०१ नक्षत्रकल्पः

०१.०१

विश्वास-प्रस्तुतिः

अथ नक्षत्रकल्पं व्याख्यास्यामः ॥

मूलम्

अथ नक्षत्रकल्पं व्याख्यास्यामः ॥

०१.०२

विश्वास-प्रस्तुतिः

कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघा(ः) फाल्गुनी फल्गुन्यौ हस्त(श्) चित्रा स्वाति(र्) विशाखे अनुराधा ज्येष्ठा मूल(म्) पूर्वाषाढा उत्तराषाडाभिजिच् छ्रवणः श्रविष्ठा शतभिषः पूर्वप्रोष्ठपदोत्तरप्रोष्ठपदौ रेवत्य् अश्वयुजौ भरण्यः ॥

०२.०१

विश्वास-प्रस्तुतिः

षट् कृत्तिका एका रोहिणी तिस्रो मृगशिर एकार्द्रा द्वे पुनर्वसू एकः पुष्यः षड् आश्लेषाः षण् मघाः चतस्रः फल्गुन्यः पञ्च हस्त एका चित्रा एका स्वातिर् द्वे विशाखे चतस्रो ऽनुराधा एका ज्येष्ठा सप्त मूलम् अष्टाव् अषाढा एको ऽभिजित् तिस्रः श्रवणः पञ्च श्रविष्ठा एका शतभिषा चतस्रः प्रोष्ठपदौ एका रेवती द्वे अश्वयुजौ तिस्रो भरण्यः ॥

०२.०२

विश्वास-प्रस्तुतिः

इति सङ्ख्यापरिमितं ब्रह्म ॥

मूलम्

इति सङ्ख्यापरिमितं ब्रह्म ॥

०३.०१

विश्वास-प्रस्तुतिः

आग्निवेश्यः कृत्तिका रोहिण्य् आनुरोहिणी श्वेतायिनं मृगशिर आर्द्रा बार्हद्गवी वात्स्यायनौ पुनर्वसू भारद्वाजः पुष्यो जातूकर्ण्यो ऽश्लेषा वैयाघ्रपद्यो मघा(ः) पाराशर्यौ पूर्वे फाल्गुण्याव् औपशिव्या उत्तरे माण्डव्यायनो हस्तश् चित्रा गौतमी कौण्डिन्यायनः स्वातिः कापिले विशाखे मैत्रेय्य् अनुराधा कौशिकी ज्येष्ठा कौत्सं मूलं हारितयज्ञी पूर्वाषाढा काश्यप्य् उत्तरा शौनको ऽभिजिद् आत्रेयः श्रवणो गार्ग्यः श्रविष्ठा दाक्षायणी शतभिषग् वात्स्यायन्यौ पूर्वे प्रोष्ठपदे आगस्त्याव् उत्तरे शाङ्खायनी रेवती कात्यायन्(य्)आव् अश्वयुजौ मातृभ्यो भरण्यः वसिष्ठः कश्यप आदित्यश् चन्द्रमा ब्रह्माणो नक्षत्रेषु ॥

०४.०१

विश्वास-प्रस्तुतिः

कृत्तिका अग्निदेवत्या रोहिण्यां तु प्रजापतिः । सौम्यं मृगशिरं विद्यान् मरुतश् चात्र दैवतम् ॥

०४.०२

विश्वास-प्रस्तुतिः

रुद्रस्यार्द्रादितेः पुनर्वसू पुष्ये विद्याद् बृहस्पतिम् । अश्लेषा[[ः]] सर्पदैवत्या मघासु पितरः स्मृताः ॥

०४.०३

विश्वास-प्रस्तुतिः

भगस् [तु] पूर्वयोः फल्गुन्योर् अर्यमोत्तरयोर् अपि । हस्ते च सविता दैवं चित्रा तु त्वष्टृदैवता ॥

०४.०४

विश्वास-प्रस्तुतिः

स्वातौ तु दैवतं वायुर् इन्द्राग्नी तु विशाखयोः । अनुराधासु मित्रो वै ज्येष्ठायाम् इन्द्रमहादेवौ ॥

०४.०५

विश्वास-प्रस्तुतिः

अहिर् बुध्न्यश् च मूलस्य निरृतिश् चात्र दैवतम् । आपः पूर्वास्व् अषाढासु विश्वे देवास् तथोत्तरे ॥

०४.०६

विश्वास-प्रस्तुतिः

अभिजिद् ब्रह्मदेवत्यः श्रवणे विष्णुर् उच्यते । श्रविष्ठा वसुदेवत्या शतभिषग् वरुणेन्द्रयोः ॥

०४.०७

विश्वास-प्रस्तुतिः

अज एकपाद् दिशश् च आदित्यश् च तथोत्तरे । रेवती पूषदैवत्या अश्विन्याम् अश्विनौ स्मृतौ ॥

०४.०८

विश्वास-प्रस्तुतिः

भरण्यो यमदेवत्या देवताः सम्प्रकीर्तिताः ॥

मूलम्

भरण्यो यमदेवत्या देवताः सम्प्रकीर्तिताः ॥

०५.०१

विश्वास-प्रस्तुतिः

कृत्तिका मघा मूलं [[च तथा]] पूर्वाणि द्वन्द्विनाम् । एतानि पुरस्ताद्भागान्य् अहःपूर्वाणि जानीयात् ॥

०५.०२

विश्वास-प्रस्तुतिः

आर्द्रां शतभिषजं स्वातिम् आश्लेषा भरणीर् अपि । नक्तम्भागानि ब्रुवते ज्येष्ठया सह ब्रह्माणम् ॥

०५.०३

विश्वास-प्रस्तुतिः

पुनर्वसू विशाखे च उत्तराणि च द्वन्द्विनाम् । रात्रीम् उभयतः पक्षौ भजन्ते या च रोहिणी ॥

०५.०४

विश्वास-प्रस्तुतिः

मृगशिरः पुष्यो हस्तश् चित्रा तु सहानुराधैः । श्रवणश् च श्रविष्ठाश् च रेवत्य् अश्वयुजौ नव ॥

०५.०५

विश्वास-प्रस्तुतिः

एतान्य् उपरिष्टाद्भागानि रात्रीपूर्वाणि जानीयात् । मुहूर्तो ऽभिजिद् उच्यते ॥

०५.०६

विश्वास-प्रस्तुतिः

पुरस्ताद्भागान्य् अनागतेनोपरिष्टाद्भागान्य् अतिक्रान्तेन उभयतोभागानि वर्तमाने[[न]] नक्तम्भागानि समं चन्द्रेण वा ॥

०५.०७

विश्वास-प्रस्तुतिः

[[षड् अ]]नागतयोगीनि स्थितयोगीनि द्वादश । नवातिक्रान्तयोगीनि तथा योगः प्रदृश्यते ॥

०६.०१

विश्वास-प्रस्तुतिः

बहूनि जातानि ग्रहो हिनस्ति कृत्तिकासु तिष्ठन्न् उत दीर्घम् आयुः । अजावयो मूषिकाश् च व्यथन्ते विशो ब्रह्मणः सह म्लेच्छवांश् च ॥

०६.०२

विश्वास-प्रस्तुतिः

कलिङ्गानां व्यथते ननु राजा हिरण्यकारांश् च निहन्ति कृत्स्नम् । अयस्कारा लोहकारा आहिताग्निश् च कृत्स्नं नियन्ति सहाग्नितप्तैः ॥

०६.०३

विश्वास-प्रस्तुतिः

अयो लोहं रजतं जातरूपं हिरण्यमिश्रं [यच्] च पतन्ति सारम् । काशाः कुशा यच् च सुवर्णवर्णं यच् चाग्निवर्णं फलमूलपुष्पम् ॥

०६.०४

विश्वास-प्रस्तुतिः

[ये तत्र जाताः] सरांसि शुष्यन्त्य् अपयन्ति नद्यः प्रजा व्यथन्ते पशवो मृगाश् च ॥ प्रजापतेर् हृदये पीड्यमाने सर्वं जगद् व्यथते सप्रदेशम् ॥

०६.०५

विश्वास-प्रस्तुतिः

महाभौमो राजा मरिष्यतीति विद्याद् एकारिणां छवकाम् इन्वकासु । नक्षत्रभागे नियन्ति योजधानाः तथा हि नूनं त्रिणवेन सृष्टम् ॥

०६.०६

विश्वास-प्रस्तुतिः

तथा स निन्ये निधानदर्शनाय तत्र तेषां सहाक्षेमं तस्य विद्यात् । परित्य ये पूर्वपदान् बलेन उत्तिष्ठन्ति वीर्यवन्तो मृगानाम् ॥

०६.०७

विश्वास-प्रस्तुतिः

भगेन देव्य् उपयन्ति दिव्यम् आर्द्राभागे सहिनो भवन्ति । तत्र दैवान् मानुष्यांश् च पुनर्वस्वोर् नक्षत्र भागे निनियोज धानाः ॥

