०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ पुरोहितकर्माणि ॥ राज्ञः प्रातर् उत्थितस्य कृतस्वस्त्ययनस्य
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः सोष्णीषः सविता प्रसवानाम् इति व्याख्यातम् ॥

०१.०३
विश्वास-प्रस्तुतिः
इमम् इन्द्र वर्धयेत्य् उक्तम् ॥
मूलम्
इमम् इन्द्र वर्धयेत्य् उक्तम् ॥
०१.०४
विश्वास-प्रस्तुतिः
परि धत्तेति द्वाभ्यां राज्ञो वस्त्रम् अभिमन्त्र्य प्रयच्छेत् ॥

०१.०५
विश्वास-प्रस्तुतिः
यद् आबध्नन्न् इत्य् अलङ्कारान् ॥
मूलम्
यद् आबध्नन्न् इत्य् अलङ्कारान् ॥
०१.०६
विश्वास-प्रस्तुतिः
सिंहे व्याघ्र इति सिंहासनम् ॥
मूलम्
सिंहे व्याघ्र इति सिंहासनम् ॥
०१.०७
विश्वास-प्रस्तुतिः
यस् ते गन्ध इति गन्धान् ॥
मूलम्
यस् ते गन्ध इति गन्धान् ॥
०१.०८
विश्वास-प्रस्तुतिः
एहि जीवं त्रायमाणम् इत्य् अक्षिणी अङ्क्ते ॥
मूलम्
एहि जीवं त्रायमाणम् इत्य् अक्षिणी अङ्क्ते ॥
०१.०९
विश्वास-प्रस्तुतिः
वातरंहा इत्य् अश्वम् ॥
मूलम्
वातरंहा इत्य् अश्वम् ॥
०१.१०
विश्वास-प्रस्तुतिः
हस्तिवर्चसम् इति हस्तिनम् ॥
मूलम्
हस्तिवर्चसम् इति हस्तिनम् ॥
०१.११
विश्वास-प्रस्तुतिः
यत् ते माता यत् ते पितेति नरयानम् ॥
मूलम्
यत् ते माता यत् ते पितेति नरयानम् ॥
०१.१२
विश्वास-प्रस्तुतिः
खड्गं चाभिमन्त्रयामीति खड्गम् ॥
मूलम्
खड्गं चाभिमन्त्रयामीति खड्गम् ॥
०१.१३
विश्वास-प्रस्तुतिः
खड्गं चाभिमन्त्रयामि यः शत्रून् मर्दयिष्यति । मर्दिताः शत्रवो ऽनेन वशम् आयान्तु ते सदेति ॥

०१.१४
विश्वास-प्रस्तुतिः
पर्यङ्कम् आसनं खड्गं ध्वजं छत्त्रं सचामरम् । रथम् अश्वगजं श्रेष्ठं धनुर् वर्म शरेषुधिम् ॥

०१.१५
विश्वास-प्रस्तुतिः
आञ्जनं गन्धमाल्यानि वस्त्राण्य् आभरणानि च । सर्वान् शान्त्युदकेनैतान् अभ्युक्ष्येच् चाभिमन्त्रयेत् ॥

०१.१६
विश्वास-प्रस्तुतिः
दूर्वादीन् मूर्ध्नि निक्षिप्य स्वस्त्ययनैर् अभिमन्त्रयेत् । अभयं द्यावापृथिवीत्य् अभिमन्त्रितो ब्राह्मणान् प्रणिपत्य प्राक् ॥

०१.१७
विश्वास-प्रस्तुतिः
युष्मत्प्रसादाच् छान्तिम् अधिगच्छामीति ॥
मूलम्
युष्मत्प्रसादाच् छान्तिम् अधिगच्छामीति ॥
०१.१८
विश्वास-प्रस्तुतिः
तथास्त्व् इत्य् उक्तो निर्गच्छेद् इति ॥
मूलम्
तथास्त्व् इत्य् उक्तो निर्गच्छेद् इति ॥
०१.१९
विश्वास-प्रस्तुतिः
एवङ्कृत्यस्वस्त्ययनो यद् एवावलोकयति त सिध्यति ॥

