०६०

सर्वाष् टीकाः ...{Loading}...

०१ ऋचं साम यद्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.1; hiṃsīd following ŚS 7.54.2, mss. hiṃsīr)+++ऋचं साम यद् अप्राक्षं
हविर् ओजो यजुर् बलम् ।
एतं मा तस्मान् मा हिंसीद्
वेदः पृष्टः शचीपते ॥

०२ उद् भरे द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.2)+++उद् भरे द्यावापृथिवी सहौषधीभिः ।
गृह्णामि प्रजां निर् अपः सृजामि ॥

०३ मा न आपो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.3)+++मा न आपो मेधां
मा ब्रह्म प्र मथिष्टन ।
सुष्यदा यूयं स्यन्दध्वम्
उपहूतो ऽहं सुमेधा वर्चस्वी ॥

०४ मा नो मेधाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.4)+++मा नो मेधां मा नो दीक्षां
मा नो हिंसिष्ट यत् तपः ।
शिवा नः सर्व आयुष +++(Bhatt. āyuṣe)+++
आपो भवन्तु मातरः ॥

०५ इह प्रजा विश्वरूपा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.5)+++इह प्रजा विश्वरूपा रमन्ताम्
अस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।
अग्निं कुलायम् उप संविशन्तीर्
जानन्तु नः पयसा घृतेन ॥

०६ रन्तय स्थ रमतय

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.6)+++रन्तय स्थ रमतय स्थ
मयि श्रित स्थ मयि श्रयध्वम् ।
मनोता नाम स्थ ग्राम्या अप्सरसो
वेद वो वित्तम् आ मा विशत ॥

०७ शर्व नीलशिखण्ड वीर

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.7)+++शर्व नीलशिखण्ड
वीर कर्मणिकर्मणि ।
इमाम् अस्य प्राशं जहि
येनेदं विवदामहे ॥

०८ तृतीयकं वितृतीयं सदन्दिम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.89ab)+++तृतीयकं वितृतीयं सदन्दिं
तक्मानम् उत राजयक्ष्मम् ।
यथा शक्र उन्मुमोच तृतीयकम्
एवाहं तद् उन् मुञ्चामि
तृतीयकं तम् अस्याम्
ओषध्यां बध्नामि ॥

०९ आध्वस्तपक्ष्णे बृहते पथे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.9cd)+++आध्वस्तपक्ष्णे बृहते
पथे ऽहम् अकरं नमः ॥

१० इन्द्राय त्विषीमते पथे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.57.10)+++इन्द्राय त्विषीमते पथे ऽहम् अकरं नमः ॥