०६.०८

विश्वास-प्रस्तुतिः

तथा हि नूनं पुष्यो भाग एकधा ब्राह्मणानां तथा विदुर् नक्षत्रवेदितारः तथा हि नूनम् ॥

०६.०९

विश्वास-प्रस्तुतिः

शतद्रयः कैशिका दक्षिणार्धा आन्ध्राश् च योगहासया प्रवृद्धाः ॥ अश्लेषाभागे सहिनो भवन्ति तत्र ॥

०६.१०

विश्वास-प्रस्तुतिः

वेणून् पितॄंस् त्रिरुजाहुर् देवताम् । मघाभागे अष्टमे देवसृष्टम् । संयुज्यन्ते देवप्रसादनेन तत्र ॥

०७.१

विश्वास-प्रस्तुतिः

राज्ञां राकायाम् अथ मद्रकैकया मनोमापायनसहपरिसुन्नियोजसहान्तौ । तुन्यम् अथ सप्तमात्रं पूर्वभागे नवके फल्गुनीषु ॥

०७.२

विश्वास-प्रस्तुतिः

मत्स्या मागधाश् चेदयश् च शाल्वा मत्स्या उभे फल्गुनीषु । संयुज्यन्ते देवप्रसादनेन तत्र ॥

०७.३

विश्वास-प्रस्तुतिः

पूर्वाचार्या इच्छमानाश् च सर्वे यकृत् क्लोम सह भागेन हस्ते । संयुज्यन्ते देवप्रसादनेन तत्र ॥

०७.४

विश्वास-प्रस्तुतिः

ये पूर्वार्धे निजीहते चरन्तः शान्ता मृगा [जन्तु]पशवो अपगामिनस् ते । पशवो भवताश् च सर्वे चित्राया भागे सहिनो भवन्ति ॥ तत्रा-

०७.५

विश्वास-प्रस्तुतिः

-च्युतकेशं वाहनं जयार्थं कुमार्यो अनड्वान् सहते अत्र ये । विज्ञायते देवसृष्टं पुराणं स्वातिं भजन्ते तृणवश् च सर्वे ॥

०७.६

विश्वास-प्रस्तुतिः

वृक्षा वृक्षमूलम् इक्ष्वाकवश् च विशाखायां योजिताः साम्पदेन । तस्मिन् गृहीते भयम् एव तेषां दैवोपसृष्टे तु बलेन कार्यम् ॥ ये तत्र जाताः ॥

०७.७

विश्वास-प्रस्तुतिः

ये पश्चार्धे निजीहते चरन्त आसवो मृगा उत्तरार्धाश् चान्ध्राः । अनूराधासु मगधवङ्गमत्स्याः सर्वे समग्राः सहिनो भवन्ति तत्र ॥

०७.८

विश्वास-प्रस्तुतिः

पञ्चैकधा जनपदा भवन्ति सयुजःकासौबलदादौष्यधाः । बाह्लीका ज्येष्ठा उपयन्ति भक्त्या तत्र ॥

०७.९

विश्वास-प्रस्तुतिः

इक्ष्वाकूणां निर्मथ्या मूलम् आहुः । तथा विदुर् नक्षत्रवेदितारस् तथा हि नूनम्

०७.१०

विश्वास-प्रस्तुतिः

काम्बोजाः कालमृषाश् च क्रन्दा उच्छुष्माणः श्वानश् चावधूममर्कटाश् च पूर्वाषाढा उपयन्ति भक्त्या तत्र ॥

०८.१

विश्वास-प्रस्तुतिः

विश्वे देवाः सह पञ्चालज्येष्ठा आपश् च याः पान्तु भूतं भविष्यत् । उत्तराषाढा उपयन्ति भक्त्या तत्र ॥

०८.२

विश्वास-प्रस्तुतिः

नार्कविन्दा नार्व्विदाला नसृङ्गावौ नैषधा जन्तवो मतङ्गाः । अभिजितं हार्थविज्ञाय भेजिरे तत्र ॥

०८.३

विश्वास-प्रस्तुतिः

पाञ्चालाः श्रवणम् उपैति भक्त्या सुन्वन्तश् चोभे विद्वान् भूता निनियोज देवः ॥ पूर्वकर्ता भूतभविष्यकालस् तथा नि नूनम्

०८.४

विश्वास-प्रस्तुतिः

कुरून् श्रविष्ठास् तथा शिवास् तथाहुर् नक्षत्रभागे निनियोज धानाः ॥ तथा हि नूनम्

०८.५

विश्वास-प्रस्तुतिः

अङ्गादयो जनपदा गुहाशया अप्सु च ये क्षिपन्ति शतभिषजि भेषजस्य भेजिरे तत्र ॥

०८.६

विश्वास-प्रस्तुतिः

खड्गा हस्तिनो गवया वराहा अहीनरा कुन्तयश् चापि सर्वे । पूर्वौ प्रोष्ठपदा उपयन्ति भक्त्या तत्र ॥

०८.७

विश्वास-प्रस्तुतिः

उशीनरा उत्तरयोः प्रोष्ठपदयोर् नक्षत्रभागे निनियोज धानाः । तथा हि नूनम्

०८.८

विश्वास-प्रस्तुतिः

आवृताः शूद्राः सह कारवश् च दक्षिणपूर्वे यूकभिः सह रेवतीं हार्थविज्ञाय भेजिरे तत्र ॥

०८.९

विश्वास-प्रस्तुतिः

अच्युतकेशं वाहनं च पदार्थम् उचावचजनपदा महान्तः । अश्वयुजौ हार्थविज्ञाय भेजिरे तत्र ॥

०८.१०

विश्वास-प्रस्तुतिः

उभये कीकटाः कौशलाश् च रहश् च[वो] ये च प्रसुप्ताश् चरन्ति भरणीः सहार्थविज्ञाय भेजिरे तत्र तेषां सहाक्षयम् अस्य विद्यात् ॥

०९.१

विश्वास-प्रस्तुतिः

करिष्यमाणः सङ्ग्रामं प्रतिराजेन क्षत्रियः । ब्राह्मणं पूर्वम् अन्विच्छेद् विद्वांसं शास्त्रवित्तमम् ॥

०९.२

विश्वास-प्रस्तुतिः

उत्पातान् यस् तु यान् विद्याद् दिव्यान्तरिक्षपार्थिवान् । तं वै लिप्सितुम् अर्हति राजा राष्ट्रे जिजीविषुः ॥

०९.३

विश्वास-प्रस्तुतिः

ग्रहाणां यः स्थितिं विद्यान् नक्षत्राणां च साम्पदम् । अनभ्यक्तम् उपासीत नक्षत्रसमतां च यत् ॥

०९.४

विश्वास-प्रस्तुतिः

आयुधीयान् बिभ्रद् राजा कृत्तिकासु न रिष्यति । तद् धि तेजस्वि नक्षत्रं बहुलं दिवि रोचते ॥

०९.५

विश्वास-प्रस्तुतिः

अथो हि कृत्तिका इति नक्षत्रं भानुमत्तमम् । आग्नेयम् अग्निनक्षत्रं राजा ह्य् अस्मिन् प्रवर्धते ॥

०९.६

विश्वास-प्रस्तुतिः

रोहिण्या[ं] सार्धम् आसीत रज्जुपल्यानि कारयेत् । मृगशिरस्य् अश्वान् बिभृयात् सास्य सेना न रिष्यति ॥

०९.७

विश्वास-प्रस्तुतिः

सौम्यं सोमस्य नक्षत्रं राजा ह्य् अस्मिन् प्रवर्धते । आर्द्रायां मृगयां यायाद् अमित्रेभ्यश् च हावयेत् ॥

०९.८

विश्वास-प्रस्तुतिः

पुनर्वस्वाभियुञ्जीत पुष्येनैतां प्रयोजयेत् । इषीकां छेदयन् राजा अश्लेषासु न रिष्यति ॥

०९.९

विश्वास-प्रस्तुतिः

मघाभिः सार्धम् आसीत न यायाद् उच्छ्रयं चन । फल्गु द्वाराणि कारयेत् परिचारांश् च वाहयेत् ॥

०९.१०

विश्वास-प्रस्तुतिः

तोरणानि च संहन्युः फलकानि च तक्षयेत् । ॥॥। उत्तराभ्यां च हावयेत् ॥

१०.१

विश्वास-प्रस्तुतिः

हस्तेन चित्राम् आकाङ्क्षेन् नक्षत्रस्य परिग्रहम् । अनेकदर्शी स्याच् चित्रायां पुरा स्वातेर् अभिप्लवात् ॥

१०.२

विश्वास-प्रस्तुतिः

स्वातौ शिशून् नियोजयेज् जवार्थान् रथवाहिनः । अथास्मिन् [कन्याम्] उपवासयेत् क्षिप्रं सा लभते पतिम् ॥