०१.२०
विश्वास-प्रस्तुतिः
तद् अपि श्लोकाः ॥
मूलम्
तद् अपि श्लोकाः ॥
०१.२१
विश्वास-प्रस्तुतिः
असुरैः पीड्यमानस् तु पुरा शक्रो जगत्प्रभुः । कारयाम् आस विधिवत् पुरोधस्त्वे बृहस्पतिम् ॥

०१.२२
विश्वास-प्रस्तुतिः
स वृतो भयभीतेन शमनार्थं बुभूषता । मङ्गलानि ससर्जाष्टाव् अभयार्थं शतक्रतोः ॥

०१.२३
विश्वास-प्रस्तुतिः
प्रोक्तानि मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः । भूमिः सिद्धार्थकाः सर्पिः शमी व्रीहियवौ तथा ॥

०१.२४
विश्वास-प्रस्तुतिः
एतानि सततं पुण्यानि सम्पश्यन्न् अर्चयन्न् अपि । न प्राप्नोत्य् आपदं राजा श्रियं प्राप्नोत्य् अनुत्तमाम् ॥

०२.०१
विश्वास-प्रस्तुतिः
अथ राजकर्माणि
मूलम्
अथ राजकर्माणि
०२.०२
विश्वास-प्रस्तुतिः
विश्वावसौ मुहूर्ते स्नातो अभिषेकमन्त्रैर् अभिमन्त्रितः ॥

०२.०३
विश्वास-प्रस्तुतिः
अनुलेपनैर् अनुलिप्तः ॥
मूलम्
अनुलेपनैर् अनुलिप्तः ॥
०२.०४
विश्वास-प्रस्तुतिः
पूर्वोक्तेन विधिना वस्त्रालङ्कारादिभिः
मूलम्
पूर्वोक्तेन विधिना वस्त्रालङ्कारादिभिः
०२.०५
विश्वास-प्रस्तुतिः
सुवर्णनिष्कं कृष्णलं वा वामहस्तेन सङ्गृह्य ॥
मूलम्
सुवर्णनिष्कं कृष्णलं वा वामहस्तेन सङ्गृह्य ॥
०२.०६
विश्वास-प्रस्तुतिः
यद् दुःकृतं यच् छबलं सर्वं पाप्मानं दहत्व् इत्य्

०२.०७
विश्वास-प्रस्तुतिः
अनेन मन्त्रेण सुवर्णं शरीरे निघृष्य दक्षिणेन हस्तेन विप्राय दद्याद्

०२.०८
विश्वास-प्रस्तुतिः
धेनुं चारोगाम्
मूलम्
धेनुं चारोगाम्
०२.०९
विश्वास-प्रस्तुतिः
अपरिमितगुणान् तिलान् सौवर्णमये ताम्रमये वा पात्रे स्थापयित्वा यद् अज्ञानाद् इत्य् अभिमन्त्र्य विप्राय दद्यात् ॥

०२.१०
विश्वास-प्रस्तुतिः
यद् अज्ञानात् तथा ज्ञानाद् यन् मया शबलं कृतम् । तत् सर्वं तिलदानेन दह्यताम् इति हि प्रभो ॥

०२.११
विश्वास-प्रस्तुतिः
भूमिश् च सस्यसम्पन्ना ब्राह्मणे वेदपारगे । यथाशक्ति प्रदेया हि बृहस्पतिवचो यथा ॥

०२.१२
विश्वास-प्रस्तुतिः
स भुक्त्वा विविधान् भोगान् सप्तसागरमेखलाम् । पृथिवीं प्राप्य मोदेत चन्द्रवत् पृथिवीपतिः ॥

०२.१३
विश्वास-प्रस्तुतिः
अन्नं तु विविधं नित्यं प्रदद्यात् द्विजातये । तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा ॥

