०१.०१
विश्वास-प्रस्तुतिः
ओम् अथ राजप्रथमाभिषेके प्रकृतिद्रव्याणि परीक्षेत ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
तद् यथा ॥
मूलम्
तद् यथा ॥
०१.०३
विश्वास-प्रस्तुतिः
रथसिंहासनासिछत्त्रचामरध्वजगजवाजिवस्त्रालङ्कारसांवत्सरचिकित्सकपुरोहितादीन्य्

०१.०४
विश्वास-प्रस्तुतिः
उपयुक्तानि नोपयोजयेत् ॥
मूलम्
उपयुक्तानि नोपयोजयेत् ॥
०१.०५
विश्वास-प्रस्तुतिः
श्मशानानलदेवतानि निहितानि द्रव्याणीत्य्
मूलम्
श्मशानानलदेवतानि निहितानि द्रव्याणीत्य्
०१.०६
विश्वास-प्रस्तुतिः
आचार्यपुरोहितवज्रमुखत इत्य् आह दुर्मतिः स भारद्वाजो

०१.०७
विश्वास-प्रस्तुतिः
न ह्य् अग्नेर् इवोपयुक्तस्योपयोगो विद्यत इति पराशरो

०१.०८
विश्वास-प्रस्तुतिः
ब्रह्मा ब्रह्माण्डाग्निर् इवाप्रमेयो
मूलम्
ब्रह्मा ब्रह्माण्डाग्निर् इवाप्रमेयो
०१.०९
विश्वास-प्रस्तुतिः
नान्यकुलोपयुक्तो
मूलम्
नान्यकुलोपयुक्तो
०१.१०
विश्वास-प्रस्तुतिः
यस्यान्यकुलोपयुक्तः पुरोधाः शान्तिकपौष्टिकप्रायश्चित्तीयाभिचारिकनैमित्तिकोर्ध्वदेहिकान्य् अथर्वविहितानि कर्माणि कुर्यात् स तस्य प्रत्यङ्गिरो भूत्वा हस्त्यश्वरथपदातिकं प्रकृतिमुखेभ्यो ॥।

०१.११
विश्वास-प्रस्तुतिः
वरिष्यन् न पुनः कुर्याद् अन्यं राजा पुरोहितम् । निर्माल्यम् इव तं राजा नान्यो भूयः समाचरेत् ॥

०१.१२
विश्वास-प्रस्तुतिः
स्वजस्रं ह्य् अग्नौ हेतुर् भगवतो व्याधितपतितोन्मत्ताभिशस्तप्रहीणप्रध्वस्तसम्प्रसारणम् ऋत्विक् ॥

०१.१३
विश्वास-प्रस्तुतिः
तस्मात् कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचाचारयुक्तम् अलोलुपं व्रतनियमचारित्रवृत्तलक्षनगुणसम्पन्नं सन्धिविग्रहचिन्तकं माहेन्द्रजालप्रभृतिकर्मादिष्व् अभिविदकं जितस्थानासनं हिमातपवर्षसहं ह्रीधृतिकम् आर्जवं शमदमदयादानशक्तिसम्पन्नं बृहस्पत्युशनसोः स्थानाकृतिप्रमाणं वर्णाश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणीयाद् भूपतिर् इति ॥

०१.१४
विश्वास-प्रस्तुतिः
मधुपर्काद्येन विधिना यथार्थं सम्पाद्य दक्षिणां दद्यात्

०१.१५
विश्वास-प्रस्तुतिः
कोटिमध्यात् तृतीयं भागम्
मूलम्
कोटिमध्यात् तृतीयं भागम्
०१.१६
विश्वास-प्रस्तुतिः
यथाभूमिप्रमाणेन वा
मूलम्
यथाभूमिप्रमाणेन वा
०१.१७
विश्वास-प्रस्तुतिः
हस्त्यश्वं नरयानं दिव्यम् आभरणम् आतपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं च गुरवे दद्याद्

०१.१८
विश्वास-प्रस्तुतिः
येन वा परितुष्येत ॥
मूलम्
येन वा परितुष्येत ॥
०१.१९
विश्वास-प्रस्तुतिः
अभिषेकः संहिताविधौ व्याख्यातः ॥
मूलम्
अभिषेकः संहिताविधौ व्याख्यातः ॥
०२.०१
विश्वास-प्रस्तुतिः
हस्त्यश्वं गुरवे दद्यान् नरयानं तथैव च । दिव्यम् आभरणं चैव आतपत्रादिम् एव च ॥

०२.०२
विश्वास-प्रस्तुतिः
उच्छिष्टार्थं न गृह्णीयान् मङ्गलार्थं महीपतिः । मन्त्रौषध्यो न सिध्यन्ति राजा तत्र विनश्यति ॥

०२.०३
विश्वास-प्रस्तुतिः
नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्व चित् कुर्यात् पुरोहितम् ॥

०२.०४
विश्वास-प्रस्तुतिः
हीनाधिकाङ्गं पतितं विवर्णं स्तेनं जडं क्लीबम् अशक्तियुक्तम् । भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् ॥

०२.०५
विश्वास-प्रस्तुतिः
हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेने त्व् अशक्ते च समस्तदोषाः क्लीबे विवर्णे नृपतिर् विनश्येत् ॥

०३.०१
विश्वास-प्रस्तुतिः
भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिम् आहुः । विवर्णनेत्रे पतिते तु पुत्रान् अध्वर्युणा च निहन्ति पौत्रान् ॥

०३.०२
विश्वास-प्रस्तुतिः
कृष्णे कोशक्षयं विद्याद् रक्ते वाहनसङ्क्षयः । पिङ्गलः पार्थिवं हन्याद् राष्ट्रं हन्यात् तु केकरः ॥

०३.०३
विश्वास-प्रस्तुतिः
बह्वृचं हि नियुञ्ज्याद् यः पौरोहित्ये तु पार्थिवः । स तारपङ्के हस्तीव सह तेनैव मज्जति ॥

०३.०४
विश्वास-प्रस्तुतिः
अध्वर्युं हि नियुञ्ज्याद् यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुर् इवाश्मानम् आदत्ते स्ववधाय सः ॥

०३.०५
विश्वास-प्रस्तुतिः
वधबन्धपरिक्लेशं कोशवाहनसङ्क्षयः । करोत्य् एतान्वये ऽवस्थास् तपोयुक्तो ऽपि सामगः ॥

०३.०६
विश्वास-प्रस्तुतिः
अन्वयाकृतिसम्पन्नं तस्माद् भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात् पुरोहितम् ॥

०३.०७
विश्वास-प्रस्तुतिः
मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु । य उत्पातास् त्रिविधा घोररूपास् तान् सर्वान् शमयेद् ब्रह्मवेदवित् ॥

०३.०८
विश्वास-प्रस्तुतिः
तस्माद् गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान् नरेन्द्रः प्रियदर्शनं च ॥ प्रियदर्शनं चेति ॥

इति राजप्रथमाभिषेकः समाप्तः ॥