१०.३

विश्वास-प्रस्तुतिः

प्रदतीन् कारयन् राजा विशाखायां न रिष्यति । लेपयेत् प्रदती राजा अनूराधासु क्षत्रियः ॥

१०.४

विश्वास-प्रस्तुतिः

ज्येष्ठायां हस्तिनं पश्येद् अभिषेकांश् च कारयेत् । ॥॥। राजपुत्रांश् च योधयेत् ॥

१०.५

विश्वास-प्रस्तुतिः

मूलेन परिखां खानयेत् पुरं चितेन योजयेत् । नैरृतं राजनक्षत्रं वध्यान् अनेन घातयेत् ॥

१०.६

विश्वास-प्रस्तुतिः

त्रिरात्रं सार्धं दीक्षयित्वा आषाढासु व्रतं चरेत् । अभिजित्य् अभियुञ्जीत श्रवणेन चिकीर्षतु ॥

१०.७

विश्वास-प्रस्तुतिः

श्रविष्थाभिः सृजेद् रसान् ॥

मूलम्

श्रविष्थाभिः सृजेद् रसान् ॥

१०.८

विश्वास-प्रस्तुतिः

शतभिषजि भिषक्कर्म भैषज्यं चात्र कारयेत् । प्राचीनप्रोष्ठपदयोर् यायाद् ॥।

१०.९

विश्वास-प्रस्तुतिः

उत्तराभ्याम् अभियुञ्जीत गृहेषु रेवत्यां वसेत् । वि सेनां कारयेद् राजा अश्विन्यां भरणीषु च ॥

११.१

विश्वास-प्रस्तुतिः

चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिम् इच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥

११.२

विश्वास-प्रस्तुतिः

सुहवम् अग्ने कृत्तिका रोहिणी चस्तु भद्रं मृगशिरः शम् आर्द्रा । पुनर्वसू सूनृता चारु पुष्यो भानुर् आश्लेषा अयनं मघा मे ॥

११.३

विश्वास-प्रस्तुतिः

पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश् चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखे सुहवा अनुराधा ज्येष्ठा सुनक्षत्रम् अरिष्टमूलम् ॥

११.४

विश्वास-प्रस्तुतिः

अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देह्य् उत्तरा आ वहन्तु । अभिजिन् मे रासतां पुण्यम् एव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥

११.५

विश्वास-प्रस्तुतिः

आ मे महच् छतभिसग् वरीय आमे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥

१२.१

विश्वास-प्रस्तुतिः

कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघाः पूर्वे फल्गुन्यौ तन् नवमम् अग्निर् दशमम् अहोरात्रे एदादशद्वादशे ॥

१२.२

विश्वास-प्रस्तुतिः

एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धत इति वेद

१२.३

विश्वास-प्रस्तुतिः

अथ यं कामयत्य् एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धीरन्न् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात्

१२.४

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधाय [[परिसमुह्य पर्युक्ष्य]] परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाच् चित्राणि साकं दिवि रोचनानि स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

१२.५

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करोत्य् एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धते ॥

१३.१

विश्वास-प्रस्तुतिः

उत्तरे फल्गुन्यौ हस्त[[श्]] चित्रा स्वाति[[र्]] विशाखे अनूराधा ज्येष्ठा मूलं पूर्वाषाढा तन् नवमम् आदित्यो दशमं [नामरूप] पूर्वपक्षापरपक्षाव् एकादशद्वादशे

१३.२

विश्वास-प्रस्तुतिः

एतान्य् एवास्मै = १,१२।२।

मूलम्

एतान्य् एवास्मै = १,१२।२।

१३.३

विश्वास-प्रस्तुतिः

अथ यम् = १,१२।३।

मूलम्

अथ यम् = १,१२।३।

१३.४

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् = १,१२।४।

मूलम्

प्राञ्चम् इध्मम् = १,१२।४।

१३.५

विश्वास-प्रस्तुतिः

एवम् = १,१२।५।

मूलम्

एवम् = १,१२।५।

१४.१

विश्वास-प्रस्तुतिः

उत्तराषाढाभिजिच् छ्रवणः श्रविष्ठा शतभिषक् प्रोष्ठपदौ रेवत्य् अश्वयुजौ भरण्यस् तद् दशमम् ॥। पौर्णमास्यमावास्ये द्वादशत्रयोदशे

१४.२

विश्वास-प्रस्तुतिः

एतान्य् एवास्मै = १,१२।२।

मूलम्

एतान्य् एवास्मै = १,१२।२।

१४.३

विश्वास-प्रस्तुतिः

अथ यम् = १,१२।३।

मूलम्

अथ यम् = १,१२।३।

१४.४

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् = १,१२।४।

मूलम्

प्राञ्चम् इध्मम् = १,१२।४।

१४.५

विश्वास-प्रस्तुतिः

एवम् = १,१२।५।

मूलम्

एवम् = १,१२।५।

१५.१

विश्वास-प्रस्तुतिः

ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इतिहासपुराणं वाकोवाक्य[[म्]] इदावत्सरः परिवत्सरः संवत्सरो दशमं शीतोष्णे एकादशद्वादशे

१५.२

विश्वास-प्रस्तुतिः

एतान्य् एवास्मै = १,१२।२।

मूलम्

एतान्य् एवास्मै = १,१२।२।

१५.३

विश्वास-प्रस्तुतिः

अथ यम् = १,१२।३।

मूलम्

अथ यम् = १,१२।३।

१५.४

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् = १,१२।४।

मूलम्

प्राञ्चम् इध्मम् = १,१२।४।

१५.५

विश्वास-प्रस्तुतिः

एवम् = १,१२।५।

मूलम्

एवम् = १,१२।५।

१६.१

विश्वास-प्रस्तुतिः

प्राणो अपानो व्यानः समान उदानश् चक्षुः श्रोत्रं वाङ् मनस् तन् नवमम् ॥। दशमं नामरूपे एकादशद्वादशे

१६.२

विश्वास-प्रस्तुतिः

एतान्य् एवास्मै = १,१२।२।

मूलम्

एतान्य् एवास्मै = १,१२।२।

१६.३

विश्वास-प्रस्तुतिः

अथ यम् = १,१२।३।

मूलम्

अथ यम् = १,१२।३।

१६.४

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् = १,१२।४।

मूलम्

प्राञ्चम् इध्मम् = १,१२।४।

१६.५

विश्वास-प्रस्तुतिः

एवम् = १,१२।५।

मूलम्

एवम् = १,१२।५।

१७.१

विश्वास-प्रस्तुतिः

अजन्य् अजनिर् यशो अजनिर् वर्चो अजनिस् तेजो अजनिः सहो अजनिर् महो अजनिर् ब्रह्मा अजनिर् ब्राह्मणवर्चसम् अजनिः सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिर् भवतीति वेद

१७.२

विश्वास-प्रस्तुतिः

अथ यं कामयेत सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिः स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥

१७.३

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् = १,१२।४।

मूलम्

प्राञ्चम् इध्मम् = १,१२।४।

१७.४

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करोति सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिर् भवति ॥

१८.१

विश्वास-प्रस्तुतिः

विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वाह्ने अधि[[तिष्ठति वि]]तिष्ठत्य् अस्य पुण्या कीर्तिर् ऐनं पुण्या कीर्तिर् गच्छत्य् उपैनं पुण्या कीर्तिस् तिष्ठति नास्मात् पुण्या कीर्तिर् अपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद

१८.२

विश्वास-प्रस्तुतिः

अथ यं कामयेत वितिष्ठेद् अस्य पुण्या कीर्तिर् [[ऐनं पुण्या कीर्तिर्]] गच्छेद् उपैनं पुण्या कीर्तिस् तिष्ठेन् नास्मात् पुण्या कीर्तिर् अपक्रामेत् कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥

१८.३

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

१८.४

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करो[[ति वितिष्ठ]]त्य् अस्य पुण्या कीर्तिर् [[ऐनं पुण्या कीर्तिर्]] गच्छत्य् उपैनं पुण्या कीर्तिस् तिष्ठति नास्मात् पुण्या कीर्तिर् अपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् भवति ॥

१९.१

विश्वास-प्रस्तुतिः

वर्चो वै नामैतन् नक्षत्रं यन् मध्याह्नैनं वर्चो गच्छत्य् उपैनं वर्चस् तिष्ठति नास्माद् वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद

१९.२

विश्वास-प्रस्तुतिः

अथ यं कामयेतैनं वर्चो गच्छेद् उपैनं वर्चो तिष्ठेन् नास्माद् वर्चो अपक्रामेद् वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥

१९.३

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् वर्चो असि वर्चो मयि धेहि स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

१९.४

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करोत्य् ऐनं वर्चो गच्छत्य् उपैनं वर्चस् तिष्ठति नास्माद् वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवति ॥

