०५३

सर्वाष् टीकाः ...{Loading}...

०१ धाता ते हस्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

(see Kajihara 2011, 41-42; PSK 20.49.1)धाता ते हस्तम् अग्रहीत्
सविता हस्तम् अग्रहीत् ।
मित्रस् त्वम् असि धर्मण्- (dharmaṇā)
-अग्निर् आचार्यस् तव ॥

०२ अग्नेर् ब्रह्मचार्य् असि

विश्वास-प्रस्तुतिः ...{Loading}...

(see Kajihara 2011, 42; PSK 20.49.2ab3cde)अग्नेर् ब्रह्मचार्य् असि
मम ब्रह्मचार्य् असि ।
प्रजापतिष् ट्वा गोपायतु
देवाय त्वा सवित्रे परि ददामि
स्वस्ति चरताद् इहासौ ॥

०३ विश्वम् असि विश्वपते

विश्वास-प्रस्तुतिः ...{Loading}...

(see Kajihara 2011, 42; PSK 20.49.3ab2cd)विश्वम् असि विश्वपते
सर्वम् असि सर्वपते ।
तं त्वासौ देवाय त्वा सवित्रे परि ददामि
स्वस्ति चरतान् मयि ॥

०४ समाववर्त्ति विष्ठितो जिगीषुर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.4)समाववर्त्ति विष्ठितो जिगीषुर्
विश्वेषां कामश् चरताम् इहास्तु ।
विश्वा द्वेषांसि दुरिता हित्व्- (hitvā)
-आ यन्त्व् अनुव्रता सवितुर् दैव्यस्य ॥

०५ आ नो हस्तो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.5)आ नो हस्तो अकृतागात् स्वर्गः
पुनर् ऐतु तन्वा संविदानः ।
प्राणेन तेजसा हरसा बलेन
मित्रो अस्मान् वरुण उभयतस् पातु ॥

०६ यत् काम कामयमाना

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.6)यत् काम कामयमाना
इदं कृण्मसि ते हविः ।
तन् नः सर्वं सम् ऋध्यताम्
अथैतस्य हविषो वीहि स्वाहा ॥

०७ यद् वर्चो द्यावापृथिव्योर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.7)यद् वर्चो द्यावापृथिव्योर्
अथो यद् आञ्जन त्वयि ।
तेन सुचक्षा वर्चस्य्
अहं भूयासम् आञ्जन ॥

०८ यद्य् अस्पृषि श्लिष्टम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.8)यद्य् अस्पृषि श्लिष्टं
यदि वा स्वप्नयानुश्लिष्टम् ।
आश्लिष्टावच्छेदनम्
अस्य् अभिदृष्टवीर्यम् ॥

०९ अव वार् इव

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.9)अव वार् इव वारिवा
अव वर्षं गिरेर् इव ।
अव ज्याम् इव धन्वनो
हृदि श्लिष्टं छिनद्मि ते ॥

१० यत् ते हृदि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.49.10)यत् ते हृदि श्लिष्टं
यच् च श्लिष्टं पुरीतति ।
मध्ये पृष्टीनां यच् छ्लिष्टं
तत् पार्ष्ण्याव छिनद्मि ते ॥