०६४

सर्वाष् टीकाः ...{Loading}...

०१ ग्राह्या दूतो ऽस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.1)+++ग्राह्या दूतो ऽस्य्
उलूका सं पचामि ते ॥

०२ निरृत्या दूतो ऽस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.2)+++निरृत्या दूतो ऽस्य्
उलूका सं पचामि ते ॥

०३ वरुणस्य दूतो ऽस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.3)+++वरुणस्य दूतो ऽस्य्
उलूका सं पचामि ते ॥

०४ मृत्योर् दूतो ऽस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.5)+++मृत्योर् दूतो ऽस्य्
उलूका सं पचामि ते ॥

०५ यमस्य दूतो ऽस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.4])+++यमस्य दूतो ऽस्य्
उलूका सं पचामि ते ॥

०६ राजा त्वा वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.6)+++राजा त्वा वरुणो ऽखनद्
दत्तां सोमेन बभ्रुणा ।
तां त्वा विद्म प्रतापिकां
प्रामुष्य हृदयं तप ॥

०७ शोचयैनं प्रतपैनं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.78abc)+++शोचयैनं प्रतपैनं
सम् एनं तक्मना सृज ।
यथास्य दह्यमानस्य्- +++(dahyamānasya)+++
-आग्निः पर्वाण्य् अन्व् अयद् ।
हृदयं प्रेवलिज्जयाद्
अक्ष्यौ कामेन शोचयान्
मुहूर्तं माम् अपश्यतः ॥

०८ अयम् इत् त्वाग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.8d9)+++अयम् इत् त्वाग्निर् आ नयाद्
वातस् त्वात उद् यमात् ।
यं त्वम् एनं नि वर्तय्- +++(vartaya)+++
-आसौ हा इह ते मनः ॥

०९ अग्निष् ट्वा तपतु

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.10)+++अग्निष् ट्वा तपतु
सूर्यस् त्वा तपतु
वातस् त्वा युङ्क्तां मरुतश् च युञ्जताम् ।
अर्वाङ् एहि समटमानो मरीचिभिः ॥

१० वृहामि ते लोमान्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.60.11)+++वृहामि ते लोमान्य् अङ्गेभ्यः
पचामि मांसं ज्वलयाम्य् अस्थि ।
इह ते रमतां मनो
मयि ते रमतां मनः ॥