०६३

सर्वाष् टीकाः ...{Loading}...

०१ सेसिचाम् उपत्वचां नाशय्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(see Knobl 2007, 56; = PSK 20.59.1ab)+++सेसिचाम् उपत्वचां नाशय्- +++(nāśaya)+++
-आ पुरुरूपाद् अभील्यं मुखात् ॥

०२ यन् मे कृताद्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(see Knobl 2007, 57; = PSK 20.59.1cd2ab)+++यन् मे कृताद् अप्रियाद्
आरुरोह मलं मुखम् ।
अपां वात इव शीपालं
सूर्यस् तद् अप लुम्पतु ॥

०३ अप मे ऽभीली

विश्वास-प्रस्तुतिः ...{Loading}...

+++(see Knobl 2007, 57-58; = PSK 20.59.2cd3ab)+++अप मे ऽभीली पतत्व्
अभ्रं वातहृतं यथा ।
आ मा सुवर्णं गच्छतु
सुभागम् अस्तु मे मुखम् ॥

०४ यथा सूर्यस्योपोदये हिरण्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(see Knobl 2007, 58; not found in PSK)+++यथा सूर्यस्योपोदये
हिरण्यं प्रतिरोचते ।
एवा मे अश्विना मुखं
सुवर्णं प्रति रोचताम् ॥

०५ प्र यद् गावो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(see Knobl 2007, 58; = PSK 20.59.3cd4ab; PSK 20.59.4cd repeats PS 1.97.4ab)+++प्र यद् गावो न भूर्णयस्
त्वेषा वयांस्य् अक्रमन् ।
घ्नन्तु कृष्णाम् अप त्वचं
सुभागम् अस्तु मे मुखम् ॥

०६ इन्द्रेण प्रेषित उलूका

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.59.5cd)+++इन्द्रेण प्रेषित
उलूका सं पचामि ते ॥

०७ सोमेन प्रेषित उलूका

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.59.7cd)+++सोमेन प्रेषित
उलूका सं पचामि ते ॥

०८ सूर्येण प्रेषित उलूका

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.59.6cd)+++सूर्येण प्रेषित
उलूका सं पचामि ते ॥

०९ बृहस्पतिना प्रेषित उलूकासम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8cd)+++बृहस्पतिना प्रेषित
उलूकासं पचामि ते ॥

१० प्रजापतिना प्रेषित उलूकासम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.9cd)+++प्रजापतिना प्रेषित
उलूकासं पचामि ते ॥