०१-२ कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः

०१.१

विश्वास-प्रस्तुतिः

ॐ यद् राजानं शकधूमं नक्षत्राण्य् अकृण्वत । भद्राहम् अस्मै प्रायच्छन् ततो राष्ट्रम् अजायत ॥

मूलम्

०१.२

विश्वास-प्रस्तुतिः

भद्राहम् अस्तु नः सायं भद्राहं प्रातर् अस्तु नः । भद्राहम् अस्मभ्यं त्वं शकधूम सदा कृणु ॥

०१.३

विश्वास-प्रस्तुतिः

यो नो भद्राहम् अकरः सायं प्रातर् अथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥

०१.४

विश्वास-प्रस्तुतिः

यद् आहुः शकधूम[[ं]] महानक्षत्राणां प्रथमजं ज्योतिर् अग्रे । तन् नः शतीम् अभिकृणोतु रयिं च नः सर्ववीरं नियच्छात् ॥

०१.५

विश्वास-प्रस्तुतिः

यो ऽस्मिन् यक्ष्म[[ः]] पुरुषे प्रविष्ट इषितं दैव्यं सहः । अग्निष् टं घृतबोधनो ऽपस्कन्द नो विदूरम् अस्मत् सो ऽन्येन समृच्छात् ॥ तस्मै प्रसुवामसि ॥

०१.६

विश्वास-प्रस्तुतिः

यस् त्वा मातुर् उत वा पितुः परिजायमानम् अभिसम्बभूव । न त्वद् यम् अधिनासयाम सो ऽन्यस्मै सयातैः प्रविष्टः ॥

०१.७

विश्वास-प्रस्तुतिः

अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वापदाः पतत्रिणो वयांसि शकुनयो ऽमुष्यामुस्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥

कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः ॥