०५७

सर्वाष् टीकाः ...{Loading}...

०१ सनिर् असि सनितासि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.1)+++सनिर् असि सनितासि सनेयम् ॥

०२ कृतिर् असि कर्तासि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.2)+++कृतिर् असि कर्तासि क्रियासम् ॥

०३ वित्तिर् असि वेत्तासि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.3)+++वित्तिर् असि वेत्तासि विदेयम् ॥

०४ भूतिर् असि भूतासि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.4)+++भूतिर् असि भूतासि भूयासम् ॥

०५ भूर् असि सुभूर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.5)+++भूर् असि सुभूर् असि सुभूर् नामासि ॥

०६ प्रजापतेर् मध्यमः श्रेष्ठो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.6a)+++प्रजापतेर् मध्यमः श्रेष्ठो रश्मिर् असि ॥

०७ भूतये त्वा वित्तये

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.6b)+++भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि ॥

०८ अग्निर् वह्निर् वह्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.7a)+++अग्निर् वह्निर् वह्निर् अग्निः ॥

०९ इन्द्र आरोद्धा प्रजापतिः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.7bc; PSK 20.53.7d- agneṣṭha syona)+++इन्द्र आरोद्धा प्रजापतिः प्रदाता ॥

१० बृहस्पतेस् त्वा मुखेन

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.8bc; PSK 20.53.8a- bhakṣayāmi bṛhaspater mukhena)+++बृहस्पतेस् त्वा मुखेन याचामि
सूर्यस्य त्वा चक्षुषा प्रतीक्षे
अदब्धेन त्वा चक्षुषावेक्षे ॥

११ अयुतो ऽहम् अयुतो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.9)+++अयुतो ऽहम् अयुतो म आत्मा
अयुतं मे चक्षुर् अयुतं मे श्रोत्रम्
अयुतो मे प्राणो अयुतो मे ऽपानो अयुतो ऽहं सर्वः ॥

१२ देवस्य त्वा सवितुः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.10a)+++देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥

१३ अग्नेष् ट्वास्येन प्राश्नामि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(not found in PSK)+++अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन ॥

१४ इन्द्रस्य त्वा जठरे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.10b)+++इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे ॥

१५ यो अग्निर् नृमणा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.11a)+++यो अग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः ॥

१६ तस्मिन्न् एतत् सुहुतम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.53.11bc)+++तस्मिन्न् एतत् सुहुतम् अस्तु प्राशितं
तन् मा मा हिंसीः परमे व्योमन् ॥