२०.१

विश्वास-प्रस्तुतिः

तेजो वै नामैतन् नक्षत्रं यद् अपराह्णैनं तेजो गच्छत्य् उपैनं तेजस् तिष्ठति नास्मात् तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद

२०.२

विश्वास-प्रस्तुतिः

अथ यं कामयेतैनं तेजो गच्छेद् उपैनं तेजस् तिष्ठेन् नास्मात् तेजो अपक्रामेत् तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥

२०.३

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् तेजो असि तेजो मयि धेहि स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

२०.४

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करोत्य् ऐनं तेजो गच्छत्य् उपैनं तेजस् तिष्ठति नास्मात् तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवति ॥

२१.१

विश्वास-प्रस्तुतिः

विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वाह्ने ॥

२१.२

विश्वास-प्रस्तुतिः

वर्चो वै नामैतन् नक्षत्रं यन् मध्याह्ने ॥

२१.३

विश्वास-प्रस्तुतिः

तेजो वै नामैतन् नक्षत्रं यद् अपराह्णे ॥

मूलम्

तेजो वै नामैतन् नक्षत्रं यद् अपराह्णे ॥

२१.४

विश्वास-प्रस्तुतिः

अकाले त्व् एवाप्रयुक्तानि भवन्ति ॥

मूलम्

अकाले त्व् एवाप्रयुक्तानि भवन्ति ॥

२२.१

विश्वास-प्रस्तुतिः

विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वरात्रे ॥

२२.२

विश्वास-प्रस्तुतिः

वर्चो वै नामैतन् नक्षत्रं यद् मध्यरात्रे ॥

२२.३

विश्वास-प्रस्तुतिः

तेजो वै नामैतन् नक्षत्रं यद् अपररात्रे ॥

२२.४

विश्वास-प्रस्तुतिः

स्वेस्वे काले [[प्रयुक्तानि]] भवन्ति ॥

मूलम्

स्वेस्वे काले [[प्रयुक्तानि]] भवन्ति ॥

२२.५

विश्वास-प्रस्तुतिः

[[यो वै रात्रियान्व् एवाप्रयुक्तानि भवन्ति]] ॥

२३.१

विश्वास-प्रस्तुतिः

यो वै अह्नः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

२३.२

विश्वास-प्रस्तुतिः

सूर्यो वाह्नः पुण्याहं तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥

२३.३

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

मूलम्

प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

२३.४

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

२४.१

विश्वास-प्रस्तुतिः

यो वै रात्र्याः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

२४.२

विश्वास-प्रस्तुतिः

चन्द्रो वै रात्र्याः पुण्याहं तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥

२४.३

विश्वास-प्रस्तुतिः

प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् यद् राजानं स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

२४.४

विश्वास-प्रस्तुतिः

एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

मूलम्

एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

२५.१

विश्वास-प्रस्तुतिः

यो वा अहोरत्रयोः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

२५.२

विश्वास-प्रस्तुतिः

ब्राह्मणो वा अहोरात्रयोः पुण्याहम्

मूलम्

ब्राह्मणो वा अहोरात्रयोः पुण्याहम्

२५.३

विश्वास-प्रस्तुतिः

तं पृच्छेत् केनाजितेति

मूलम्

तं पृच्छेत् केनाजितेति

२५.४

विश्वास-प्रस्तुतिः

स चेद् ब्रूयात् कर्तव्यम् इति तथा कुर्यात्

मूलम्

स चेद् ब्रूयात् कर्तव्यम् इति तथा कुर्यात्

२५.५

विश्वास-प्रस्तुतिः

पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥

२६.१

विश्वास-प्रस्तुतिः

यानि नक्षत्राणि दिव्य् अन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश् चन्द्रमा यान्य् एति सर्वाणि ममैतानि शिवानि सन्तु ॥

२६.२

विश्वास-प्रस्तुतिः

अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये योगं च नमो ऽहोरात्राभ्याम् अस्तु ॥

२६.३

विश्वास-प्रस्तुतिः

स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहवम् अग्ने स्वस्त्य् अमर्त्यं गत्वा पुनर् आयाभिनन्दन् ॥

२६.४

विश्वास-प्रस्तुतिः

अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर् मे रिक्तकुम्भान् परा तान्त् सवितः सुव ॥

२६.५

विश्वास-प्रस्तुतिः

अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । शिवा ते पात नासिकां पुण्यगश् चाभिमेहताम् ॥

२६.६

विश्वास-प्रस्तुतिः

इमा या ब्रह्मणस्पते विषूचीर् वात ईरते । सध्रीचीर् इन्द्र ताः कृत्वा मह्यं शिवतमास् कृधि ॥

२६.७

विश्वास-प्रस्तुतिः

स्वस्ति नो अस्त्व् अभयं नो अस्तु नमो ऽहोरात्राभ्याम् अस्तु ॥

२७.१

विश्वास-प्रस्तुतिः

दध्योदनं भुक्त्वा कृत्तिकाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति ॥

२७.२

विश्वास-प्रस्तुतिः

आर्षभेन मांसेन रोहिण्यां मृगमांसैर् मृगशिरसि रुधिरम् आर्द्रायां गृहपतिभक्तं पुनर्वस्वोः घृतपायसं पुष्ये सर्पिर् मांसैर् अश्लेषासु

२७.३

विश्वास-प्रस्तुतिः

एतानि खलु प्राग्द्वाराणि नक्षत्राणि भवन्ति ॥

२७.४

विश्वास-प्रस्तुतिः

स यत्रैव प्राचीं दिशम् अभ्युत्थितः शस्त्रहस्तेन वा कण्ठहस्तेन वा वध्यघातेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति ॥

२८.१

विश्वास-प्रस्तुतिः

तैलेन कृशरं भुक्त्वा मघाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छत्य्

२८.२

विश्वास-प्रस्तुतिः

आविकैर् मांसैर् भुक्त्वा पूर्वयोः फल्गुन्योर् अभ्युदियाद् रसैर् उत्तरयोः प्रैयङ्गवं हस्ते चित्रं भक्तं भुक्त्वा चित्रयाभ्युदियात् यानि ज्येष्ठानि तेषां भुक्त्वा स्वाताव् अभ्युदियाद् अपूपान् विशाखयोर्

२८.३

विश्वास-प्रस्तुतिः

एतानि खलु दक्षिणद्वाराणि नक्षत्राणि भवन्ति

२८.४

विश्वास-प्रस्तुतिः

स यत्रैव दक्षिणां दिशम् अभ्युत्थितः शयनहस्तेन वास्तरणहस्तेन वासन्दीहस्तेन वा नीवीहस्तेन वा जानुहस्तेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति

२९.१

विश्वास-प्रस्तुतिः

खलकुलैर् भुक्त्वानुराधाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति

२९.२

विश्वास-प्रस्तुतिः

ज्येष्ठं भक्तं भुक्त्वा ज्येष्ठयाभ्युदियान् मूलैर् भुक्त्वा मूलेनाभ्युदियाद् [[॥॥ भुक्त्वा पूर्वाभिर् अषाढाभिर् अभ्युदियाद्]] रसैर् उत्तराभिर् नवनीतेन पायसं भुक्त्वाभिजित्य् अभ्युदियाद् [[॥॥ भुक्त्वा श्रवणेनाभ्युदियाद्]]

२९.३

विश्वास-प्रस्तुतिः

एतानि खलु पश्चिमद्वाराणि नक्षत्राणि भवन्ति

२९.४

विश्वास-प्रस्तुतिः

स यत्रैव प्रतीचीं दिशम् अभ्युत्थितः पाशहस्तेन वा जालहस्तेन वा मत्स्यबन्धेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति

३०.१

विश्वास-प्रस्तुतिः

विदलसूपेन भुक्त्वा श्रविष्ठाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति

३०.२

विश्वास-प्रस्तुतिः

शाकं शतभिषजि गोधा गव्यैर् मांसैर् भुक्त्वा पूर्वयोः प्रोष्ठपदयोर् अभ्युदियाद् रसैर् उत्तरयोर् गृहिणीभक्तं भुक्त्वा रेवत्याभ्युदियाद् अक्षतमाषैर् भुक्त्वाश्विन्योर् अभ्युदियात् तिलतण्डुलान् भक्षयित्वा भरणीभिर् अभ्युदियाद्

३०.३

विश्वास-प्रस्तुतिः

एतानि खलूदग्द्वाराणि नक्षत्राणि भवन्ति

मूलम्

एतानि खलूदग्द्वाराणि नक्षत्राणि भवन्ति

३०.४

विश्वास-प्रस्तुतिः

स यत्रैवोदीचीं दिशम् अभ्युत्थितः पानहस्तेन वा किण्वहस्तेन वाक्षीवेण वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति

३१.१

विश्वास-प्रस्तुतिः

अथ राज्ञो ऽभिप्रयाणस्यानयन्ति प्रदक्षिणमुखं श्वेतम् अजं ब्राह्मणं शुक्लवाससम् ॥

३१.२

विश्वास-प्रस्तुतिः

सुप्रतिष्ठितम् अविभ्रान्तं वृषभं शृङ्गिनं हरिम् । स चेन् नदति संसृष्टस् ताम् आहुः सिद्धिम् उत्तमाम् ॥

३१.३

विश्वास-प्रस्तुतिः

गजं ध्वजं रथं छत्त्रं वर्म योधान् अलङ्कृतान् । भूषणानि च सर्वाणि प्रशस्तान्य् आयुधानि च ॥

३१.४

विश्वास-प्रस्तुतिः

वादित्राणि च सर्वाणि पताका विविधास् तथा । शुक्लाः सुमनसो लाजा अक्षता गौरसर्षपाः ॥

३१.५

विश्वास-प्रस्तुतिः

फलानि पूर्णपात्राणि धूपगन्धान् जलं तिलाः । अर्चयित्वा देवताः सर्वा ब्राह्मणान् प्रतिपूज्य च ॥

३१.६

विश्वास-प्रस्तुतिः

पुरोहितं पुरस्कृत्य सुहृदो मन्त्रिणस् तथा । एवं प्रयातो लभते विजयं नात्र संशयः ॥

३१.७

विश्वास-प्रस्तुतिः

कल्याणनामधेयं च गजम् अव्यङ्गदर्शनम् । कुमारीं दधिपात्रेण गृहीतेन स्वलङ्कृताम् ॥

३१.८

विश्वास-प्रस्तुतिः

यदि चेद् अधिगो जाल्मि सूर्याचन्द्रमसोर् गृहे । अश्विना रासभेन्द्रेण यानं कुर्यात् प्रदक्षिणम् ॥

३२.१

विश्वास-प्रस्तुतिः

प्रादक्षिण्यम् अग्नेर् गवां ब्राह्मणानां राज्ञो रथस्य [नरवाहनस्य शकटस्य] चतुर्युक्तस्य षड्युक्ताष्टयुक्तस्य च

३२.२

विश्वास-प्रस्तुतिः

ह्रदस्य दक्षिणावर्तस्य कुमारस्याभ्युत्थितस्य च । मनुष्यपूर्णपिटकस्य पृथिव्या उत्थितस्य च ॥ प्रबद्धस्यैकपशोः

३२.३

विश्वास-प्रस्तुतिः

उलूची कालशकुनिः क्षिप्रश्येनो ऽथ वर्तिका । एते द्विजाः प्रादक्षिण्याश् चाषश् चात्र प्रदृश्यते ॥

३२.४

विश्वास-प्रस्तुतिः

क्रौञ्चनकुलप्रियवृक्षचैत्यानां नित्यं वयसाम् ॥

३२.५

विश्वास-प्रस्तुतिः

तिर्यग् न्यग् वाधिपतितं विपरीतं हीनाङ्गाङ्गातिरिक्तं विकृतनग्नमुण्डबण्डश् चित्रश्यामश्यावदन्तकुनखिजटिल[[ः]] काषायाविकयोश् [चर्मा]ब्राह्मणयोर्

३२.६

विश्वास-प्रस्तुतिः

एतेषां किं चिद् दृष्ट्वा न गच्छेद्

मूलम्

एतेषां किं चिद् दृष्ट्वा न गच्छेद्

३२.७

विश्वास-प्रस्तुतिः

यदि गच्छेद् अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । ववृज्युस् तृष्यतः कामम् इत्य् एतां जपेत् ॥

३२.८

विश्वास-प्रस्तुतिः

नि षज्यतो दस्यूंश् छादयन्न् इन्द्रेति वा

३२.९

विश्वास-प्रस्तुतिः

स्तुहि श्रुतम् इति वा

मूलम्

स्तुहि श्रुतम् इति वा

३२.१०

विश्वास-प्रस्तुतिः

देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु इति गर्दभमुखेन प्रतिनदति प्रतिलोमप्रतिकृत्यास्य

३२.११

विश्वास-प्रस्तुतिः

सर्वाश् च पापिका वाचो नेष्टा<ḥ> । कुचेलदर्शनं च । अनर्था हिंसार्थम् । तद्दर्शनाय । पापं वा जिहीर्षतां सिद्धिः ॥

३३.१

विश्वास-प्रस्तुतिः

अथ रोगपरिमाणान्य्

मूलम्

अथ रोगपरिमाणान्य्

३३.२

विश्वास-प्रस्तुतिः

उत्तरास्व् अषाढासूत्तरयोः प्रोष्ठपदयोर् मासम् ।

३३.३

विश्वास-प्रस्तुतिः

रोहिण्यां विंशतिरात्रम् ।

मूलम्

रोहिण्यां विंशतिरात्रम् ।

३३.४

विश्वास-प्रस्तुतिः

पुनर्वसोर् ऊनविंशतिरात्रं पूर्वाणि द्वन्द्विनाम् ।

३३.५

विश्वास-प्रस्तुतिः

मृगशिरसि षोडशरात्रम् अभिजिति श्रवणे च

मूलम्

मृगशिरसि षोडशरात्रम् अभिजिति श्रवणे च

३३.६

विश्वास-प्रस्तुतिः

आर्द्रायां पञ्चदशरात्रम् अनूराधाश्रविष्ठाभरणीषु च ।

३३.७

विश्वास-प्रस्तुतिः

पुष्ये द्वादशरात्रं हस्ते स्वातौ च ।

मूलम्

पुष्ये द्वादशरात्रं हस्ते स्वातौ च ।

३३.८

विश्वास-प्रस्तुतिः

शतभिषजि नवरात्रं मासे वाकालं कुरुते ।

मूलम्

शतभिषजि नवरात्रं मासे वाकालं कुरुते ।

३३.९

विश्वास-प्रस्तुतिः

ज्येष्ठायां मूले चाष्टरात्रम् ।

मूलम्

ज्येष्ठायां मूले चाष्टरात्रम् ।

३३.१०

विश्वास-प्रस्तुतिः

रेवत्यां सप्तरात्रम् ।

मूलम्

रेवत्यां सप्तरात्रम् ।

३३.११

विश्वास-प्रस्तुतिः

कृत्तिकाश्लेषा मघा उत्तरे फाल्गुन्यौ चित्रा विशाखे अश्वयुजौ च सप्तस्व् एतेषु दशरात्रम् ॥

३४.१

विश्वास-प्रस्तुतिः

अथ बलयः

मूलम्

अथ बलयः

३४.२

विश्वास-प्रस्तुतिः

शुक्ल उपशुरसृपेशुक्लोसप्तमून्मोदनः । अष्टमः पललोदनो धानाः सक्तवो ऽथ शष्कुली ॥

३४.३

विश्वास-प्रस्तुतिः

चित्रश् च कृकवाकुश् च शुक्लः कम्बूकपिण्डकः । सर्वबीजानि मूलानि उदपात्रं च पायसौ ॥

३४.४

विश्वास-प्रस्तुतिः

पशु घृतं कशीका च आर्द्रमांसानि पायसौ । पथ्यायां माषसक्तवः पायसो ऽथ तिलोदनः ॥

३४.५

विश्वास-प्रस्तुतिः

सर्वत्र गन्धपुष्पाणि लाजानुलेपिकास् तथा । अनुद्वारं च नक्षत्रं दैवतं चात्र योजयेत् ॥

३४.६

विश्वास-प्रस्तुतिः

दीपाश् च मण्डले दीप्ताः शुचिश् चापि बलिं हरेत् । यो ऽस्मिन् यस् त्वा मातुर् इति विपरिहरेत् ॥

३५.१

विश्वास-प्रस्तुतिः

सश्वेतसक्तु कंसश् च प्राचीनार्थस्य मङ्गलम् । स्रवं च मांसपेशी च दक्षिणार्थस्य मङ्गलम् ॥

३५.२

विश्वास-प्रस्तुतिः

कुमारी दधिकंसश् च प्रत्यगर्थस्य मङ्गलम् । अनड्वान् ब्रह्मचारी च उदगर्थस्य मङ्गलम् ॥

३५.३

विश्वास-प्रस्तुतिः

कुमारीं दधिपात्रेण गृहीतेन स्वलङ्कृताम् । प्रदक्षिणां तु तां कुर्याद् ध्रुवं स्यात् सिद्धिर् इष्यते ॥

३६.१

विश्वास-प्रस्तुतिः

सेनां चेद् अभ्युत्थितां मन्द्रः प्रतिगर्जेद् राजा वामात्यो वा मरिष्यतीति विद्यात् तत्र वारुणीं जपेत् । उद् उत्तमं वरुण पाशम् इति ॥

