०५०

सर्वाष् टीकाः ...{Loading}...

०१ अभि त्वा पञ्चशाखेन

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.3)+++अभि त्वा पञ्चशाखेन
हस्तेनाधां सहीयसा ।
यथा न विद्विषावहै
न विभवाव कदा चन ॥

०२ चाक्रवाकं संवननम् अस्यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.4)+++चाक्रवाकं संवननम्
अस्यस्य स्वंकरम् ।
अमुं स्वं कृणोतु मे
यम् अहं कामये प्रियम् ॥

०३ यत् कक्षीवां संवननम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.5)+++यत् कक्षीवां संवननं
च्यवनश् चक्र आसुरः ।
तद् वां कृणोमि दम्पती
सं प्रियौ भवतं युवम् ॥

०४ यथा संयुक्तौ पक्षिणौ

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.6)+++यथा संयुक्तौ पक्षिणौ
संप्रियौ चरतो मृगौ ।
एवा संयुक्तौ ब्रह्मणा
संप्रियौ भवतं युवम् ॥

०५ प्रेहि प्र हर

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.7)+++प्रेहि प्र हर पादाव्
आ गृहेभ्यः स्वस्तये ।
कपिञ्जल प्रदक्षिणं
शतपत्राभि नो वद ॥

०६ भद्रं वद दक्षिणतो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.8)+++भद्रं वद दक्षिणतो
भद्रम् उत्तरतो वद ।
भद्रं पुरस्तान् नो वद
भद्रं पश्चात् कपिञ्जल ॥

०७ शुनं वद दक्षिणतः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.9)+++शुनं वद दक्षिणतः
शुनम् उत्तरतो वद ।
शुनं पुरस्तान् नो वद
शुनं पश्चात् कपिञ्जल ॥

०८ यौवनानि महयसि जिग्युषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.46.10)+++यौवनानि महयसि
जिग्युषाम् इव दुन्दुभिः ।
कपिञ्जल प्रदक्षिणं
शतपत्राभि नो वद ॥