०४८

सर्वाष् टीकाः ...{Loading}...

०१ स्नुषासौ सेनास्याः सेनाया

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)स्नुषासौ सेनास्याः सेनाया
इहास्याः श्वशुरोयम् अस्याः श्वशुरः ।
सा यथा स्नुषा श्वशुराद् अधस्पद्यते
अधरा पद्यते नीची पद्यते ॥

०२ एवासौ सेनास्याः सेनाया

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)एवासौ सेनास्याः सेनाया
अधस् पद्यताम् अधरा पद्यतां नीची पद्यताम् ।
सेन्द्राग्निभ्यां हतवीरां हतपूरुषां
पराजितां प्रणुत्तैतु परमां परावतम् ॥

०३ ताम् इन्द्राग्नी हतवीराम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)ताम् इन्द्राग्नी हतवीरां हतपूरुषां पराजितां
प्रणुत्तां यतीम् अन्वाक्शीताम् ।
पराजित एत्व् असाव् आमुष्यायणो अमुष्याः पुत्रः ॥

०४ अस्ना व्यक्त एतु

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)अस्ना व्यक्त एतु ।
अघं हि रण्येत्व् असाव् आमुष्यायणो अमुष्याः पुत्रः ॥

०५ अघप्रतीको अघेनैनं विध्यामः

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)अघप्रतीको अघेनैनं विध्यामः ।
अभूत्या एनं पाशे सित्वा
दुष्वप्न्येन सं सृज्य
मृत्योर् व्यात्त आसन्न् अपि दधामि ॥