०२.१४
विश्वास-प्रस्तुतिः
गृहदेवांस् तु सम्पूज्य कार्यश् चाप्य् उत्सवो गृहे । छत्त्रादीनि च यानानि पूजयेद् विधिवत् स्वयम् ॥

०२.१५
विश्वास-प्रस्तुतिः
[पुष्पैश् च विविधैः शुभ्रैः फलैश् चाप्य् अर्चयेद् बुधः] तस्मात् सर्वाणि सततं दानानि तु महीपतिः । दत्त्वा श्रद्धान्वितो विप्रैर् वृतो भुञ्जीत वाग्यतः ॥

०३.०१
विश्वास-प्रस्तुतिः
अथ पिष्टमयीं रात्रिं चतुर्भिर् दीपकैः सह । अर्चितां गन्धमाल्येन स्थापयेत् तस्य चाग्रतः ॥

०३.०२
विश्वास-प्रस्तुतिः
नमस् कृत्वा ततो रात्रिम् अर्चयित्वा यथाविधि । धूपेन चान्नपानेन स्तोत्रेण च समर्चयेत् ॥

०३.०३
विश्वास-प्रस्तुतिः
पाहि मां सततं देवि सराष्ट्रं ससुहृज्जनम् । उषसे नः प्रयच्छस्व शान्तिं च कृणु मे सदा । ये त्वां प्रपद्यन्ते देवि न तेषां विद्यते भयम् ॥

(अव्परिस्_४।३।४) रात्रिं प्रपद्ये जननीं सर्वभूतनिवेशनीम् । भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ॥
०३.०५
विश्वास-प्रस्तुतिः
संवेशनीं संयमनीं ग्रहनक्षत्रमालिनीम् । प्रपन्नो ऽहं शिवां रात्रिं भद्रे पारम् अशीमहि ॥

०३.०६
विश्वास-प्रस्तुतिः
यां सदा सर्वभूतानि स्थावराणि चराणि च । सायं प्रातर् नमस्यन्ति सा मां रात्र्य् अभिरक्षत्व् इति ॥

०४.०१
विश्वास-प्रस्तुतिः
आ रात्रि पार्थिवम् इषिरा योषा त्रायमान इत्य् रात्र्याणि ॥

०४.०२
विश्वास-प्रस्तुतिः
ममोभा मह्यम् आप इति सूक्ताभ्याम् अन्वालभ्य जपेत् ॥

०४.०३
विश्वास-प्रस्तुतिः
यो न[[ः]] स्व इति पञ्चभिः सर्षपाञ् जुहुयात् ॥

०४.०४
विश्वास-प्रस्तुतिः
यो ऽस्मिन् यस् त्वा मातुर् इति दीपेन नृपस्योपरि त्रिष् परिहृत्य प्रैषकृते प्रयच्छेत् ॥

०४.०५
विश्वास-प्रस्तुतिः
अभयम् इत्य् ऋचा चतस्रः शर्कराः प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥

०४.०६
विश्वास-प्रस्तुतिः
एह्य् अश्मानम् आ तिष्ठेति पञ्चमीम् अधिष्ठापयेत् ॥

०४.०७
विश्वास-प्रस्तुतिः
न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठदूपं दद्यात् ॥

०४.०८
विश्वास-प्रस्तुतिः
यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥

०४.०९
विश्वास-प्रस्तुतिः
दूष्या दूषिर् असीति प्रतिसरम् आबध्य
मूलम्
दूष्या दूषिर् असीति प्रतिसरम् आबध्य
०४.१०
विश्वास-प्रस्तुतिः
अग्निर् मा पातु वसुभिः पुरस्ताद् इति शर्करान् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥

०४.११
विश्वास-प्रस्तुतिः
बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्यात् ॥

०४.१२
विश्वास-प्रस्तुतिः
नैशम् अभयं कर्म मौसलीपुत्रः पैठीनसिः ॥
मूलम्
नैशम् अभयं कर्म मौसलीपुत्रः पैठीनसिः ॥
०५.०१
विश्वास-प्रस्तुतिः
अथातो रात्रिसूक्तानां विधिम् अनुक्रमिष्यामः ॥

