सर्वाष् टीकाः ...{Loading}...
०१ अयं पिण्डः कर्करपिण्डः
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.1)+++अयं पिण्डः कर्करपिण्डः
स्मरः पाञ्चलः संतपनः करंकरः ।
अमुष्य हृदयं तपो
यम् अहं कामये प्रियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.1)+++अयं पिण्डः कर्करपिण्डः
स्मरः पाञ्चलः संतपनः करंकरः ।
अमुष्य हृदयं तपो
यम् अहं कामये प्रियम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथायम् अग्निस् तपति
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.2)+++यथायम् अग्निस् तपति
यथा तपति सूर्यः ।
एवा ते तप्यतां मनो
हृदयम् अङ्गमङ्गं परुष्परुर्
मां कामेन न रमासा अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.2)+++यथायम् अग्निस् तपति
यथा तपति सूर्यः ।
एवा ते तप्यतां मनो
हृदयम् अङ्गमङ्गं परुष्परुर्
मां कामेन न रमासा अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा तपति परशुम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.34; pāda f not written)+++यथा तपति परशुं
यथा वासिनखादनम् ।
यथा सूर्य उद्यन् सर्वं संतपति ।
एवा ते तप्यतां मनो हृदयम्
अङ्गमङ्गं परुष्परुर्
मां कामेन न रमासा अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.34; pāda f not written)+++यथा तपति परशुं
यथा वासिनखादनम् ।
यथा सूर्य उद्यन् सर्वं संतपति ।
एवा ते तप्यतां मनो हृदयम्
अङ्गमङ्गं परुष्परुर्
मां कामेन न रमासा अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०४ सं त्वा द्यौश्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.5)+++सं त्वा द्यौश् च पृथिवी च तपतां
मां कामेन न रमासा अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.5)+++सं त्वा द्यौश् च पृथिवी च तपतां
मां कामेन न रमासा अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०५ स्मर है स्मरताद्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.6)+++स्मर है स्मरताद् अमुम्
अङ्गज्वरेणोच्छोचनीनाम् ।
तक्मनैनं सं सृज
विश्वशारदेन मम कामेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.6)+++स्मर है स्मरताद् अमुम्
अङ्गज्वरेणोच्छोचनीनाम् ।
तक्मनैनं सं सृज
विश्वशारदेन मम कामेन ॥
सर्वाष् टीकाः ...{Loading}...
०६ अष्टाशीतिं सहस्राण्य् अत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.7abcd)+++अष्टाशीतिं सहस्राण्य्
अत्य् अवादीद् वचो मम ।
इहारे ऽहम् अवादिषम्
अत्रारे प्रायस्य् अस्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.7abcd)+++अष्टाशीतिं सहस्राण्य्
अत्य् अवादीद् वचो मम ।
इहारे ऽहम् अवादिषम्
अत्रारे प्रायस्य् अस्तम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यं सुमित्रः सुमित्रायै
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.7ef8)+++यं सुमित्रः सुमित्रायै
चक्रे ऽवासा स्मरम् ।
यथा सा तस्य कामेन
न सुष्वाप कदा चन ।
एवासौ मम कामेन
माव स्वाप्सीत् कदा चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.7ef8)+++यं सुमित्रः सुमित्रायै
चक्रे ऽवासा स्मरम् ।
यथा सा तस्य कामेन
न सुष्वाप कदा चन ।
एवासौ मम कामेन
माव स्वाप्सीत् कदा चन ॥
सर्वाष् टीकाः ...{Loading}...
०८ पर्य् अग्निर् आपस्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.9)+++पर्य् अग्निर् आपस् तपति
परि द्याम् एति सूर्यः ।
परि त्वाम् इन्द्रो वृत्रहा
मह्यं तपतु सर्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.9)+++पर्य् अग्निर् आपस् तपति
परि द्याम् एति सूर्यः ।
परि त्वाम् इन्द्रो वृत्रहा
मह्यं तपतु सर्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यथा वातो न्यावाति
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.10)+++यथा वातो न्यावाति
यथा तपति सूर्यः ।
एवा त्वम् इन्द्र वृत्रहन्न्
अमुं मह्यम् इहा नय ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.10)+++यथा वातो न्यावाति
यथा तपति सूर्यः ।
एवा त्वम् इन्द्र वृत्रहन्न्
अमुं मह्यम् इहा नय ॥
सर्वाष् टीकाः ...{Loading}...
१० शालालवं संवननं वनाद्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.61.11)+++शालालवं संवननं
वनाद् वननम् आभृतम् ।
येन गयो गन्धर्वो
अप्सरसां समवानयत् ।
तेनाहम् अमुं मयि वानयाम्य्
आ मृत्योर् आ परावतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.61.11)+++शालालवं संवननं
वनाद् वननम् आभृतम् ।
येन गयो गन्धर्वो
अप्सरसां समवानयत् ।
तेनाहम् अमुं मयि वानयाम्य्
आ मृत्योर् आ परावतः ॥