०१.०१
विश्वास-प्रस्तुतिः
ओम् । ब्रह्मणे ब्रह्मवेदाय रुद्राय परमेष्ठिने । नमस्कृत्य प्रवक्ष्यामि शेषम् आथर्वणं विधिम् ॥
मूलम्

०१.०२
विश्वास-प्रस्तुतिः
दैवं प्रभवते श्रेष्ठं हेतुमात्रं तु पौरुषम् । दैवेन तु सुगुप्तेन शक्तो जेतुं वसुन्धराम् ॥

०१.०३
विश्वास-प्रस्तुतिः
दैवात् पुरुषकाराच् च दैवम् एव विशिष्यते । तस्माद् दैवं विशेषेण पूजयेत् तु महीपतिः ॥

०१.०४
विश्वास-प्रस्तुतिः
दैवकर्मविदौ तस्मात् सांवत्सरपुरोहितौ । गृह्णीयात् सततं राजा दानसम्मानरञ्जनैः ॥

०१.०५
विश्वास-प्रस्तुतिः
अपिता तु यथा बालस् तथासांवत्सरो नृपः । अमातृको यथा बालस् तथाथर्वविवर्जितः ॥ अरिमध्ये यथैकाकी तथा वैद्यविवर्जितः ॥

०१.०६
विश्वास-प्रस्तुतिः
धर्मेण पृथिवीं कृत्स्नां विजयिष्यन् महीपतिः । विद्यालक्षणसम्पन्नं भार्गवं वरयेद् गुरुम् ॥

०१.०७
विश्वास-प्रस्तुतिः
चतुर्विधस्य कर्मणो वेदतत्त्वेन निश्चयम् । प्रजापतिर् अथैको हि न वेदत्रयम् ईक्षते ॥

०२.०१
विश्वास-प्रस्तुतिः
अथर्वभिन्नं यच् छान्तं तच् छान्तं नेतरैस् त्रिभिः । विज्ञानं त्रिषु लोकेषु जायते ब्रह्मवेदतः ॥

०२.०२
विश्वास-प्रस्तुतिः
अथर्वा सृजते घोरम् अद्भुतं शमयेत् तथा । अथर्वा रक्षते यज्ञं यज्ञस्य पतिर् अङ्गिराः ॥

०२.०३
विश्वास-प्रस्तुतिः
दिव्यान्तरिक्षभौमानाम् उत्पातानाम् अनेकधा । शमयिता ब्रह्मवेदज्ञस् तस्माद् रक्षिता भृगुः ॥

०२.०४
विश्वास-प्रस्तुतिः
ब्रह्मा शमयेन् नाध्वर्युर् न छन्दोगो न बह्वृचः । रक्षांसि रक्षति ब्रह्मा ब्रह्मा तस्माद् अथर्ववित् ॥

०२.०५
विश्वास-प्रस्तुतिः
सेनाया रक्षणे तस्मात् स्वराष्ट्रपरिवृद्धये । शान्त्यर्थं च महीपालो वृणुयाद् भार्गवं गुरुम् ॥

०३.०१
विश्वास-प्रस्तुतिः
गुरवे पार्थिवो दद्यात् कोतिं वरणदक्षिणाम् । अर्धमर्धं महीभागं तृतीयं तु त्रिभागतः ॥

०३.०२
विश्वास-प्रस्तुतिः
एवं भूमिप्रमाणेन कोटिभागं विनिर्दिशेत् । येन वा परितुष्येत गुरुस् तत् पार्थिवश् चरेत् ॥

०३.०३
विश्वास-प्रस्तुतिः
घ्नन्ति दैवोपसर्गाश् च न च देवो ऽभिवर्षति । वीरास् तत्र न सूयन्ते यद् राष्ट्रम् अपुरोहितम् ॥

०३.०४
विश्वास-प्रस्तुतिः
न हविः प्रतिगृह्णन्ति देवताः पितरो द्विजाः । तस्य भूमिपतेर् यस्य गृहे नाथर्वविद् गुरुः ॥