०५.०२
विश्वास-प्रस्तुतिः
शुचिः शुक्लवासाः पुरोहितः ॥
मूलम्
शुचिः शुक्लवासाः पुरोहितः ॥
०५.०३
विश्वास-प्रस्तुतिः
पार्थिवस्य पश्चिमां सन्ध्याम् उपास्य दर्भैः पवित्रपाणी राजानम् अभिगम्य

०५.०४
विश्वास-प्रस्तुतिः
पिष्टमयीं रात्रिं कृत्वा ॥
मूलम्
पिष्टमयीं रात्रिं कृत्वा ॥
०५.०५
विश्वास-प्रस्तुतिः
अन्नपानधूपदीपैर् अर्चयित्वा माल्यैश् च ॥
मूलम्
अन्नपानधूपदीपैर् अर्चयित्वा माल्यैश् च ॥
०५.०६
विश्वास-प्रस्तुतिः
प्रज्वलितैश् चतुर्भिर् दीपकैर् अर्चयित्वा ॥
मूलम्
प्रज्वलितैश् चतुर्भिर् दीपकैर् अर्चयित्वा ॥
०५.०७
विश्वास-प्रस्तुतिः
आ रात्रि पार्थिवम् इषिरा योषेति सूक्तद्वयेन रात्रिम् उपस्थाय ॥

०५.०८
विश्वास-प्रस्तुतिः
त्रायमाणे विश्वजिते अह्ने च त्वेति राजानं प्रदक्षिणं त्रिः कृत्वा

०५.०९
विश्वास-प्रस्तुतिः
राजवेश्मनि द्वारे विसर्जयित्वा ॥
मूलम्
राजवेश्मनि द्वारे विसर्जयित्वा ॥
०५.१०
विश्वास-प्रस्तुतिः
न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठधूपं दद्याद्

०५.११
विश्वास-प्रस्तुतिः
यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
मूलम्
यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
०५.१२
विश्वास-प्रस्तुतिः
त्र्यायुषम् इति राज्ञे रक्षां कृत्वा ॥
मूलम्
त्र्यायुषम् इति राज्ञे रक्षां कृत्वा ॥
०५.१३
विश्वास-प्रस्तुतिः
असपत्नम् इति शर्कराम् अभिमन्त्र्याङ्गुष्ठात् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥

०५.१४
विश्वास-प्रस्तुतिः
शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥

०५.१५
विश्वास-प्रस्तुतिः
भूतिना रक्षां कृत्वा निष्क्रम्य
मूलम्
भूतिना रक्षां कृत्वा निष्क्रम्य
०५.१६
विश्वास-प्रस्तुतिः
एवमेवम् अहरहः कुर्यात् ॥
मूलम्
एवमेवम् अहरहः कुर्यात् ॥
०६.०१
विश्वास-प्रस्तुतिः
यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्य् अपि तद् राष्ट्रं वर्धते निरुपद्रवम् ॥

०६.०२
विश्वास-प्रस्तुतिः
यस्य राज्ञो जनपदे स नास्ति विविधैर् भयैः । पीड्यते तस्य तद् राष्ट्रं पङ्के गौर् इव मज्जति ॥

०६.०३
विश्वास-प्रस्तुतिः
तस्माद् राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसम्मानसत्कारैर् नित्यं समभिपूजयेत् ॥

०६.०४
विश्वास-प्रस्तुतिः
नित्यं च कारयेच् छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥

०६.०५
विश्वास-प्रस्तुतिः
चतुस्पथेषु गोष्ठेषु तीर्थेष्व् अप्सु च कारयेत् । गोतर्पणं च विधिवत् सर्वदोषविनाशनम् ॥

०६.०६
विश्वास-प्रस्तुतिः
य एवं कारयेद् राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखम् आपनोति कृत्स्नां भुङ्क्ते वसुन्धराम् ॥

इति पुरोहितकर्माणि समाप्तानि ॥