०५८

सर्वाष् टीकाः ...{Loading}...

०१ वेद वै ते

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.1)+++वेद वै ते तक्मन् नाम
विश्वसो नाम वा असि ।
असमरथो नाम ते पिता
हार्षी नाम तक्मन् ते माता
शिमिदा नाम ते स्वसा ॥

०२ गिरिं गच्छेति साप्तमिकी

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.2a; PS 4.24.7cd are repeated (sāptamikī- ‘the seventh ṛc- [of PS 4.24]’))+++गिरिं गच्छेति साप्तमिकी ॥

०३ असुरास् त्वोद् अव

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.2bc3ab)+++असुरास् त्वोद् अव भरन्
समुद्राद् अधि मायया ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥

०४ रोगस्थानम् असृक्स्थानम् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.3cdef)+++रोगस्थानम् असृक्स्थानम्
अथो आस्रावभेषजम् ।
बभ्रोर् अश्वस्य वारेण्- +++(vāreṇa)+++
-आपि नह्यामि ता अहम् ॥

०५ यन् मे दण्डो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.45ab)+++यन् मे दण्डो वापाति
दीक्षया तपसा सह ।
तम् अहं पुनर् आ ददे
पुनर् इन्द्रः पुनर् भगः ।
पुनर् मे ब्रह्मणस्पतिर्
ब्रह्म जीवितवा अदात् ॥

०६ इत्थाद् उलूकाप तन्वन्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.6)+++इत्थाद् उलूकाप तन्वन्
उत्तानपादम् अर्भकः ।
स मे प्रेमाणम् आ वहद्
अप द्वेषः परा वहत् ॥

०७ यथा बाणः सुसंशितः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(ab = PSK 20.54.7ab; cd- not found in PSK; PSK 20.54.7cd repeats PS 19.23.12c and PS 11.2.13c instead)+++यथा बाणः सुसंशितः
परापतत्य् आशुमत् ।
एवा मूत्रस्य ते धारा
परा पतति केतुमत् ॥

०८ यथा मधु मधुकृतः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.8)+++यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवा मे मधुमद् वचो
देवेषु पुरुषेषु च ॥

०९ दीर्घायुत्वाय तपसे मह्या

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.9)+++दीर्घायुत्वाय तपसे
मह्या अरिष्टतातये ।
सुपर्णो मह्यम् अब्रवीद्
एतद् उत्सक्तभेषजम्
एतत् पुलिशभेषजम् ॥

१० अग्नी रक्षांसीत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.54.10, PS 16.8.4 is repeated)+++अग्नी रक्षांसीत्य् एका ॥