०३.०५
विश्वास-प्रस्तुतिः
समाहिताङ्गप्रत्यङ्गं विद्याचारगुणान्वितम् । पैप्पलादं गुरुं कुर्याच् छ्रीराष्ट्रारोग्यवर्धनम् ॥

०४.०१
विश्वास-प्रस्तुतिः
तथा शौनकिनं वापि वेदमन्त्रविपश्चितम् । राष्ट्रस्य वृद्धिकर्तारं धनधान्यादिभिः सदा ॥

०४.०२
विश्वास-प्रस्तुतिः
आथर्वणाद् ऋते नान्यो नियोज्यो ऽथर्वविद् गुरुः । नृपेण जयकामेन निर्मितो ऽग्निर् इवाध्वरे ॥

०४.०३
विश्वास-प्रस्तुतिः
बह्वृचो हन्ति वै राष्ट्रम् अध्वर्युर् नाशयेत् सुतान् । छन्दोगो धननाशाय तस्माद् आथर्वणो गुरुः ॥

०४.०४
विश्वास-प्रस्तुतिः
अज्ञानाद् वा प्रमादाद् वा यस्य स्याद् बह्वृचो गुरुः । देशराष्ट्रपुरामात्यनाशस् तस्य न संशयः ॥

०४.०५
विश्वास-प्रस्तुतिः
यदि वाध्वर्यवं राजा नियुनक्ति पुरोहितम् । शस्त्रेण वध्यते क्षिप्रं परिक्षीणार्थवाहनः ॥

०५.०१
विश्वास-प्रस्तुतिः
यथैव पङ्गुर् अध्वानम् अपक्षी चाण्डजो नभः । एवं छन्दोगगुरुणा राजा वृद्धिं न गच्छति ॥

०५.०२
विश्वास-प्रस्तुतिः
पुरोधा जलदो यस्य मौदो वा स्यात् कदा चन । अब्दाद् दशभ्यो मासेभ्यो राष्ट्रभ्रंशं स गच्छति ॥

०५.०३
विश्वास-प्रस्तुतिः
पलालकम् इदं सर्वम् ऋग्यजुःसामसंस्थितम् । सारं सारपरं धान्यम् अथर्वाङ्गिरसो विदुः ॥

०५.०४
विश्वास-प्रस्तुतिः
त्रयो लोकास् त्रयो देवास् त्रयो वेदास् त्रयो ऽग्नयः । अर्धमात्रे लयं यान्ति वेदश् चाथर्वणः स्मृतः ॥

०५.०५
विश्वास-प्रस्तुतिः
न तिथिर् न च नक्षत्रं न ग्रहो न च चन्द्रमाः । अथर्वमन्त्रसम्प्राप्त्या सर्वसिद्धिर् भविष्यति ॥

०६.०१
विश्वास-प्रस्तुतिः
गुरुणा पैप्पलादेन वेदमन्त्रविपश्चिता । वर्धते धनधान्येन राष्ट्रम् एवं न संशयः ॥

०६.०२
विश्वास-प्रस्तुतिः
स्तब्धं नृशंसं प्रमत्तं श्रद्धाहीनम् अशास्त्रगम् । भूमिकामो न याचेत दातारम् अपि पार्थिवम् ॥

०६.०३
विश्वास-प्रस्तुतिः
सहस्राणां शतं जप्त्वा गायत्र्यायाज्ययाजकः । पूयते भ्रूणहाप्य् एवं चाण्डालान्नाद एव च ॥

०६.०४
विश्वास-प्रस्तुतिः
सर्वद्रव्यपरित्यागाच् छुद्धिर् अन्यैर् उदाहृता । अन्यैश् चतुर्णां वेदानाम् अधीत्याद्योत्तमा ऋचः ॥

०६.०५
विश्वास-प्रस्तुतिः
यजनाद् अभिचाराद् वा क्व चिद् वा मन्त्रकर्मणि । पूतान् एव द्विजान् प्राहुर् अग्निकाञ्चनवर्चस इति ॥

इति राष्ट्रसंवर्गः समाप्तः ॥