०५९

सर्वाष् टीकाः ...{Loading}...

०१ पैशिर् माता पेशिः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.1)+++पैशिर् माता पेशिः पिता
पैशेयः पेश्या हतः ।
अद्धा कृतस्य ब्रह्मणा
वृश्चिकस्यारसं विषम् ॥

०२ निर् ह्वयामि पर्णसादान्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.2)+++निर् ह्वयामि पर्णसादान्
निर् उत् पुच्छाद् उ ते विषम् ।
भूमिस् त उच्यते माता
तस्यै ते नम इत् सृज ॥

०३ किम् उ दन्त

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.3)+++किम् उ दन्त आमयति
किम् अभूद् उपवेशनम् ।
आपो निर् अस्यता क्रिमिम्
अगदे कृणुता हनू ॥

०४ यत्र भूम्या अनामृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.4; see Kajihara 2011, 53-54)+++यत्र भूम्या अनामृतं
दिवि चन्द्रमसि श्रितम् ।
विद्वाँ अहं तत्र मन्ये
माहं पौत्रम् अघं नि गाम् ॥

०५ यत् ते सुसीमे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.6; see Kajihara 2011, 54)+++यत् ते सुसीमे हृदयम्
अदो वै तत् प्रजापतौ ।
वेदाम तस्य ते वयं
(माहं पौत्रम् अघं नि गाम्) ॥

०६ यत् सुवर्णाया हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.5)+++यत् सुवर्णाया हृदयं
पृथिव्याम् अधि निष्ठितम् ।
वेदाहं तस्यास् तन् नाम
(माहं पौत्रम् अघं नि गाम्) ॥

०७ अग्नेर् हृदयम् असि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.7)+++अग्नेर् हृदयम् असि
विद्युत् तत् त्वा तथा वेद ।
माहं पौत्रम् अघं नि गाम् ॥

०८ प्रजा इमे प्रजापत

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.55.8)+++प्रजा इमे प्रजापत
इन्द्राग्नी शर्म यच्छतम् ।
यथाहं ज्योग् इहासानि
प्रजानाम् अधिपा वशी ॥

०९ यां प्रजाम् अविदाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(not found in PSK; PSK 20.55.9 is = PS 19.28.5)+++यां प्रजाम् अविदाम् अद्य्- +++(adya)+++
-आत्मनः परिनिर्मिताम् ।
आयुष्मतीं तनूकृतां
ताँ अग्ने जरसे नय ॥

१० इन्द्र इवासानि सासहिर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.56.10; PSK 20.55.10 is = PS (Orissa) 20.61.10)+++इन्द्र इवासानि सासहिर्
अग्निर् इव ज्योतिषा बृहन् ।
सूर्य इव विश्वतः प्रत्यक्
समुद्र इव दुष्टरः ॥