३६.२

विश्वास-प्रस्तुतिः

सेनां चेद् अद्भ्युत्थितां धूमो ऽनुगच्छेद् विजेष्यतीति विद्यात् । त्वेषस् ते धूम इत्य् अनुमन्त्रयेत् ॥

३६.३

विश्वास-प्रस्तुतिः

सेनां चेद् अभ्युत्थितां वातो ऽनुवायाद् विजेष्यतीति विद्याद् वात आ वत्व् इत्य् अनुमन्त्रयेत् ॥

३६.४

विश्वास-प्रस्तुतिः

सेनां चेद् अभ्युत्थितां मृगो व्यभिमृशेद् अर्थं तस्या विनश्यतीति विद्यात् । मृगो न भीमः कुचरो गिरिष्ठा इत्य् अनुमन्त्रयेत् ॥

३६.५

विश्वास-प्रस्तुतिः

सेनां चेद् अभ्युत्थितां पक्षिणो व्यतिपतेयुर् मांसोदनं च तत्र दद्यात् । अलिक्लवा जाष्कमदा गृध्रा इत्य् अनुमन्त्रयेत् ॥

३६.६

विश्वास-प्रस्तुतिः

सेनां चेद् अभ्युत्थितां कपिञ्जलः प्रतिवदेद् भद्रं वदेति तिस्रः कापिञ्जलानि स्तवनानि वदन्ति ॥

३६.७

विश्वास-प्रस्तुतिः

यो अभ्य् उ बभ्रुणायसि स्वपन्तम् अत्सि पुरुषं शयानम् अगस्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्य् अस्मान् वरुणो दधद् ॥ इत्य् अभ्यवकाशे संविशति । अभ्यवकाशे संविशति ॥

३७.१

विश्वास-प्रस्तुतिः

अग्निर् देवो यज्वनः कृष्णवर्त्मा वैश्वानरो जातवेदा रसाग्रभुक् । स नक्षत्राणां प्रथमेन पावकः कृत्तिकाभिर् ज्वलनो नो ऽनुशाम्यताम् ॥

३७.२

विश्वास-प्रस्तुतिः

प्रजापतिर् यः ससृजे प्रजा इमा देवान्त् स सृष्ट्वा विनियोज्[[य्]]अ कर्मसु । स सर्वभुक् सर्वयोगेषु रोहिणी शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥

३७.३

विश्वास-प्रस्तुतिः

विद्याविदो ये अभिशोचमानवा अर्चन्ति शक्रं सह देवतागणैः । स नो योगे मृगशिरः शिवाः क्रियाः श्रेष्ठराजः कृणुतां कर्मसिद्धये ॥

३७.४

विश्वास-प्रस्तुतिः

देवं भवं पशुपतिं हरं कृशं महादेवं शर्वम् उग्रं शिखण्डिनम् । सहस्राक्षम् अशनिं यं गृणन्ति स नो रुद्रः परिपातु न आर्द्रया ॥

३७.५

विश्वास-प्रस्तुतिः

॥॥या विप्रैः कविभिर् नमस्यते दाक्षायणी देवपुरादिभिर् नृभिर् । सा नः स्तुता प्रथमजा पुनर्वसुः शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥

३८.१

विश्वास-प्रस्तुतिः

यस्य देवा ब्रह्मचर्येण कर्मणा महासुरं तिग्मतयाभिचक्रिरे । तं सुबुधं देवगुरुं बृहस्पतिम् अर्चामि पुस्येण सहाभिपातु मा ॥

३८.२

विश्वास-प्रस्तुतिः

या न[[ः]] स्तुतः परिहिणोमि मेधया तप्यमानम् ऋषिभिः कामशोचिभिः । जरत्कारसूनोर् ऋषिभिर् मनीषिभिस् ता अश्लेषा अभिरक्षन्तु नोरगैः ॥

३८.३

विश्वास-प्रस्तुतिः

ये देवत्वं पुण्यकृतो ऽभिचक्रिरे ये चापरे ये च परे महर्षयः । अर्चामि सूनुर् यमराजगान् पितॄंश् छिवाः क्रियाः कृणुतां च नो मघा ॥

३८.४

विश्वास-प्रस्तुतिः

यो योजयन् कर्मणा चर्षणीधृतो भूमिं चेति भग[[ः प्रजाः]] प्रसादयन् । तद्देवत्ये शिवतमाम् अलङ्कृते फल्गुन्योर् ईडे भजनं च पूर्वयोः ॥

३८.५

विश्वास-प्रस्तुतिः

स्तुतं पूर्वैर् अर्यमणं मनीषिभिः स्तौमि देवं जगति वाचम् एरयन् । तद्देवत्ये शिवतमाम् अलङ्कृते फल्गुन्यौ न उत्तरे देवतातये ॥

३९.१

विश्वास-प्रस्तुतिः

श्[य्]आवैर् युक्तः शितिपाद् धिरण्ययो यस्य रथः पथिभिर् वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग् घिरण्यपाणिः सविता [नो] ऽभिरक्षतु ॥

३९.२

विश्वास-प्रस्तुतिः

त्वष्ट्रे नमः क्षितिसृजे मनीषिणे भूतगोप्त्रे परमकर्मकारिणे । सा न[[ः]] स्तुता कृणुतां कर्मसिद्धये चित्रां देवी सह योगेन रूपभृत् ॥

३९.३

विश्वास-प्रस्तुतिः

यः प्राणिनां जीवयन् खानि सेवते शिवो भूत्वा मातरिश्वा रसाग्रभुक् । ध्वजो ऽन्तरिक्षस्य स सर्वभूतभृद् वायुर् देवः स्वातिना नो ऽभिरक्षतु ॥

३९.४

विश्वास-प्रस्तुतिः

याव् ईडिताव् आत्मविद्भिर् मणीषिभिः सहितौ [यौ] त्रीणि सवनानि सामगौ । इन्द्राग्नी वरदौ नमस्कृतौ विशाखयोः कुर्वताम् आयुषे श्रीः ॥

३९.५

विश्वास-प्रस्तुतिः

विश्वे देवा यम् ऋषिम् आहुर् मित्रं भरद्वाजम् ऋषितः प्रसामवित् । तं जगत्या गाथया स्तौम्य् उग्रैः स माम् अनूराधाभिर् [भृतकण्वो] ऽभिरक्षतु ॥

४०.१

विश्वास-प्रस्तुतिः

शतक्रतुर् यो निजघान शम्बरं वृत्रं च हत्वा सरितः प्रसर्जत[ः] । स नः स्तुतः प्रीतमनाः पुरन्दरो मरुत्सखा ज्येष्ठया नो ऽभिरक्षतु ॥

४०.२

विश्वास-प्रस्तुतिः

या धारयत्य् ओजसातिदेवपदं माता पृथिवी च सा सर्वभूतभृत् । सा न[[ः]] स्तुता कृणुतां कर्मसिद्धये मूलं देवी निरृतिः सर्वकर्मसु ॥

४०.३

विश्वास-प्रस्तुतिः

पर्जन्यसृष्टास् तिसृणीभिर् आवृतं यास् तर्पयन्त्य् अभितः प्रवृद्धये । ता[[ः]] स्तौम्य् आपो वारुणीः ॥। पूर्वा आषाढा स्वधयास्तु योजने ॥

४०.४

विश्वास-प्रस्तुतिः

यास् त्रिंशतं त्रींश् च मदन्ति देवा देवनाम्नो निर्मिता[[ं]]श् च भूयसः । ता नो ऽषाढा उत्तरा वसो विश्वे [[शिवाः]] क्रियाः कृणुतां सुरमताः ॥

४०.५

विश्वास-प्रस्तुतिः

यः सर्वज्ञः सर्वकृत् सर्वभूतभृद् यस्माद् अन्यन् न परं किं चनास्ति । अनिर्मितः सत्यजितः पुरुष्टुतः स नो ब्रह्माभिजिता नो ऽभिरक्षतु ॥

४१.१

विश्वास-प्रस्तुतिः

स्थानाच्युते स्थानम् इन्द्राय पातवे देवेभ्यश् च य ईरयंस् [त्रिर्] विचक्रमे । तं स्विद् धि स्वर्गं नाकपृष्ठं विश्वं विष्णुर् देवः श्रवणेनाभिरक्षतु ॥

४१.२

विश्वास-प्रस्तुतिः

अष्टौ शतानि श्वेतकेतूनां यानि त्वं च स त्वं निजघान भूयसः । अनादेशेनोभय[त]श् च वीडिताः श्रविष्ठाभिर् नो ऽभिरक्षन्तु वाजिनः ॥

४१.३

विश्वास-प्रस्तुतिः

वाजा देवी देवमृणानिकाकुभाव् उभाव् आजस्य नतकर्मणा शिवा । तव व्राजं स्तौमसि देवभोजनौ प्रत्यग्भिषक् शतभिषक् शिवौ नः ॥

