०४४

सर्वाष् टीकाः ...{Loading}...

०१ अग्निस् तक्मानम् अप

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.1)+++अग्निस् तक्मानम् अप बाधताम् इतो
वरुणो ग्रावा मरुतः पूतदक्षाः ।
बर्हिषदः समिधः शोशुचानास्
तक्मनः शोचाम् अप निर् नुदन्तु ॥

०२ यो अभ्यवभृणायसि स्वपन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.2)+++यो अभ्यवभृणायसि
स्वपन्तम् इच्छ पुरुषं
शयानम् अकोविदम् ।
स नः सहस्रवीर्य्- +++(sahasravīrya)+++
-आनुष्ठाता शिवो भव ॥

०३ देवयातुर् असि मृडो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.3)+++देवयातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥

०४ ब्रह्मयातुर् असि मृडो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.5; pādas bcd not written)+++ब्रह्मयातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥

०५ अन्नयातुर् असि मृडो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.4; pādas bcd not written)+++अन्नयातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥

०६ मनुष्ययातुर् असि मृडो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(not found in PSK; PSK 20.42.6 is- paretyayātur asi …)+++मनुष्ययातुर् असि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे
मा तस्य मीमृडो द्विपदे चतुष्पदे
यो अस्मान् द्वेष्टि यं वयं द्विष्मः ॥

०७ अवभरणो नामासि देवत्रा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(a = PSK 20.42.7a)+++अवभरणो नामासि देवत्रा णो अक्षमापः ।
यो अस्मान् द्वेष्टि यं वयं द्विष्मस्
तं त आसन्न् अपि दघ्मः ॥

०८ यद् अदोस्नाता आसुरो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.7cd8)+++यद् अदोस्नाता आसुरो दीक्षितो ऽचरत् ।
तस्य यन् मलम् अवास्रवत्
स हि नासि तावद् अनुष्ठ्या त्वा विद्म-
-अरसं वृश्चिक ते विषम् ॥

०९ केतुलुङ्गा नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.9)+++केतुलुङ्गा नाम ते माता कर्कटः पिता ।
तत् सत्यम् अरसम् अभग ते विषम् ॥

१० द्वे विषस्य धारे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.42.10)+++द्वे विषस्य धारे स्त्रिया अन्या पुंसो अन्या ।
ते उभे अरसे ॥