

०५.०३
विश्वास-प्रस्तुतिः
पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च । अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा ॥

०५.०४
विश्वास-प्रस्तुतिः
भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् । यथार्हेण च योगेन सर्वान् सम्पूजयेन् नृपः ॥

०५.०५
विश्वास-प्रस्तुतिः
राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् । स्थानान्तराणि चान्यानि दत्त्वा सुखम् अवाप्नुयात् ॥

०५.०६
विश्वास-प्रस्तुतिः
दूर्वासिद्धार्थकान् सर्पिः शमीर् व्रीहियवौ तथा शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात् पुरोहितः ॥

०५.०७
विश्वास-प्रस्तुतिः
अथर्वविहितो ह्य् एष विधिः पुष्याभिषेचने । राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति ॥

इति पुष्याभिषेकः ॥