४१.४

विश्वास-प्रस्तुतिः

शुनासीरौ नः प्रमुमूतु जिह्मसौ तौतौ पितृभ्यो ददतु[[ः]] स्तनौ शुभौ । तौ पूर्वजौ कृणुताम् एकपाद् अजः प्रतिष्ठानौ सर्वकामाभयाय च ॥

सर्वार्थाय कृणोमि कर्मसिद्धये गविष्टुतायानेककारिणे नमः । सो ऽहिर् बुध्न्यः कृणुताम् उत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च ॥

४१.६

विश्वास-प्रस्तुतिः

यं महाहेमम् ऋषितः प्रसामविद् भरद्वाजश् चन्द्रमसौ दिवाकरम् । सजुष्टानाम् अश्वयुजौ भयाय च स नः पूषा कृणुतां रेवतीं शिवाम् ॥

४१.७

विश्वास-प्रस्तुतिः

जीर्णं सन्तं यौ युवानं हि चक्रतुर् ऋषिं धिया च्यवनं सोमपौ कृतौ । तौ नश् चित्तिभिर् भिषजाम् अस्य सत्करौ ॥॥ प्रजाम् अश्विन्याम् अश्विनौ शिवौ ॥

४१.८

विश्वास-प्रस्तुतिः

यस्य श्यामशबलौ रक्षतः स्वधा दुष्कृत् सुकृद् विविधा चर्षणीधृतौ । तौ सवित्र्या च सवितुर् धर्मचारिभिर् यमो राजा भरणीभिर् नो ऽभिरक्षतु ॥

४२.१

विश्वास-प्रस्तुतिः

अथ नक्षत्रस्नानानां विधिं वक्ष्यामि साम्पदम् । ग्रहदैवतपूजां च येषु यत्र यथाविधि ॥

४२.२

विश्वास-प्रस्तुतिः

नक्षत्रयोगकालज्ञः कृत्वा तन्त्रं यथाविधि । यजेद् ग्रहान् हविष्येण यथोक्तेन च देवताः ॥

४२.३

विश्वास-प्रस्तुतिः

प्रशस्तलक्षणं कुम्भं ससम्भारजलं बुधः । सम्पाताभिहितं कृत्वा मन्त्रैर् विधिम् अनुस्मरन् ॥

४२.४

विश्वास-प्रस्तुतिः

सावित्र्या शान्तिसूक्तैश् च महाव्याहृतिभिस् तथा । अपां स्तोत्रैः पवित्रैश् च नक्षत्रस्तुतिभिस् तथा ॥

४२.५

विश्वास-प्रस्तुतिः

नक्षत्रदैवतान् मन्त्रान् प्रतिनक्षत्रम् आवपेत् । काम्यांश् चैवावपेन् मन्त्रान् कर्मलिङ्गविधानवित् ॥

४२.६

विश्वास-प्रस्तुतिः

सम्पात्याथाभिमन्त्र्य वा नक्षत्रस्नानकोविदः । स्नापयेद् अर्थिनं वाग्भिः पुण्याभिर् अभिमन्त्रितम् ॥

४२.७

विश्वास-प्रस्तुतिः

एष एव विधिर् दृष्टः सदस्येभ्यश् च दक्षिणा । पूर्वम् आप्याययेद् देहं पश्चाद् दद्यात् तु दक्षिणाम् ॥

४२.८

विश्वास-प्रस्तुतिः

अनेन विधिना स्नात्वा दद्याच् चैवात्र दक्षिणाम् । प्राप्नोत्य् अनुनयं पुंसः स वेदफलम् अश्नुते ॥ [प्राप्नोत्य्: प्राप्णोत्य् एद्। (मिस्प्रिन्त्)]

४२.९

विश्वास-प्रस्तुतिः

आत्मानं निर्मलीकृत्य देवान् इष्ट्वा ग्रहांस् तथा । विद्वद्भ्यो दक्षिणा देया द्विजान् अन्नेन तर्पयेत् ॥

४३.१

विश्वास-प्रस्तुतिः

कृत्तिकाभिः शिरीषस्य अश्वत्थस्य वटस्य च । स्नापयेत् पत्त्रभङ्गेन य इच्छेद् राजपूजितम् ॥

४३.२

विश्वास-प्रस्तुतिः

रोहिण्यां स्नापयेद् वैश्यं सर्वबीजैर् अलङ्कृतम् । अक्षतान् अन्तरं कृत्वा तथा सौभाग्यम् अर्हति ॥

४३.३

विश्वास-प्रस्तुतिः

यदा मृगशिरो युज्येत् तदा स्नानं विधीयते । मुक्तामणिसुवर्णेन धनार्थी तेन स्नापयेत् ॥

४३.४

विश्वास-प्रस्तुतिः

श्रीवेष्टकसर्जरसतगरोशीरपत्त्रकैः । आर्द्रायां वणिजः स्नाताः सुलाभांस् तु लभन्ति ते ॥

४३.५

विश्वास-प्रस्तुतिः

पुनर्वसुभ्यां गोमार्गाद् आहरेद् अग्रमृत्तिकाम् । गोपीठे स्नापयेद् गो ऽर्थी क्षिप्रं गोमान् भविष्यति ॥

४३.६

विश्वास-प्रस्तुतिः

रक्तशालिसहस्रेण तावद्भिर् गौरसर्षपैः । सहस्रवीर्यानन्त्या च मदयन्तीप्रियङ्गुभिः । त्रीन् पुष्यान् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥

४३.७

विश्वास-प्रस्तुतिः

अश्लेषास्व् आहारयेद् उभयतः कूलमृत्तिकाः । [अश्व्]आरोहं स्नापयेत् तेन क्षिप्रवाही भविष्यति ॥

४३.८

विश्वास-प्रस्तुतिः

मघाभिस् तु तिलैः स्नायाद् उत्पलैः कमलैस् तथा । तस्मिंस् तु मासे सा कन्या क्षिप्रं च लभते पतिम् ॥

४३.९

विश्वास-प्रस्तुतिः

अथ पूर्वयोः फल्गुन्योः शतपुष्पा प्रियङ्गवः । मध्व् एव च तृतीयं स्यात् सौभाग्यं भोगवर्धनम् ॥

४३.१०

विश्वास-प्रस्तुतिः

अथोत्तरयोः फल्गुन्योर् अक्षता गौरसर्षपाः । एतत् स्नानं प्रयुञ्जीत प्रजास्थापनम् उत्तमम् ॥

४४.१

विश्वास-प्रस्तुतिः

हस्तेन सर्वकारूणां चौराणां चापि नित्यशः । नदीगिरितटाकेषु मृत्तिकास्नानम् उत्तमम् ॥

४४.२

विश्वास-प्रस्तुतिः

चित्रायां चित्रमाल्यैस् तु सर्वगन्धैर् अलङ्कृतम् । योषार्थी स्नापयेत् तेन क्षिप्रं स लभते प्रियाम् ॥

४४.३

विश्वास-प्रस्तुतिः

स्वातिना तु गन्धैः स्नायाद् उत्पलैः कुमुदैस् तथा । तस्मिंस् तु मासे सा कन्या क्षिप्रं निर्व्यूह्यते ततः ॥

४४.४

विश्वास-प्रस्तुतिः

खड्गस्य च विषाणेन गजस्य ऋषभस्य वा । विशाखाभ्याम् अभिषिक्तो [राजा] पृथिवीम् अभिशासयेत् ॥

४४.५

विश्वास-प्रस्तुतिः

अनूराधास्व् आहारयेद् वल्मीकशतमृत्तिकाः । कर्षणं स्नापयेत् तेन धनधान्येन वर्धते ॥

४४.६

विश्वास-प्रस्तुतिः

ज्येष्ठायां ज्यैष्ठ्यकामं तु अभिषिञ्चेत् पुरोहितम् । रसैश् च मिश्रधान्यैश् चाभिषिक्तः प्राशयेद् रसान् ॥

४४.७

विश्वास-प्रस्तुतिः

मूलेन सर्वतोभद्रम् उपविष्टा वरवर्णिनी । शमीपत्त्रसहस्रेण स्नानात् पुत्रं प्रसूयते ॥

४४.८

विश्वास-प्रस्तुतिः

अथ पूर्वास्व् अषाढासु या स्नायाद् अहते पटे । जातरूपेण कल्याणी भोगं भुङ्क्ते पतिप्रिया ॥

४४.९

विश्वास-प्रस्तुतिः

अथोत्तरास्व् अषाढासु यः स्नायाच् चेद् उपोषितः । महाह्रद उशीरेण दासीदासेन वर्धते ॥

४४.१०

विश्वास-प्रस्तुतिः

वचयोत्पलकुष्ठैश् च ब्राह्मी सिद्धार्थकैस् तथा । अभिजिद् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥

४५.१

विश्वास-प्रस्तुतिः

श्रवणेन स्रवन्तीनां यः स्नायात् सङ्गमेषु च । स सङ्गच्छति स्वर्णेन हिरण्येन धनेन वा ॥

४५.२

विश्वास-प्रस्तुतिः

श्रविष्ठाभिर् धनकामं [तु] स्नापयेद् यत्र चन्दनैः । एतत् स्नानं प्रयुञ्जानो धनधान्येन वर्धते ॥

४५.३

विश्वास-प्रस्तुतिः

शतभिषग् भिषक्कामो ऽभिषिञ्चेच् छान्तिकर्मसु । सो ऽभिषिक्तो हतपाप्मा सर्वरोगैः प्रमुच्यते ॥

४५.४

विश्वास-प्रस्तुतिः

[अथ] पूर्वयोः प्रोष्ठपदयो रोचनयाञ्जनेन च । स्नाता गजविषाणेन राजानं जनयेत् सुतम् ॥

४५.५

विश्वास-प्रस्तुतिः

अथोत्तर[योः] प्रोष्ठपदयोः प्रसन्नापद्मकं मधु । गन्धर्वं स्नापयेत् तेन राजवाही भविष्यति ॥

४५.६

विश्वास-प्रस्तुतिः

खड्गस्य च विषाणेन जलेन मधुसर्पिषा । रेवत्यां क्षत्रियः स्नातो [राजा] पृथिवीम् अभिशासते ॥

४५.७

विश्वास-प्रस्तुतिः

अश्विन्यां स्वस्तिकं माल्यं मदयन्तीप्रियङ्गुभिः । रूपाजीवायास् तत् स्नानं सौभाग्यं भोगवर्धनम् ॥

४५.८

विश्वास-प्रस्तुतिः

भरणीभिर् भद्रमुस्तैस् त्व् एलासिद्धर्थकैस् तथा । स्नाता पतिकुलं गच्छेद् असपत्नम् अकण्टकम् ॥

४६.१

विश्वास-प्रस्तुतिः

सर्वज्ञः सर्वग शंस नारद प्रज्ञानम् अन्यस्माद् अनूनप्रज्ञात् स्वर्गस्य लोकस्य देहाद्यैर्यात् पथिभिर् उपपन्नो मनुष्यः ॥

४६.२

विश्वास-प्रस्तुतिः

उपोषितः शुचिशीलः पुण्यगन्धो यदा भवेत् । प्राग् अस्तङ्गमनभोजनाद् यद् एनं नित्यम् अतन्द्रितः ॥

४६.३

विश्वास-प्रस्तुतिः

समयाचारपूर्वाभिः कर्मसिद्धिः प्रशस्यते । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥

४७.१

विश्वास-प्रस्तुतिः

कृत्तिकाभिः पायसं सर्पिषा सह भोजयेत् । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥

४८.१

विश्वास-प्रस्तुतिः

रोहिण्याम् अक्षतैर् माषैः सर्पिर्मिश्रं सहौदनम् । दुग्धान्नपान[[ं]] मंहेत सो ऽक्षतो यमसादने ॥

४८.२

विश्वास-प्रस्तुतिः

मृगशिरसि मंहेत अजां धेनुं पयस्विनीम् । सास्मै सर्वान् कामान् दुग्ध्[व्]आ एति पूर्वा पयस्विनी ॥

४८.३

विश्वास-प्रस्तुतिः

आर्द्रायां कृसरं दद्यात् तैलमिश्रम् उपोषितः । पुनर्वसुभ्यां मंहेत मध्वपूपांस् त्व् अनुत्तमान् ॥

४८.४

विश्वास-प्रस्तुतिः

रुक्मं पुष्येण मंहेत सो ऽक्षतो यमसादने । अश्लेषा रजतं दद्यात् सौरभेयेण प्रेषितः ॥

४८.५

विश्वास-प्रस्तुतिः

सर्पान् निर्हन्ति प्रेतस्य परिपन्थि सुखाद् भयात् । मघाभिस् तु तिलान् दद्यान् मधुमिश्रान् स्मरन् पितॄन् ॥

४८.६

विश्वास-प्रस्तुतिः

कामैस् तत्रोपतिष्ठन्ति अमी ये सोमयाजिनः । [फाणितेनेष्टका मिश्रा दद्यात् पूर्वयोः फल्गुन्योर् मधुनोत्तरयोः ॥]

४८.७

विश्वास-प्रस्तुतिः

पूर्वोत्तरयोः फल्गुन्योर् दुहते मधुफाणिते ॥

४९.१

विश्वास-प्रस्तुतिः

बृहद्धस्तिरथं युक्तं हस्तेन तु ददन् नरः । सवितुः स्थानम् आप्नोति दिव्यां कामजवां सभाम् ॥

४९.२

विश्वास-प्रस्तुतिः

चित्रायां वृषलीं दद्यात् सर्वपुष्पैर् अलङ्कृताम् । गन्धैः शुश्रूषमाणस् तु ध्रुवे स्थाने [सुगन्धिः] प्रपद्यते ॥

४९.३

विश्वास-प्रस्तुतिः

स्वाताव् एकधनं दद्याद् यद्यद् अस्य प्रियं गृहे । असज्जमानो गच्छेत अशरीरो यथा मनः ॥

४९.४

विश्वास-प्रस्तुतिः

धेनुं तु रूपसम्पन्नाम् अनड्वाहौ तु वा वहौ । विशाखाभ्यां मधुमन्थं प्रापयेत् स्थानम् उत्तमम् ॥

४९.५

विश्वास-प्रस्तुतिः

अनूराधासु प्रावरणम् अन्नं तु शुचि ज्येष्ठायां च । दद्याच् चान्नं ब्राह्मणेभ्यो भक्षैर् उच्चावचैः सह ॥

४९.६

विश्वास-प्रस्तुतिः

सुरा[[ं]] मूलेन मंहेताब्राह्मणीभ्य उपोषितः । मातुस् तेनानृणो भवति सङ्कराच् च विमुच्यते ॥

४९.७

विश्वास-प्रस्तुतिः

उदमन्थम् अषाढासु पूर्वासु मधुनोत्तरम् ॥

मूलम्

उदमन्थम् अषाढासु पूर्वासु मधुनोत्तरम् ॥

४९.८

विश्वास-प्रस्तुतिः

अभिजिद् दुहितरं दद्यान् मधुपर्कपुरोगमाम् । उत्तमे ब्रह्मणः स्थाने सर्वकामैः प्रमोदते ॥

५०.१

विश्वास-प्रस्तुतिः

कम्बलं श्रवणे दद्याद् वस्त्रान्तरम् उपोषितः । श्रविष्ठाभिर् वस्त्रयुगं गन्धान् शतभिषग् भवेत् ॥

५०.२

विश्वास-प्रस्तुतिः

अजं सम्पच्योदनं दद्यात् पूर्वयोः प्रोष्ठपदयोर् औरभ्रेण सहोत्तरयोः ॥

५०.३

विश्वास-प्रस्तुतिः

धेनुं च रूपसम्पन्नां गौर् गृष्टिः पूर्णदोहनीम् । रेवत्यां त्रिवत्सां दद्याच् छुभकांस्योपदोहिनीम् ॥

५०.४

विश्वास-प्रस्तुतिः

वस्त्रेणानड्वाहौ [सं]बद्ध्वा दद्याद् अश्वयुजो नरः । दश वर्षसहस्राणि लोम्निलोम्नि महीयते ॥

५०.५

विश्वास-प्रस्तुतिः

अष्टौ वर्षसहस्राणि अजधेन्वा पयो ऽश्नुते । दश वर्षसहस्राणि गोधेन्वा पयो ऽश्नुते ॥

५०.६

विश्वास-प्रस्तुतिः

अनड्वाहं तु यो दद्यात् सुहृदं साधुवाहिनम् । वीरं प्रजानां भर्तारं प्राप्नोति दशधेनुदम् ॥

५०.७

विश्वास-प्रस्तुतिः

[यदा वत्सस्य पादौ द्वौ शिरस् चापि प्रदृश्यते । तदा गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥]

५०.८

विश्वास-प्रस्तुतिः

भरणीभिः कृष्णतिलां दद्यात् [तिल]धेनुं पयस्विनीम् । तया दुर्गाणि तरति क्षुरधारांश् च पर्वतान् ॥

५०.९

विश्वास-प्रस्तुतिः

नक्षत्राणां यथा सोमो ज्योतिषाम् इव भास्करः । भाति दिव्यं दिवं ज्योतिः पावकः शुचिर् उत्तमः ॥

५०.१०

विश्वास-प्रस्तुतिः

एवम् उक्तां नक्षत्रदक्षिणां यो ददातीह जीवलोके । [[अ]]पहत्य तमः सर्वं ब्रह्मलोके महीयते । यथा यष्टुस् तथाध्येतुर् एषा ब्राह्मी प्रतिश्रुतिर् एषा ब्राह्मी प्रतिश्रुतिर् इति ॥